Shri Krishna Sharanam mam (श्रीकृष्णः शरणं मम)

श्रीकृष्णः शरणं मम श्रीकृष्ण एव शरणं मम श्रीकृष्ण एव शरणम् ॥ (ध्रुवपदम्) गुणमय्येषा न यत्र माया न च जनुरपि मरणम् । यद्यतयः पश्यन्ति समाधौ परममुदाभरणम् ॥ १ ॥ यद्धेतोर्निवहन्ति बुधा ये जगति सदाचरणम् । सर्वापद्भ्यो विहितं महतां येन समुद्धरणम् ॥ २ ॥ भगवति यत्सन्मतिमुद्वहतां हृदयतमोहरणम् । हरिपरमा यद्भजन्ति सततं निषेव्य गुरुचरणम् ॥३॥ असुरकुलक्षतये कृतममरैर्यस्य सदादरणम् । भुवनतरुं धत्ते यन्निखिलं विविधविषयपर्णम् ॥ ४ ॥ अवाप्य यद्भूयोऽच्युतभक्ता न यान्ति संसरणम् । कृष्णलालजीद्विजस्य भूयात्तदघहरस्मरणम् ॥ ५ ॥ इति श्रीकृष्णलालजीद्विजविरचितं 'श्रीकृष्णः शरणं मम' नामक स्तोत्रं समाप्तम् ।