Shri Yamunashtakam Stotra (श्रीयमुनाष्टकम् )

श्रीयमुनाष्टकम् (Shri Yamunashtakam) मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी । मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥ मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम् । सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता। धुनोतु० ॥ २ ॥ लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका । तटान्तवासदासहंससंसृता हि कामदा । धुनोतु० ॥ ३॥ विहाररासखेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदा । धुनोतु० ॥ ४॥ तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता । शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता । भवार्चनाय चारुणाम्बुनाधुना विशारदा । धुनोतु० ॥५॥ जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गसङ्गतांशभागिनी । स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा । धुनोतु० ॥ ६॥ जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी । सदावगाहनावतीर्णभर्तृभृत्यनारदा । धुनोतु० ॥ ७॥ सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला । जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा । धुनोतु० ॥ ८ ॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम् ॥