Sudarshan Ashtottara Shat Naam Stotram (सुदर्शन अष्टोत्तर शत नाम स्तोत्रम्)

सुदर्शन अष्टोत्तर शत नाम स्तोत्रम् (Sudarshan Ashtottara Shat Naam Stotram) सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः । सहस्रबाहु-र्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ 1॥ अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः । सौदामिनी-सहस्राभः मणिकुण्डल-शोभितः ॥ 2॥ पञ्चभूतमनोरूपो षट्कोणान्तर-संस्थितः । हरान्तः करणोद्भूत-रोषभीषण-विग्रहः ॥ 3॥ हरिपाणिलसत्पद्मविहारारमनोहरः । श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ 4॥ चतुर्दशसहस्रारः चतुर्वेदमयो-ऽनलः । भक्तचान्द्रमसज्योतिः भवरोग-विनाशकः ॥ 5॥ रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः । सर्वदैत्यग्रीवनाल-विभेदन-महागजः ॥ 6॥ भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः । नीलवर्त्मा नित्यसुखो निर्मलश्री-र्निरञ्जनः ॥ 7॥ रक्तमाल्याम्बरधरो रक्तचन्दनरूषितः । रजोगुणाकृतिश्शूरो रक्षःकुल-यमोपमः ॥ 8॥ नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः । नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥ 9॥ बलिनन्दनदोर्दण्ड-खण्डनो विजयाकृतिः । मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ 10॥ रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् । हरिमायागुणोपेतो-ऽव्ययो-ऽक्षस्वरूपभाक् ॥ 11॥ परमात्मा परञ्ज्योतिः पञ्चकृत्य-परायणः । ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभामयः ॥ 12॥ सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः । जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥ 13॥ मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः । बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ 14॥ मन्त्र-यन्त्र-प्रभावज्ञो मन्त्र-यन्त्र-मयो विभुः । स्रष्टा क्रियास्पद-श्शुद्धः आधारश्चक्र-रूपकः ॥ 15॥ निरायुधो ह्यसंरम्भः सर्वायुध-समन्वितः । ओम्काररूपी पूर्णात्मा आङ्कारस्साध्य-बन्धनः ॥ 16॥ ऐङ्कारो वाक्प्रदो वग्मी श्रीङ्कारैश्वर्यवर्धनः । क्लीङ्कारमोहनाकारो हुम्फट्क्षोभणाकृतिः ॥ 17॥ इन्द्रार्चित-मनोवेगो धरणीभार-नाशकः । वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥ 18॥ सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः' नारायणकृपाव्यूह-तेजश्चक्र-स्सुदर्शनः ॥ 19॥ ॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम्॥