Manidvipa-Varnan Collection

    Manidweep varnan - 1 (Devi Bhagavatam) मणिद्वीप वर्णन - 1 (देवी भागवतम्)

    मणिद्वीप वर्णन - 1 (देवी भागवतम्) (Manidweep varnan - 1 (Devi Bhagavatam)) (श्रीदेवीभागवतं, द्वादश स्कन्धं, दशमोऽध्यायः, , मणिद्वीप वर्णन - 1) व्यास उवाच – ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1 ॥ सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ 2 ॥ सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ 3 ॥ गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । नैतत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ 4 ॥ छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् । छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ 5 ॥ बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6 ॥ मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः । रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ 7 ॥ वीचिसङ्घर्षसञ्जातलहरीकणशीतलः । नानाध्वजसमायुक्ता नानापोतगतागतैः ॥ 8 ॥ विराजमानः परितस्तीररत्नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9 ॥ सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10 ॥ रक्षका निवसन्त्यत्र मोदमानाः समन्ततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11 ॥ नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ 12 ॥ तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि । विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ 13 ॥ हयहेषाखुराघातबधिरीकृतदिम्मुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14 ॥ सेवका देवसङ्गानां भ्राजन्ते तत्र भूमिप । तस्मिङ्कोलाहले राजन्नशब्दः केनचित्क्वचित् ॥ 15 ॥ कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरान्सि च ॥ 16 ॥ वाटिका विविधा राजन् रत्नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ 17 ॥ सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18 ॥ गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ 19 ॥ निरन्तरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ 20 ॥ पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ 21 ॥ लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा । पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ 22 ॥ तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23 ॥ अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ 24 ॥ चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ 25 ॥ खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिञ्चाभल्लातकास्तथा ॥ 26 ॥ रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27 ॥ इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ 28 ॥ कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29 ॥ नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30 ॥ पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम् ॥ 31 ॥ सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32 ॥ नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ 33 ॥ कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34 ॥ द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ 35 ॥ पत्राणि काञ्चनाभानि रत्नबीजफलानि च । दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ 36 ॥ तद्वनं रक्षितं राजन्वसन्तेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37 ॥ पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38 ॥ क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः । अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ 39 ॥ दशयोजनपर्यन्तं कुसुमामोदवायुना । पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः ॥ 40 ॥ शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41 ॥ ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया ॥ 42 ॥ सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ 43 ॥ हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44 ॥ ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45 ॥ सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46 ॥ विलासिनीनां बृन्दैस्तु चन्दनद्रवपङ्किलैः । पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ 47 ॥ [पाठभेदः- प्राकारः] प्रकारः शोभितो एजच्छीतलाम्बुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48 ॥ प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् । हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49 ॥ सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50 ॥ वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः । सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ 51 ॥ नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका ॥ 52 ॥ वर्षयन्ती चिबुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53 ॥ नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥ 54 ॥ नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः । सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ 55 ॥ वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56 ॥ ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57 ॥ पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58 ॥ अधिष्ठाताऽत्र सम्प्रोक्तः शरदृतुरनामयः । इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59 ॥ नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः । पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60 ॥ दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61 ॥ दशयोजनगन्धीनि कुसुमानि समन्ततः । मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62 ॥ तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रञ्जयन्नपः ॥ 63 ॥ सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64 ॥ रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ 65 ॥ मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता । कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ 66 ॥ याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते । तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ 67 ॥ तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68 ॥ नानाविलाससंयुक्तो नानागणसमावृतः । निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ 69 ॥ नानाभोगसमुत्पन्नमहानन्दसमन्विताः । साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः ॥ 70 ॥ स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुङ्कुमारुणविग्रहः ॥ 71 ॥ पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72 ॥ प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः । वनभूः पक्षिनश्चैव रत्नवर्णजलानि च ॥ 73 ॥ मण्डपा मण्डपस्तम्भाः सरान्सि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74 ॥ परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75 ॥ दिक्पाला निवसन्त्यत्र प्रतिब्रह्मान्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76 ॥ पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती । नानोपवनसंयुक्ता महेन्द्रस्तत्र राजते ॥ 77 ॥ स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78 ॥ ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79 ॥ देवाङ्गनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप ॥ 80 ॥ स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81 ॥ याम्याशायां यमपुरी तत्र दण्डधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82 ॥ निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83 ॥ खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84 ॥ महाझशसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85 ॥ समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86 ॥ वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87 ॥ मरुद्गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ॥ 88 ॥ यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ 89 ॥ मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90 ॥ इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ 91 ॥ अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92 ॥ स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः । स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः ॥ 93 ॥ विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94 ॥ दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अन्तरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥ 95 ॥ रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96 ॥ नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन्विराजते ॥ 97 ॥ मुण्डमालाधरो नागवलयो नागकन्धरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98 ॥ चिताभस्माङ्गलिप्ताङ्गः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिम्मुखः ॥ 99 ॥ अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः । भूतसङ्घसमाविष्टो भूतावासो महेश्वरः ॥ 100 ॥ ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 101 ॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥

    Manidvipa Varnan - 2 (Devi Bhagavatam) मणिद्वीप वर्णन - 2 (देवी भागवतम्)

    मणिद्वीप वर्णन - 2 (देवी भागवतम्) [Manidvipa Varnan - 2 (Devi Bhagavatam)] (श्रीदेवीभागवतं, द्वादश स्कन्धं, एकादशोऽध्यायः, मणिद्वीप वर्णन - 2) व्यास उवाच । पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैवतादृशी ॥ 1 ॥ दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ 2 ॥ मध्ये भुविसमासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरावीरा रत्नभूषणभूषिताः ॥ 3 ॥ प्रत्येकलोकस्तासां तु तत्तल्लोकस्यनायकाः । समन्तात्पद्मरागस्य परिवार्यस्थिताः सदा ॥ 4 ॥ स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ 5 ॥ पिङ्गलाक्षी विशालाक्षी समृद्धि वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया सञ्ज्ञा वसुन्धरा ॥ 6 ॥ त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ 7 ॥ विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ 8 ॥ सन्ध्यामाता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना ॥ 9 ॥ त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्टी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ 10 ॥ रथरेखाह्वया पश्चाच्छशिरेखा तथा परा । गगनवेगा पवनवेगा चैव ततः परम् ॥ 11 ॥ अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ 12 ॥ अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयङ्करी भवेच्छक्ति रक्षोभ्या च ततः परम् ॥ 13 ॥ सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता । उदाराख्या च वागीशी चतुष्षष्टिमिताः स्मृताः ॥ 14 ॥ ज्वलज्जिह्वाननाः सर्वावमन्त्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामोविभावसुम् ॥ 15 ॥ पवनं स्तम्भयामोद्य भक्षयामोऽखिलं जगत् । इति वाचं सङ्गिरते क्रोध संरक्तलोचनाः ॥ 16 ॥ चापबाणधराः सर्वायुद्धायैवोत्सुकाः सदा । दंष्ट्रा कटकटारावैर्बधिरीकृत दिङ्मुखाः ॥ 17 ॥ पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ 18 ॥ एकैक शक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने । शताक्षौहिणिकासेना तादृशी नृप सत्तम ॥ 19 ॥ किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ 20 ॥ रथानां गणना नास्ति हयानां करिणां तथा ॥ शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ 21 ॥ पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ 22 ॥ भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासि सदनानि च ॥ 23 ॥ पक्षिणः स्तम्भवर्याश्च वृक्षावाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ 24 ॥ तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नाना शस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ 25 ॥ प्रत्येक लोक वासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ 26 ॥ स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पच च्छिन्धि दहेति च ॥ 27 ॥ वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ 28 ॥ सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप ॥ 29 ॥ रथानां नैव गणाना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ 30 ॥ तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्या ह्री पुष्ट यः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 31 ॥ रुद्रावीर्या प्रभानन्दा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ 32 ॥ विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ 33 ॥ इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 34 ॥ अम्बिकाह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ 35 ॥ पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ 36 ॥ दशयोजन तुङ्गोऽसौ गोपुरद्वारसंयुतः । कपाटशृङ्खलाबद्धो नववृक्ष समुज्ज्वलः ॥ 37 ॥ सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणिवीथयो रथ्या महामार्गां गणानि च ॥ 38 ॥ वृक्षालवाल तरवः सारङ्गा अपि तादृशाः । दीर्घिकाश्रेणयोवाप्यस्तडागाः कूप संयुताः ॥ 39 ॥ तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ 40 ॥ तालवृन्तधराः काश्चिच्चषकाढ्य कराम्बुजाः । काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ 41 ॥ काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नाना वस्त्रधराः काश्चित्काश्चित्पुष्प कराम्बुजाः ॥ 42 ॥ नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् । धारयन्त्यः कज्जलं च सिन्दूर चषकं पराः ॥ 43 ॥ काश्चिच्चित्रक निर्मात्र्यः पाद संवाहने रताः । काश्चित्तु भूषाकारिण्यो नाना भूषाधराः पराः ॥ 44 ॥ पुष्पभूषण निर्मात्र्यः पुष्पशृङ्गारकारिकाः । नाना विलासचतुरा बह्व्य एवं विधाः पराः ॥ 45 ॥ निबद्ध परिधानीया युवत्यः सकला अपि । देवी कृपा लेशवशात्तुच्छीकृत जगत्त्रयाः ॥ 46 ॥ एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः । तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ 47 ॥ अनङ्गरूपा प्रथमाप्यनङ्गमदना परा । तृतीयातु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ 48 ॥ ततो भुवनवेगास्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ 49 ॥ विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः । रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ 50 ॥ धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ 51 ॥ अष्टदिक्षुतथैतासां प्राकाराद्बहिरेव च । सदनानि विराजन्ते नाना वाहनहेतिभिः ॥ 52 ॥ वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ 53 ॥ वैदूर्यभूमिः सर्वापिगृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वेदूर्यनिर्मिताः ॥ 54 ॥ वापी कूप तडागाश्च स्रवन्तीनां तटानि च । वालुका चैव सर्वाऽपि वैदूर्यमणिनिर्मिता ॥ 55 ॥ तत्राष्टदिक्षुपरितो ब्राह्म्यादीनां च मण्डलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ 56 ॥ प्रतिब्रह्माण्डमातृणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥57 ॥ वाराही च तथेन्द्राणी चामुण्डाः सप्तमातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ 58 ॥ ब्रह्मरुद्रादिदेवानां समाकारा स्तुताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ 59 ॥ तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ 60 ॥ दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ 61 ॥ तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ 62 ॥ कोटिशस्तु विमानानि नाना चिह्नान्वितानि च । नाना वादित्रयुक्तानि महाध्वजयुतानि च ॥ 63 ॥ वैदूर्यमणि सालस्याप्यग्रे सालः परः स्मृतः । दशयोजन तुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ 64 ॥ तन्मध्य भूस्तथा वीथ्यो महामार्गा गृहाणि च । वापी कूप तडागाश्च सर्वे तन्मणिनिर्मिताः ॥ 65 ॥ तत्र पद्म तु सम्प्रोक्तं बहुयोजन विस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ 66 ॥ तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ 67 ॥ तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती ॥ 68 ॥ श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥ 69 ॥ नीलजीमूतसङ्काशाः करवाल कराम्बुजाः । समाः खेटकधारिण्यो युद्धोपक्रान्त मानसाः ॥ 70 ॥ सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ 71 ॥ ब्रह्माण्डक्षोभकारिण्यो देवी शक्त्युपबृंहिताः । नाना रथसमारूढा नाना शक्तिभिरन्विताः ॥ 72 ॥ एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ 73 ॥ मुक्ताप्राकार उदितो दशयोजन दैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ 74 ॥ मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ 75 ॥ सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्गितज्ञास्तुपण्डिताः ॥ 76 ॥ कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्राय बोध्यस्ताश्चतुरा अतिसुन्दराः ॥ 77 ॥ नाना शक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्याविदन्ति च ॥ 78 ॥ तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम । अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ 79 ॥ अनङ्गमदना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम् ॥ 80 ॥ शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ 81 ॥ विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतो परः ॥ 82 ॥ सालोत्तमः समुद्दिष्टो दशयोजन दैर्घ्यवान् । नाना सौभाग्यसंयुक्तो नाना भोगसमन्वितः ॥ 83 ॥ मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्रविस्तीर्णं कोणस्था देवताः शृणुः ॥ 84 ॥ पूर्वकोणे चतुर्वक्त्रो गायत्री सहितो विधिः । कुण्डिकाक्षगुणाभीति दण्डायुधधरः परः ॥ 85 ॥ तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ 86 ॥ स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ 87 ॥ व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षः कोणे शङ्खचक्रगदाम्बुज कराम्बुजा ॥ 88 ॥ सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोखिलाः ॥ 89 ॥ सावित्री विग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ 90 ॥ महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ 91 ॥ गौरी भेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येप्यागमाः स्मृताः ॥ 92 ॥ ते सर्वे मूर्तिमन्तश्च तत्र वै निवसन्ति हि । अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ 93 ॥ दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नाना वीथी समायुक्तो महालक्ष्मीसमन्वितः ॥ 94 ॥ देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ 95 ॥ पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते । शृङ्गारमूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ 96 ॥ ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ 97 ॥ विभूतयो गणेशस्य यायाः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ 98 ॥ प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ 99 ॥ महामारकतस्याग्रे शतयोजन दैर्घ्यवान् । प्रवालशालोस्त्यपरः कुङ्कुमारुणविग्रहः ॥ 100 ॥ मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ 101 ॥ हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ 102 ॥ पाशाङ्कुशवराभीतिधारिण्योमितभूषणाः । देवी समानवेषाढ्या नवयौवनगर्विताः ॥ 103 ॥ प्रवालशालादग्रे तु नवरत्न विनिर्मितः । बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥ 104 ॥ तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च ॥ 105 ॥ श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ 106 ॥ निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ 107 ॥ सप्तकोटि महामन्त्रदेवताः सन्ति तत्र हि । नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ 108 ॥ तत्र त्यं वस्तु मात्रं तु चिन्तामणि विनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ 109 ॥ विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तस्थं वस्तु किञ्चिन्न दृश्यते ॥ 110 ॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे एकादशोऽध्यायः ।

    Manidvipa Varnan - 3 (Devi Bhagavatam) मणिद्वीप वर्णन - 3 (देवी भागवतम्)

    मणिद्वीप वर्णन - 3 (देवी भागवतम्) [Manidvipa Varnan - 3 (Devi Bhagavatam)] (श्रीदेवीभागवतं, द्वादश स्कन्धं, द्वादशोऽध्यायः, मणिद्वीप वर्णन - 3) व्यास उवाच । तदेव देवीसदनं मध्यभागे विराजते । सहस्र स्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ 1 ॥ शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च । ज्ञानमण्डप सञ्ज्ञस्तु तृतीयः परिकीर्तितः ॥ 2 ॥ एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः । नाना वितानसंयुक्ता नाना धूपैस्तु धूपिताः ॥ 3 ॥ कोटिसूर्यसमाः कान्त्या भ्राञ्जन्ते मण्डपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ 4 ॥ मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः । असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5 ॥ महापद्माटवी तद्वद्रत्नसोपाननिर्मिता । सुधारसेनसम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ 6 ॥ हंसकारण्डवाकीर्णा गन्धपूरित दिक्तटा । वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ 7 ॥ शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः । सभासदो देववशा मध्ये श्रीजगदम्बिका ॥ 8 ॥ मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा । ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ 9 ॥ चतुर्थमण्डपे चैव जगद्रक्षा विचिन्तनम् । मन्त्रिणी सहिता नित्यं करोति जगदम्बिका ॥ 10 ॥ चिन्तामणिगृहे राजञ्छक्ति तत्त्वात्मकैः परैः । सोपानैर्दशभिर्युक्तो मञ्चकोप्यधिराजते ॥ 11 ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12 ॥ तस्योपरि महादेवो भुवनेशो विराजते । या देवी निजलीलार्थं द्विधाभूता बभूवह ॥ 13 ॥ सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः । कन्दर्प दर्पनाशोद्यत्कोटि कन्दर्पसुन्दरः ॥ 14 ॥ पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषण भूषितः । हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ 15 ॥ दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् । कोटिसूर्य प्रतीकाशश्चन्द्रकोटि सुशीतलः ॥ 16 ॥ शुद्धस्फटिक सङ्काशस्त्रिनेत्रः शीतल द्युतिः । वामाङ्के सन्निषण्णाऽस्य देवी श्रीभुवनेश्वरी ॥ 17 ॥ नवरत्नगणाकीर्ण काञ्चीदाम विराजिता । तप्तकाञ्चनसन्नद्ध वैदूर्याङ्गदभूषणा ॥ 18 ॥ कनच्छ्रीचक्रताटङ्क विटङ्क वदनाम्बुजा । ललाटकान्ति विभव विजितार्धसुधाकरा ॥ 19 ॥ बिम्बकान्ति तिरस्कारिरदच्छद विराजिता । लसत्कुङ्कुमकस्तूरीतिलकोद्भासितानना ॥ 20 ॥ दिव्य चूडामणि स्फार चञ्चच्चन्द्रकसूर्यका । उद्यत्कविसमस्वच्छ नासाभरण भासुरा ॥ 21 ॥ चिन्ताकलम्बितस्वच्छ मुक्तागुच्छ विराजिता । पाटीर पङ्क कर्पूर कुङ्कुमालङ्कृत स्तनी ॥ 22 ॥ विचित्र विविधा कल्पा कम्बुसङ्काश कन्धरा । दाडिमीफलबीजाभ दन्तपङ्क्ति विराजिता ॥ 23 ॥ अनर्घ्य रत्नघटित मुकुटाञ्चित मस्तका । मत्तालिमालाविलसदलकाढ्य मुखाम्बुजा ॥ 24 ॥ कलङ्ककार्श्यनिर्मुक्त शरच्चन्द्रनिभानना । जाह्नवीसलिलावर्त शोभिनाभिविभूषिता ॥ 25 ॥ माणिक्य शकलाबद्ध मुद्रिकाङ्गुलिभूषिता । पुण्डरीकदलाकार नयनत्रयसुन्दरी ॥ 26 ॥ कल्पिताच्छ महाराग पद्मरागोज्ज्वलप्रभा । रत्नकिङ्किणिकायुक्त रत्नकङ्कणशोभिता ॥ 27 ॥ मणिमुक्तासरापार लसत्पदकसन्ततिः । रत्नाङ्गुलिप्रवितत प्रभाजाललसत्करा ॥ 28 ॥ कञ्चुकीगुम्फितापार नाना रत्नततिद्युतिः । मल्लिकामोदि धम्मिल्ल मल्लिकालिसरावृता ॥ 29 ॥ सुवृत्तनिबिडोत्तुङ्ग कुचभारालसा शिवा । वरपाशाङ्कुशाभीति लसद्बाहु चतुष्टया ॥ 30 ॥ सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी । सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31 ॥ निजसंलापमाधुर्य विनिर्भर्त्सितकच्छपी । कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ 32 ॥ नाना सखीभिर्दासीभिस्तथा देवाङ्गनादिभिः । सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ 33 ॥ इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता । लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ 34 ॥ बुद्धिर्मेधास्मृतिर्लक्ष्मीर्मूर्तिमत्योङ्गनाः स्मृताः । जया च विजया चैवाप्यजिता चापराजिता ॥ 35 ॥ नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नवा । पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ 36 ॥ यस्यास्तु पार्श्वभागेस्तोनिधीतौ शङ्खपद्मकौ । नवरत्न वहानद्यस्तथा वै काञ्चनस्रवाः ॥ 37 ॥ सप्तधातुवहानद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38 ॥ सा देवी भुवनेशानी तद्वामाङ्के विराजते । सर्वेश त्वं महेशस्य यत्सङ्गा देव नान्यथा ॥ 39 ॥ चिन्तामणि गृहस्याऽस्य प्रमाणं शृणु भूमिप । सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ 40 ॥ तदुत्तरे महाशालाः पूर्वस्माद् द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41 ॥ सङ्कोचश्च विकाशश्च जायतेऽस्य निरन्तरम् । पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42 ॥ शालानां चैव सर्वेषां सर्वकान्तिपरावधि । चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43 ॥ येये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44 ॥ श्रीदेव्यास्ते च सर्वेपि व्रजन्त्यत्रैव भूमिप । देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ 45 ॥ ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा । घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46 ॥ स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ 47 ॥ आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफलावृक्षावाप्यः कूपास्तथैव च ॥ 48 ॥ यथेष्टपानफलदान न्यूनं किञ्चिदस्ति हि । न रोगपलितं वापि जरा वापि कदाचन ॥ 49 ॥ न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा । सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ 50 ॥ भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51 ॥ सरूपतां गताः केचित्सार्ष्टितां च परेगताः । यायास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ 52 ॥ समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ 53 ॥ महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् । कारणब्रह्मरूपां तां माया शबलविग्रहाम् ॥ 54 ॥ इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम् । न सूर्यचन्द्रौ नो विद्युत्कोटयोग्निस्तथैव च ॥ 55 ॥ एतस्य भासा कोट्यंश कोट्यंशो नापि ते समाः । क्वचिद्विद्रुमसङ्काशं क्वचिन्मरकतच्छवि ॥ 56 ॥ विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् । विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ 57 ॥ क्वचित्सिन्दूर नीलेन्द्रं माणिक्य सदृशच्छवि । हीरसार महागर्भ धगद्धगित दिक्तटम् ॥ 58 ॥ कान्त्या दावानलसमं तप्तकाञ्चन सन्निभम् । क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्र चित् ॥ 59 ॥ रत्नशृङ्गि समायुक्तं रत्नप्राकार गोपुरम् । रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमण्डितम् ॥ 60 ॥ नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् । कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61 ॥ सुरम्य रमणीयाम्बु लक्षावधि सरोवृतम् । तन्मध्यभाग विलसद्विकचद्रत्न पङ्कजैः ॥ 62 ॥ सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् । मन्दमारुत सम्भिन्न चलद्द्रुम समाकुलम् ॥ 63 ॥ चिन्तामणि समूहानां ज्योतिषा वितताम्बरम् । रत्नप्रभाभिरभितो धगद्धगित दिक्तटम् ॥ 64 ॥ वृक्षव्रात महागन्धवातव्रात सुपूरितम् । धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ 65 ॥ मणिजालक सच्छिद्र तरलोदरकान्तिभिः । दिङ्मोहजनकं चैतद्दर्पणोदर संयुतम् ॥ 66 ॥ ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च । सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ 67 ॥ पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च । सकला या दयायाश्च समाप्तिरिह भूपते ॥ 68 ॥ राज्ञ आनन्दमारभ्य ब्रह्मलोकान्त भूमिषु । आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ 69 ॥ इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् । महादेव्याः परंस्थानं सर्वलोकोत्तमोत्तमम् ॥ 70 ॥ एतस्य स्मरणात्सद्यः सर्वपापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ 71 ॥ अध्याय पञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादि बाधा तत्र भवेन्न हि ॥ 72 ॥ नवीन गृह निर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73 ॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे द्वादशोध्यायः ॥