Sahasranama-Stotram Collection

    Shri Ganesha Sahasranama Stotram (श्री गणेश सहस्रनाम स्तोत्रम्)

    श्री गणेश सहस्रनाम स्तोत्रम् (Shri Ganesha Sahasranama Stotram) ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः। एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः॥1॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः। सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः॥2॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः। हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः॥3॥ नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः। विनायको विरूपाक्षो वीरः शूरवरप्रदः॥4॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः। रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः॥5॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः। सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः॥6॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः। कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः॥7॥ कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः। भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः॥8॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः। कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः॥9॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः। हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः॥10॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित्। उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः॥11॥ किरीटी कुण्डली हारी वनमाली मनोमयः। वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः॥12॥ सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत्। दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः॥13॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः। पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः॥14॥ चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः। योगाधिपस्तारकस्थः पुरुषो गजकर्णकः॥15॥ गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी। देवदेवः स्मरः प्राणदीपको वायुकीलकः॥16॥ विपश्चिद्वरदो नादो नादभिन्नमहाचलः। वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः॥17॥ इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः। शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः॥18॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः। उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः॥19॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः। सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः॥20॥ ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः। जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक्॥21॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः। ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः॥22॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः। कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः॥23॥ नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः। व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः॥24॥ कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः। पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः॥25॥ पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः। ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः॥26॥ हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः। सद्भक्तध्याननिगडः पूजावारिनिवारितः॥27॥ प्रतापी काश्यपो मन्ता गणको विष्टपी बली। यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः॥28॥ चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः। रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः॥29॥ तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः। नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः॥30॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः। तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः॥31॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः। लिपिपद्मासनाधारो वह्निधामत्रयालयः॥32॥ उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः। पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः॥33॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः। पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः॥34॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः। ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः॥35॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः। सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान्॥36॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः। सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः॥37॥ रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः। रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः॥38॥ श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः। श्वेतातपत्ररुचिरः श्वेतचामरवीजितः॥39॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः। सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः॥40॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम्। सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः॥41॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत्। पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत्॥42॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी। अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः॥43॥ पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः। करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान्॥44॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः। भारतीसुन्दरीनाथो विनायकरतिप्रियः॥45॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः। रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः॥46॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः। आमोदमोदजननः सम्प्रमोदप्रमोदनः॥47॥ संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः। दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः॥48॥ मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः। विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः॥49॥ विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः। तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक्॥50॥ मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः। कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः॥51॥ वसुधारामदोन्नादो महाशङ्खनिधिप्रियः। नमद्वसुमतीमाली महापद्मनिधिः प्रभुः॥52॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः। ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः॥53॥ प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक्। ऐरावतादिसर्वाशावारणो वारणप्रियः॥54॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः। जयाजयपरिकरो विजयाविजयावहः॥55॥ अजयार्चितपादाब्जो नित्यानन्दवनस्थितः। विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः॥56॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः। ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः॥57॥ सुभगासंश्रितपदो ललिताललिताश्रयः। कामिनीपालनः कामकामिनीकेलिलालितः॥58॥ सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः। गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः॥59॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः। रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः॥60॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः। अमृताब्धिकृतावासो मदघूर्णितलोचनः॥61॥ उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः। सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः॥62॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः। अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः॥63॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः। अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः॥64॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः। आधारपीठमाधार आधाराधेयवर्जितः॥65॥ आखुकेतन आशापूरक आखुमहारथः। इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः॥66॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः। इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः॥67॥ इन्दीवरदलश्याम इन्दुमण्डलमण्डितः। इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः॥68॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः। ईशानमौलिरीशान ईशानप्रिय ईतिहा॥69॥ ईषणात्रयकल्पान्त ईहामात्रविवर्जितः। उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः॥70॥ उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः। ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः॥71॥ ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः। ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः॥72॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम्। लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः॥73॥ एकारपीठमध्यस्थ एकपादकृतासनः। एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः॥74॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः। ऐरंमदसमोन्मेष ऐरावतसमाननः॥75॥ ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः। औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः॥76॥ अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः। अः समस्तविसर्गान्तपदेषु परिकीर्तितः॥77॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः। कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः॥78॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः। कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत्॥79॥ खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः। खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः॥80॥ गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः। गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः॥81॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः। गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः॥82॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः। चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः॥83॥ चराचरपिता चिन्तामणिश्चर्वणलालसः। छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः॥84॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः। जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः॥85॥ स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः। टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः॥86॥ ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः। डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः॥87॥ ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः। तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः॥88॥ तारकान्तरसंस्थानस्तारकस्तारकान्तकः। स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत्॥89॥ दक्षयज्ञप्रमथनो दाता दानं दमो दया। दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः॥90॥ दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः। दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः॥91॥ धनं धनपतेर्बन्धुर्धनदो धरणीधरः। ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः॥92॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः। निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः॥93॥ परं व्योम परं धाम परमात्मा परं पदम्। परात्परः पशुपतिः पशुपाशविमोचनः॥94॥ पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः। पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः॥95॥ प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः। फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः॥96॥ बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली। ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः॥97॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः। बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः॥98॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः। भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः॥99॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः। मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः॥100॥ मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः। महाबलो महावीर्यो महाप्राणो महामनाः॥101॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः। यशस्करो योगगम्यो याज्ञिको याजकप्रियः॥102॥ रसो रसप्रियो रस्यो रञ्जको रावणार्चितः। राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः॥103॥ लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः। लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः॥104॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः। विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः॥105॥ वामदेवो विश्वनेता वज्रिवज्रनिवारणः। विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः॥106॥ शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः। शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः॥107॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः। संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्॥108॥ सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः। सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः॥109॥ साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः। स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी॥110॥ हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्। हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः॥111॥ क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः। क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः॥112॥ धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः। विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः॥113॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः। सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः॥114॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः। प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः॥115॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः। लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः॥116॥ घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम्। पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः॥117॥ राशिस्तारा तिथिर्योगो वारः करणमंशकम्। लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः॥118॥ राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः। कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत्॥119॥ भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान्। ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः॥120॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः। सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः॥121॥ समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः। साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः॥122॥ वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः। आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम्॥123॥ वैखानसं भागवतं मानुषं पाञ्चरात्रकम्। शैवं पाशुपतं कालामुखम्भैरवशासनम्॥124॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता। सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम्॥125॥ बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान्। स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् वौषड् वषण्णमः॥126॥ ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः। एक एकाक्षराधार एकाक्षरपरायणः॥127॥ एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक्। द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः॥128॥ द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः। त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः॥129॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः। चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः॥130॥ चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः। चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः॥131॥ चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः। पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः॥132॥ पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः। पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः॥133॥ पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः। पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः॥134॥ षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः। षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः॥135॥ षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः। षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः॥136॥ षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः। सप्तपातालचरणः सप्तद्वीपोरुमण्डलः॥137॥ सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः। सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः॥138॥ सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः। सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः॥139॥ सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः। अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम्॥140॥ अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः। अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः॥141॥ अष्टपीठोपपीठश्रीरष्टमातृसमावृतः। अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्॥142॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः। नवनागासनाध्यासी नवनिध्यनुशासितः॥143॥ नवद्वारपुरावृत्तो नवद्वारनिकेतनः। नवनाथमहानाथो नवनागविभूषितः॥144॥ नवनारायणस्तुल्यो नवदुर्गानिषेवितः। नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः॥145॥ दशात्मको दशभुजो दशदिक्पतिवन्दितः। दशाध्यायो दशप्राणो दशेन्द्रियनियामकः॥146॥ दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः। एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः॥147॥ द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः। त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम्॥148॥ चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः। चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः॥149॥ सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः। तषोडशाधारनिलयः षोडशस्वरमातृकः॥150॥ षोडशान्तपदावासः षोडशेन्दुकलात्मकः। कलासप्तदशी सप्तदशः सप्तदशाक्षरः॥151॥ अष्टादशद्वीपपतिरष्टादशपुराणकृत्। अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः॥152॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः। एकविंश: पुमानेकविंशत्यङ्गलिपल्लवः॥153॥ चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः। सप्तविंशतितारेशः सप्तविंशतियोगकृत्॥154॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः। षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः॥155॥ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः। पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः॥156॥ पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः। द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः॥157॥ चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः। चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः॥158॥ अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः। चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः॥159॥ शतानन्दः शतधृतिः शतपत्रायतेक्षणः। शतानीकः शतमखः शतधारावरायुधः॥160॥ सहस्रपत्रनिलयः सहस्रफणिभूषणः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्॥161॥ सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः। दशसाहस्रफणिभृत्फणिराजकृतासनः॥162॥ अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः। लक्षाधारः प्रियाधारो लक्षाधारमनोमयः॥163॥ चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः। चतुरशीतिलक्षाणां जीवानां देहसंस्थितः॥164॥ कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः। शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः॥165॥ सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः। त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः॥166॥ अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः। ॐ इति वैनायकं नाम्नां सहस्रमिदमीरितम्॥167॥ ॥ इति श्रीगणेशसहस्रनामस्तोत्रम् सम्पूर्णम् ॥ Bhagwan Ganesh

    Vishnu Sahasranama Stotram (विष्णु सहस्रनाम स्तोत्रम्)

    विष्णु सहस्रनाम स्तोत्रम् (Vishnu Sahasranama Stotram) विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः। भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥1॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः। अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥2॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः। नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥3॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः। सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥4॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः। अनादिनिधनो धाता विधाता धातुरुत्तमः॥5॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः। विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥6॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः। प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥7॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः। हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥8॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः। अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥9॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः। अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥10॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः। वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥11॥ वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः। अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥12॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः। अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥13॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः। वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥14॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः। चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥15॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः। अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥16॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः। अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः॥17॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः। अतीन्द्रियो महामायो महोत्साहो महाबलः॥18॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः। अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥19॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः। अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥20॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः। हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥21॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः। अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥22॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः। निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥23॥ अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः। सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥24॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः। अहः संवर्तको वह्निरनिलो धरणीधरः॥25॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः। सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥26॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः। सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः॥27॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः। वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥28॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः। नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥29॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः। ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥30॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः। औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥31॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः। कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥32॥ युगादिकृद्युगावर्तो नैकमायो महाशनः। अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥33॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः। क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥34॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः। अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥35॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः। वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥36॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः। अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥37॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्। महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥38॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः। सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥39॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः। महीधरो महाभागो वेगवानमिताशनः॥40॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः। करणं कारणं कर्ता विकर्ता गहनो गुहः॥41॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः। परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥42॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः। वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥43॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः। हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥44॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः। उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥45॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्। अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥46॥ अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः। नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥47॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः। सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥48॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्। मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥49॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥50॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्। अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥51॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः। आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥52॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः। शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥53॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः। विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः॥54॥ जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः। अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥55॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः। आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥56॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः। त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥57॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी। गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥58॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः। वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥59॥ भगवान् भगहाऽऽनन्दी वनमाली हलायुधः। आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥60॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः। दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥61॥ त्रिसामा सामगः साम निर्वाणं भेषजं भिक्। संन्यासकृच्छमः शान्तो निष्ठा शान्तिः पायणम्॥62॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः। गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥63॥ अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः। श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥64॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः। श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥65॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः। विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥66॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः। भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥67॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः। अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥68॥ कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः। त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥69॥ कामदेवः कामपालः कामी कान्तः कृतागमः। अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः॥70॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः। ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥71॥ महाक्रमो महाकर्मा महातेजा महोरगः। महाक्रतुर्महायज्वा महायज्ञो महाहविः॥72॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः। पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥73॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः। वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥74॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः। शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥75॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः। दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥76॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्। अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥77॥ एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्। लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥78॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी। वीरहा विषमः शून्यो घृताशीरचलश्चलः॥79॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्। सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥80॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः। प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥81॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः। चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥82॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः। दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥83॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः। इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥84॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः। अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥85॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः। महाह्रदो महागर्तो महाभूतो महानिधिः॥86॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः। अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥87॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः। न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥88॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः। अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥89॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्। अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥90॥ भारभृत् कथितो योगी योगीशः सर्वकामदः। आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥91॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः। अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥92॥ सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः। अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥93॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः। रविर्विरोचनः सूर्यः सविता रविलोचनः॥94॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः। अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥95॥ सनात्सनातनतमः कपिलः कपिरव्ययः। स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥96॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः। शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥97॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः। विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥98॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः। वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥99॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः। चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥100॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः। जननो जनजन्मादिर्भीमो भीमपराक्रमः॥101॥ आधारनिलयोऽधाता पुष्पहासः प्रजागरः। ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥102॥ प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः। तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥103॥ भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः। यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥104॥ यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः। यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च॥105॥ आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः। देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥106॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः। रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥107॥ ॥ इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Bhagwan Vishnu

    Krishna Sahasranama Stotram (कृष्ण सहस्रनाम स्तोत्रम्)

    कृष्ण सहस्रनाम स्तोत्रम् (Krishna Sahasranama Stotram) ॐ हरिर्देवकीनन्दनः कंसहंतापरात्मा च पीताम्बरः पूर्णदेवः। रमेशस्तु कृष्णः परेशः पुराणःसुरेशोऽच्युतो वासुदेवश्च देवः॥1॥ धराभारहर्ता कृती राधिकेशःपरो भूवरो दिव्यगोलोकनाथः। सुदाम्नस्तथा राधिकाशापहेतुर्घृणीमानिनीमानदो दिव्यलोकः॥2॥ लसद्गोपवेषो ह्यजो राधिकात्माचलत्कुण्डलः कुन्तली कुन्तलस्रक्। रथस्थः कदा राधया दिव्यरत्नःसुधासौधभूचारणो दिव्यवासाः॥3॥ कदा वृन्दकारण्यचारी स्वलोकेमहारत्नसिंहासनस्थः प्रशान्तः। महाहंसभैश्चामरैर्वीज्य-मानश्चलच्छत्रमुक्तावलीशोभमानः॥4॥ सुखी कोटिकन्दर्पलीलाभिरामःक्वणन्नूपुरालऽग्कृतांघ्रिः शुभांघ्रिः। सुजानुश्च रंभाशुभोरुः कृशाङ्गःप्रतापी भुशुण्डासुदोर्दण्डखण्डः॥5॥ जपापुष्पहस्तश्चशातोदरश्रीर्महापद्मवक्षस्थलश्चन्द्रहासः। लसत्कुन्ददन्तश्च बिम्बाधरश्रीःशरत्पद्मनेत्रः किरीटोज्ज्वलाभः॥6॥ सखीकोटिभिर्वर्तमानो निकुञ्जेप्रियाराधया राससक्तो नवाङ्गः। धराब्रह्मरुद्रादिभिः प्रार्थितःसद्धराभारदूरीकृतार्थं प्रजातः॥7॥ यदुर्देवकीसौख्यदो बन्धनच्छित्सशेषो विभुर्योगमायी च विष्णुः। व्रजे नन्दपुत्रो यशोदासुताख्योमहासौख्यदो बालरूपः शुभाङ्गः॥8॥ तथा पूतनामोक्षदः श्यामरूपोदयालुस्त्वनोभञ्जनः पल्लवांघ्रिः। तृणावर्तसंहारकारी च गोपोयशोदायशो विश्वरूपप्रदर्शी॥9॥ तथा गर्गदिष्टश्च भाग्योदयश्रीःलसद्बालकेलिःसरामः सुवाचः। क्वणन्नूपुरैः शब्दयुग्रिङ्गमाणस्तथाजानुहस्तैर्व्रजेशाङ्गणे वा॥10॥ दधिस्पृक्च हैयङ्गवीदुग्धभोक्तादधिस्तेयकृद्दुग्धभुग्भाण्डभेत्ता। मृदं भुक्तवान् गोपजो विश्वरूपःप्रचण्डांशुचण्डप्रभामण्डिताङ्गः॥11॥ यशोदाकरैर्वर्धनं प्राप्त आद्योमणिग्रीवमुक्तिप्रदो दामबद्धः। कदा नृत्यमानो व्रजे गोपिकाभिःकदा नन्दसन्नन्दकैर्लाल्यमानः॥12॥ कदा गोपनन्दांकगोपालरूपीकलिन्दाङ्गजाकूलगो वर्तमानः। घनैर्मारुतैश्च्छन्नभाण्डीरदेशेगृहीतो वरो राधया नन्दहस्तात्॥13॥ निकुञ्जे च गोलोकलोकागतेऽपिमहारत्नसङ्घैः कदम्बावृतेऽपि। तदा ब्रह्मणा राधिकासद्विवाहेप्रतिष्ठां गतः पूजितः साममन्त्रैः॥14॥ रसी रासयुङ्मालतीनां वनेऽपिप्रियाराधयाऽऽराधितार्थो रमेशः। धरानाथ आनन्ददः श्रीनिकेतोवनेशो धनी सुन्दरो गोपिकेशः॥15॥ कदा राधया प्रापितो नन्दगेहेयशोदाकरैर्लालितो मन्दहासः। भयी क्वापि वृन्दारकारण्यवासीमहामन्दिरे वासकृद्देवपूज्यः॥16॥ वने वत्सचारी महावत्सहारीबकारिः सुरैः पूजितोऽघारिनामा। वने वत्सकृद्गोपकृद्गोपवेषःकदा ब्रह्मणा संस्तुतः पद्मनाभः॥17॥ विहारी तथा तालभुग्धेनुकारिःसदा रक्षको गोविषार्थिप्रणाशी। कलिन्दाङ्गजाकूलगः कालियस्यदमी नृत्यकारी फणेष्वप्रसिद्धः॥18॥ सलीलः शमी ज्ञानदः कामपूरस्तथागोपयुग्गोप आनन्दकारी। स्थिरीह्यग्निभुक्पालको बाललीलःसुरागश्च वंशीधरः पुष्पशीलः॥19॥ प्रलम्बप्रभानाशको गौरवर्णोबलो रोहिणीजश्च रामश्च शेषः। बली पद्मनेत्रश्च कृष्णाग्रजश्चधरेशः फणीशस्तु नीलाम्बराभः॥20॥ महासौख्यदो ह्यग्निहारो व्रजेशःशरद्ग्रीष्मवर्षाकरः कृष्णवर्णः। व्रजे गोपिकापूजितश्चीरहर्ताकदम्बे स्थितश्चीरदः सुन्दरीशः॥21॥ क्षुधानाशकृद्यज्ञपत्नीमनःस्पृक्कृपाकारकः केलिकर्तावनीशः। व्रजे शक्रयागप्रणाशी मिताशीशुनासीरमोहप्रदो बालरूपी॥22॥ गिरेः पूजको नन्दपुत्रो ह्यगध्रःकृपाकृच्च गोवर्धनोद्धारिनामा। तथा वातवर्षाहरो रक्षकश्चव्रजाधीशगोपाङ्गनाशङ्कितः सन्॥23॥ अगेन्द्रोपरि शक्रपूज्यः स्तुतःप्राङ्मृषाशिक्षको देवगोविन्दनामा। व्रजाधीशरक्षाकरः पाशिपूज्योऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी॥24॥ चलच्चारुवंशीक्वणः कामिनीशोव्रजे कामीनीमोहदः कामरूपः। रसाक्तो रसी रासकृद्राधिकेशोमहामोहदो मानिनीमानहारी॥25॥ विहारी वरो मानहृद्राधिकांगोधराद्वीपगः खण्डचारी वनस्थः। प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधोमहामोक्षदः पद्महारी प्रियार्थः॥26॥ वटस्थः सुरश्चन्दनाक्तः प्रसक्तोव्रजं ह्यागतो राधया मोहिनीषु। महामोहकृद्गोपिकागीतकीर्तीरसस्थः पटी दुःखिताकामिनीशः॥27॥ वने गोपिकात्यागकृत्पादचिह्नप्रदर्शीकलाकारकः काममोही। वशी गोपिकामध्यगः पेशवाचःप्रियाप्रीतिकृद्रासरक्तः कलेशः॥28॥ रसारक्तचित्तो ह्यनन्तस्वरूपःस्रजा संवृतो वल्लवीमध्यसंस्थः। सुबाहुः सुपादः सुवेशः सुकेशोव्रजेशः सखा वल्लभेशः सुदेशः॥29॥ क्वणत्किङ्किणीजालभृन्नूपुराढ्योलसत्कङ्कणो ह्यङ्गदी हारभारः। किरीटी चलत्कुण्डलश्चाङ्गुली-यस्फुरत्कौस्तुभो मालतीमण्डिताङ्गः॥30॥ महानृत्यकृद्रासरङ्गः कलाढ्यश्चलद्धारभोभामिनीनृत्ययुक्तः। कलिन्दाङ्गजाकेलिकृत्कुंकुमश्रीःसुरैर्नायिकानायकैर्गीयमानः॥31॥ सुखाढ्यस्तु राधापतिः पूर्णबोधःकटाक्षस्मितीवल्गितभ्रूविलासः। सुरम्योऽलिभिः कुन्तलालोलकेशःस्फुरद्बर्हकुन्दस्रजा चारुवेषः॥32॥ महासर्पतो नन्दरक्षापरांघ्रिःसदा मोक्षदः शङ्खचूडप्रणाशी। प्रजारक्षको गोपिकागीयमानःककुद्मिप्रणाशप्रयासः सुरेज्यः॥33॥ कलिः क्रोधकृत्कंसमन्त्रोपदेष्टातथाक्रूरमन्त्रोपदेशी सुरार्थः। बली केशिहा पुष्पवर्षोऽमलश्रीस्तथानारदाद्दर्शितो व्योमहन्ता॥34॥ तथाक्रूरसेवापरः सर्वदर्शीव्रजे गोपिकामोहदः कूलवर्ती। सतीराधिकाबोधदः स्वप्नकर्ताविलासी महामोहनाशी स्वबोधः॥35॥ व्रजे शापतस्त्यक्तराधासकाशोमहामोहदावाग्निदग्धापतिश्च। सखीबन्धनान्मोहिताक्रूरआरात्सखीकङ्कणैस्ताडिताक्रूररक्षी॥36॥ रथस्थो व्रजे राधया कृष्णचन्द्रःसुगुप्तो गमी गोपकैश्चारुलीलः। जलेऽक्रूरसन्दर्शितो दिव्यरूपोदिदृक्षुः पुरीमोहिनीचित्तमोही॥37॥ तथा रङ्गकारप्रणाशी सुवस्त्रःस्रजीवायकप्रीतिकृन्मालिपूज्यः। महाकीर्तिदश्चापि कुब्जाविनोदीस्फुरच्चण्डकोदण्डरुग्णप्रचण्डः॥38॥ भटार्तिप्रदः कंसदुःस्वप्नकारीमहामल्लवेषः करीन्द्रप्रहारी। महामात्यहा रङ्गभूमिप्रवेशीरसाढ्यो यशःस्पृग्बली वाक्पटुश्रीः॥39॥ महामल्लहा युद्धकृत्स्त्रीवचोऽर्थीधरानायकः कंसहन्ता यदुःप्राक्। सदा पूजितो ह्युग्रसेनप्रसिद्धोधराराज्यदो यादवैर्मण्डिताङ्गः॥40॥ गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठीमहाशङ्खहा दण्डधृक्पूज्य एव। व्रजे ह्युद्धवप्रेषितो गोपमोहीयशोदाघृणी गोपिकाज्ञानदेशी॥41॥ सदा स्नेहकृत्कुब्जयापूजिताङ्गस्तथाक्रूरगेहंगमी मन्त्रवेत्ता। तथा पाण्डवप्रेषिताक्रूर एवसुखी सर्वदर्शी नृपानन्दकारी॥42॥ महाक्षौहिणीहा जरासन्धमानीनृपो द्वारकाकारको मोक्षकर्ता। रणी सार्वभौमस्तुतो ज्ञानदाताजरासन्धसङ्कल्पकृद्धावदंघ्रिः॥43॥ नगादुत्पतद्द्वारिकामध्यवर्तीतथा रेवतीभूषणस्तालचिह्नः। यदू रुक्मिणीहारकश्चैद्यवेद्यस्तथारुक्मिरूपप्रणाशी सुखाशी॥44॥ अनन्तश्च मारश्च कार्ष्णिश्च कामोमनोजस्तथा शम्बरारी रतीशः। रथी मन्मथो मीनकेतुः शरी चस्मरो दर्पको मानहा पञ्चबाणः॥45॥ प्रियः सत्यभामापतिर्यादवेशोऽथसत्राजितप्रेमपूरः प्रहासः। महारत्नदो जाम्बवद्युद्धकारीमहाचक्रधृक्खड्गधृग्रामसंधिः॥46॥ विहारस्थितः पाण्डवप्रेमकारीकलिन्दाङ्गजामोहनः खाण्डवार्थी। सखा फाल्गुनप्रीतिकृन्नग्रकर्तातथा मित्रविन्दापतिः क्रीडनार्थी॥47॥ नृपप्रेमकृद्गोजितः सप्तरूपोऽथसत्यापतिः पारिबर्ही यथेष्टः। नृपैः संवृतश्चापि भद्रापतिस्तुविलासी मधोर्मानिनीशो जनेशः॥48॥ शुनासीरमोहावृतः सत्सभार्यःसतार्क्ष्यो मुरारिः पुरीसङ्घभेत्ता। सुवीरःशिरःखण्डनो दैत्यनाशीशरी भौमहा चण्डवेगः प्रवीरः॥49॥ धरासंस्तुतः कुण्डलच्छत्रहर्तामहारत्नयुग् राजकन्याभिरामः। शचीपूजितः शक्रजिन्मानहर्तातथा पारिजातापहारी रमेशः॥50॥ गृही चामरैः शोभितोभीष्मकन्यापतिर्हास्यकृन्मानिनीमानकारी। तथा रुक्मिणीवाक्पटुः प्रेमगेहःसतीमोहनः कामदेवापरश्रीः॥51॥ सुदेष्णः सुचारुस्तथाचारुदेष्णोऽपरश्चारुदेहो बली चारुगुप्तः। सुती भद्रचारुस्तथा चारुचन्द्रोविचारुश्च चारू रथी पुत्ररूपः॥52॥ सुभानुः प्रभानुस्तथाचन्द्रभानुर्बृहद्भानुरेवाष्टभानुश्च साम्बः। सुमित्रः क्रतुश्चित्रकेतुस्तुवीरोऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः॥53॥ विशङ्कुर्वसुश्च श्रुतो भद्र एकःसुबाहुर्वृषः पूर्णमासस्तु सोमः। वरः शान्तिरेव प्रघोषोऽथ सिंहोबलो ह्यूर्ध्वगोवर्धनोन्नाद एव॥54॥ महाशो वृकः पावनो वह्निमित्रःक्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च। सुभद्रो जयः सत्यको वाम आयुर्यदुःकोटिशः पुत्रपौत्रप्रसिद्धः॥55॥ हली दण्डधृग्रुक्मिहा चानिरुद्धस्तथाराजभिर्हास्यगो द्यूतकर्ता। मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्चमहासुन्दरः कामपुत्रो बलीशः॥56॥ महादैत्यसंग्रामकृद्यादवेशःपुरीभञ्जनो भूतसंत्रासकारी। मृधी रुद्रजिद्रुद्रमोही मृधार्थीतथा स्कन्दजित्कूपकर्णप्रहारी॥57॥ धनुर्भञ्जनो बाणमानप्रहारीज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण। भुजाच्छेदकृद्बाणसंत्रासकर्तामृडप्रस्तुतो युद्धकृद्भूमिभर्ता॥58॥ नृगं मुक्तिदो ज्ञानदो यादवानांरथस्थो व्रजप्रेमपो गोपमुख्यः। महासुन्दरीक्रीडितः पुष्पमालीकलिन्दाङ्गजाभेदनः सीरपाणिः॥59॥ महादंभिहा पौण्ड्रमानप्रहारोशिरश्छेदकः काशिराजप्रणाशी। महाक्षौहिणीध्वंसकृच्चक्रहस्तःपुरीदीपको राक्षसीनाशकर्ता॥60॥ अनन्तो महीध्रः फणी वानरारिःस्फुरद्गौरवर्णो महापद्मनेत्रः। कुरुग्रामतिर्यग्गतो गौरवार्थःस्तुतः कौरवैः पारिबर्ही ससाम्बः॥61॥ महावैभवी द्वारकेशोह्यनेकश्चलन्नारदः श्रीप्रभादर्शकस्तु। महर्षिस्तुतो ब्रह्मदेवः पुराणःसदा षोडशस्त्रीसहस्रस्थितश्च॥62॥ गृही लोकरक्षापरो लोकरीतिःप्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः। तथा राजदूतस्तुतो बन्धभेत्तास्थितो नारदप्रस्तुतः पाण्डवार्थी॥63॥ नृपैर्मन्त्रकृत् ह्युद्धवप्रीतिपूर्णोवृतः पुत्रपौत्रैः कुरुग्रामगन्ता। घृणी धर्मराजस्तुतो भीमयुक्तःपरानन्ददो मन्त्रकृद्धर्मजेन॥64॥ दिशाजिद्बली राजसूयार्थकारीजरासन्धहा भीमसेनस्वरूपः। तथा विप्ररूपो गदायुद्धकर्ताकृपालुर्महाबन्धनच्छेदकारी॥65॥ नृपैः संस्तुतो ह्यागतो धर्मगेहंद्विजैः संवृतो यज्ञसंभारकर्ता। जनैः पूजितश्चैद्यदुर्वाक्क्षमश्चमहामोहदोऽरेः शिरश्च्छेदकारी॥66॥ महायज्ञशोभाकरश्चक्रवर्तीनृपानन्दकारी विहारी सुहारी। सभासंवृतो मानहृत्कौरवस्यतथा शाल्वसंहारको यानहन्ता॥67॥ सभोजश्च वृष्णिर्मधुःशूरसेनोदशार्हो यदुर्ह्यंधको लोकजिच्च। द्युमन्मानहा वर्मधृग्दिव्यशस्त्रीस्वबोधः सदा रक्षको दैत्यहन्ता॥68॥ तथा दन्तवक्त्रप्रणाशीगदाधृग्जगत्तीर्थयात्राकरः पद्महारः। कुशी सूतहन्ता कृपाकृत्स्मृतीशोऽमलोबल्वलाङ्गप्रभाखण्डकारी॥69॥ तथा भीमदुर्योधनज्ञानदातापरोरोहिणीसौख्यदो रेवतीशः। महादानकृद्विप्रदारिद्र्यहा चसदा प्रेमयुक् श्रीसुदाम्नः सहायः॥70॥ तथा भार्गवक्षेत्रगन्ता सरामोऽथसूर्योपरागश्रुतः सर्वदर्शी। महासेनया चास्थितः स्नानयुक्तोमहादानकृन्मित्रसम्मेलनार्थी॥71॥ तथा पाण्डवप्रीतिदः कुन्तिजार्थीविशालाक्षमोहप्रदः शान्तिदश्च। वटे राधिकाराधनो गोपिकाभिःसखीकोटिभी राधिकाप्राणनाथः॥72॥ सखीमोहदावाग्निहा वैभवेशःस्फुरत्कोटिकन्दर्पलीलाविशेषः। सखीराधिकादुःखनाशी विलासीसखीमध्यगः शापहा माधवीशः॥73॥ शतं वर्षविक्षेपहृन्नन्दपुत्रस्तथानन्दवक्षोगतः शीतलाङ्गः। यशोदाशुचः स्नानकृक्द्दुःखहन्तासदागोपिकानेत्रलग्नो व्रजेशः॥74॥ स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रोरहो गोपिकाज्ञानदो मानदश्च। तथा संस्तुतः पट्टराज्ञीभिराराद्धनीलक्ष्मणाप्राणनाथः सदा हि॥75॥ त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्गःशुको व्यासदेवः सुमन्तुः सितश्च। भरद्वाजको गौतमो ह्यासुरिःसद्वसिष्ठः शतानन्द आद्यः सरामः॥76॥ मुनिः पर्वतो नारदो धौम्यइन्द्रोऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च। कुमारः सनन्दस्तथा याज्ञवल्क्यःऋभुर्ह्यङ्गिरा देवलः श्रीमृकण्डः॥77॥ मरीची क्रतुश्चौर्वको लोमशश्चपुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः। नरश्चापि नारायणो दत्त एवतथा पाणिनिः पिङ्गलो भाष्यकारः॥78॥ सकात्यायनो विप्रपातञ्जलिश्चाथगर्गो गुरुर्गीष्पतिर्गौतमीशः। मुनिर्जाजलिः कश्यपो गालवश्चद्विजः सौभरिश्चर्ष्यशृङ्गश्च कण्वः॥79॥ द्वितश्चैकतश्चापि जातूद्भवश्चघनः कर्दमस्यात्मजः कर्दमश्च। तथा भार्गवः कौत्सकश्चारुणस्तुशुचिः पिप्पलादो मृकण्डस्य पुत्रः॥80॥ सपैलःस्तथा जैमिनिः सत्सुमन्तुर्वरोगाङ्गलः स्फोटगेहः फलादः। सदा पूजितो ब्राह्मणः सर्वरूपीमुनीशो महामोहनाशोऽमरः प्राक्॥81॥ मुनीशस्तुतः शौरिविज्ञानदातामहायज्ञकृच्चाभृतस्नानपूज्यः। सदा दक्षिणादो नृपैः पारिबर्हीव्रजानन्ददो द्वारिकागेहदर्शी॥82॥ महाज्ञानदो देवकीपुत्रदश्चासुरैःपूजितो हीन्द्रसेनादृतश्च। सदा फाल्गुनप्रीतिकृत्सत्सुभद्राविवाहे द्विपाश्वप्रदो मानयानः॥83॥ भुवं दर्शको मैथिलेन प्रयुक्तोद्विजेनाशु राज्ञास्थितो ब्राह्मणैश्च। कृती मैथिले लोकवेदोपदेशीसदावेदवाक्यैः स्तुतः शेषशायी॥84॥ परीक्षावृतो ब्राह्मणैश्चामरेषुभृगुप्रार्थितो दैत्यहा चेशरक्षी। सखा चार्जुनस्यापि मानप्रहारीतथा विप्रपुत्रप्रदो धामगन्ता॥85॥ विहारस्थितो माधवीभिः कलाङ्गोमहामोहदावाग्निदग्धाभिरामः। यदुर्ह्युग्रसेनो नृपोऽक्रूर एवतथा चोद्धवः शूरसेनश्च शूरः॥86॥ हृदीकश्च सत्राजितश्चाप्रमेयोगदः सारणः सात्यकिर्देवभागः। तथा मानसः सञ्जयः श्यामकश्चवृको वत्सको देवको भद्रसेनः॥87॥ नृपोऽजातशत्रुर्जयो माद्रिपुत्रोऽथभीमः कृपो बुद्धिचक्षुश्च पाण्डुः। तथा शन्तनुर्देवबाह्लीक एवाथभूरिश्रवाश्चित्रवीर्यो विचित्रः॥88॥ शलश्चापि दुर्योधनः कर्ण एवसुभद्रासुतो विष्णुरातः प्रसिद्धः। सजन्मेजयः पाण्डवः कौरवश्चतथा सर्वतेजा हरिः सर्वरूपी॥89॥ व्रजं ह्यागतो राधया पूर्णदेवोवरो रासलीलापरो दिव्यरूपी। रथस्थो नवद्वीपखण्डप्रदर्शीमहामानदो गोपजो विश्वरूपः॥90॥ सनन्दश्च नन्दो वृषो वल्लभेशःसुदामार्जुनः सौबलस्तोक एव। सकृष्णो शुकः सद्विशालर्षभाख्यःसुतेजस्विकः कृष्णमित्रो वरूथः॥91॥ कुशेशो वनेशस्तु वृन्दावनेशस्तथामथुरेशाधिपो गोकुलेशः। सदा गोगणो गोपतिर्गोपिकेशोऽथगोवर्धनो गोपतिः कन्यकेशः॥92॥ अनादिस्तु चात्मा हरिः पूरुषश्चपरो निर्गुणो ज्योतिरूपो निरीहः। सदा निर्विकारः प्रपञ्चात् परश्चससत्यस्तु पूर्णः परेशस्तु सूक्ष्मः समत्य॥93॥ द्वारकायां तथा चाश्वमेधस्य कर्तानृपेणापि पौत्रेण भूभारहर्ता। पुः श्रीव्रजे रासरङ्गस्य कर्ता हरीराधया गोपिकानां च भर्ता॥94॥ सदैकस्त्वनेकः प्रभापूरिताङ्गस्तथायोगमायाकरः कालजिच्च। सुदृष्टिर्महत्तत्त्वरूपः प्रजातःसकूटस्थ आद्याङ्कुरो वृक्षरूपः॥95॥ विकारस्थितश्च ह्यहङ्कार एवसवैकारिकस्तैजसस्तामसश्च। मनो दिक्समीरस्स्तु सूर्यः प्रचेतोऽश्विवह्निश्चशक्रो ह्युपेन्द्रस्तु मित्रः॥96॥ श्रुतिस्त्वक्च दृग्घ्राणजिह्वागिरश्चभुजामेढ्रकः पायुरङ्घ्रिः सचेष्टः। धराव्योमवार्मारुतश्चैव तेजोऽथरूपं रसो गन्धशब्दस्पृशश्च॥97॥ सचित्तश्च बुद्धिर्विराट् कालरूपस्तथावासुदेवो जगत्कृद्धताङ्गः। तथाण्डे शयानः सशेषःसहस्रस्वरूपो रमानाथ आद्योऽवतारः॥98॥ सदा सर्गकृत्पद्मजः कर्मकर्तातथा नाभिपद्मोद्भवो दिव्यवर्णः। कविर्लोककृत्कालकृत्सूर्यरूपोनिमेषो भवो वत्सरान्तो महीयान्॥99॥ तिथिर्वारनक्षत्रयोगाश्च लग्नोऽथमासो घटी च क्षणः काष्ठिका च। मुहूर्तस्तु यामो ग्रहा यामिनी चदिनं चर्क्षमालागतो देवपुत्रः॥100॥ कृतो द्वापरस्तु त्रितस्तत्कलिस्तुसहस्रं युगस्तत्र मन्वन्तरश्च। लयः पालनं सत्कृतिस्तत्परार्धंसदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः॥101॥ तथा रुद्रसर्गस्तु कौमारसर्गो मुनेःसर्गकृद्देवकृत्प्राकृतस्तु। श्रुतिस्तु स्मृतिः स्तोत्रमेवंपुराणं धनुर्वेद इज्याथ गान्धर्ववेदः॥102॥ विधाता च नारायणः सत्कुमारोवराहस्तथा नारदो धर्मपुत्रः। मुनिः कर्दमस्यात्मजो दत्तएव सयज्ञोऽमरो नाभिजः श्रीपृथुश्च॥103॥ सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्चतथा मोहिनी नारसिंहः प्रतापी। द्विजो वामनो रेणुकापुत्ररूपोमुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता॥104॥ धनुर्वेदभाग्रामचन्द्रावतारःससीतापतिर्भारहृद्रावणारिः। नृपः सेतुकृद्वानरेन्द्रप्रहारीमहायज्ञकृद्राघवेन्द्रः प्रचण्डः॥105॥ बलः कृष्णचन्द्रस्तु कल्किः कलेशस्तुबुद्धः प्रसिद्धस्तु हंसःस्तथाश्वः। ऋषीन्द्रोऽजितो देववैकुण्ठनाथोह्यमूर्तिश्च मन्वन्तरस्यावतारः॥106॥ गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रोनृपेन्द्रस्तु दुष्यन्तजो दानशीलः। सद्दृष्टः श्रुतो भूत एवंभविष्यद्भवत्स्थावरो जङ्गमोऽल्पं महच्च॥107॥ ॥ इति श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Bhagwan Krishna

    Shiva Sahasranama Stotram (भगवान् शिव सहस्रनाम स्तोत्रम् )

    भगवान् शिव सहस्रनाम स्तोत्रम् (Shiva Sahasranama Stotram) ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः। सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥1॥ जटी चर्मी शिखी खड्गी सर्वाङ्गः सर्वभावनः। हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥2॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः। श्मशानवासी भगवान्खचरो गोचरोऽर्दनः॥3॥ अभिवाद्यो महाकर्मा तपस्वी भूतभावनः। उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥4॥ महारूपो महाकायो वृषरूपो महायशाः। महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः॥5॥ लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः। पवित्रं च महांश्चैव नियमो नियमाश्रितः॥6॥ सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः। सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः॥7॥ चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः। अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः॥8॥ महातपा घोरतपा अदीनो दीनसाधकः। संवत्सरकरो मन्त्रः प्रमाणं परमं तपः॥9॥ योगी योज्यो महाबीजो महारेता महाबलः। सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः॥10॥ दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः॥11॥ गणकर्ता गणपतिर्दिग्वासाः काम एव च। मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः॥12॥ कमण्डलुधरो धन्वी बाणहस्तः कपालवान्। अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्॥13॥ स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा॥14॥ दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च। शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः॥15॥ अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि। ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः॥16॥ त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः। अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः॥17॥ गजहा दैत्यहा कालो लोकधाता गुणाकरः। सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः॥18॥ कालयोगी महानादः सर्वकामश्चतुष्पथः। निशाचरः प्रेतचारी भूतचारी महेश्वरः॥19॥ बहुभूतो बहुधरः स्वर्भानुरमितो गतिः। नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः॥20॥ घोरो महातपाः पाशो नित्यो गिरिरुहो नभः। सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः॥21॥ अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः। दक्षयागापहारी च सुसहो मध्यमस्तथा॥22॥ तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः। गम्भीरघोषा गम्भीरो गम्भीरबलवाहनः॥23॥ न्यग्रोधरूपो न्यग्रोधो वृक्षपर्णस्थितिर्विभुः। सुतीक्ष्णदशनश्चैव महाकायो महाननः॥24॥ विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः। तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्॥25॥ विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः। हुताशनसहायश्च प्रशान्तात्मा हुताशनः॥26॥ उग्रतेजा महातेजा जन्यो विजयकालवित्। ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च॥27॥ शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली। वेणवी पणवी ताली खली कालकटङ्कटः॥28॥ नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयो गमः। प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः॥29॥ विमोचनः सुसरणो हिरण्यकवचोद्भवः। मेढ्रजो बलचारी च महीचारी स्रुतस्तथा॥30॥ सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः। व्यालरूपो गुहावासी गुहो माली तरङ्गवित्॥31॥ त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः। बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः॥32॥ साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः। प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित्॥33॥ सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः। हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः॥34॥ लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः। सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः॥35॥ मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः। सर्वकासप्रसादश्च सुबलो बलरूपधृत्॥36॥ सर्वकामवरश्चैव सर्वदः सर्वतोमुखः। आकाशनिर्विरूपश्च निपाती ह्यवशः खगः॥37॥ रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी। वसुवेगो महावेगो मनोवेगो निशाचरः॥38॥ सर्ववासी श्रियावासी उपदेशकरोऽकरः। मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः॥39॥ पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः। उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः॥40॥ वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः। सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः॥41॥ भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः। महासेनो विशाखश्च षष्टिभागो गवाम्पतिः॥42॥ वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च। वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः॥43॥ वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः। ब्रह्मचारी लोकचारी सर्वचारी विचारवित्॥44॥ ईशान ईश्वरः कालो निशाचारी पिनाकवान्। निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः॥45॥ नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः। भगहारी निहन्ता च कालो ब्रह्मा पितामहः॥46॥ चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च। लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः॥47॥ बीजाध्यक्षो बीजकर्ता अव्यात्माऽनुगतो बलः। इतिहासः सकल्पश्च गौतमोऽथ निशाकरः॥48॥ दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः। लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः॥49॥ अक्षरं परमं ब्रह्म बलवच्छक्र एव च। नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः॥50॥ बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्। वेदकारो मन्त्रकारो विद्वान्समरमर्दनः॥51॥ महामेघनिवासी च महाघोरो वशीकरः। अग्निर्ज्वालो महाज्वालो अतिधूम्रो हुतो हविः॥52॥ वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः। नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः॥53॥ स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः। उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः॥54॥ कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्। महापादो महाहस्तो महाकायो महायशाः॥55॥ महामूर्धा महामात्रो महानेत्रो निशालयः। महान्तको महाकर्णो महोष्ठश्च महाहनुः॥56॥ महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्। महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः॥57॥ लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः। महादन्तो महादंष्ट्रो महाजिह्वो महामुखः॥58॥ महानखो महारोमा महाकेशो महाजटः। प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः॥59॥ स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः। वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः॥60॥ गण्डली मेरुधामा च देवाधिपतिरेव च। अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः॥61॥ यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा। अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः॥62॥ उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः। नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः॥63॥ द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः। नक्तं कलिश्च कालश्च मकरः कालपूजितः॥64॥ सगणो गणकारश्च भूतवाहनसारथिः। भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः॥65॥ लोकपालस्तथा लोको महात्मा सर्वपूजितः। शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः॥66॥ आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः। विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः॥67॥ कपिलः कपिशः शुक्ल आयुश्चैवि परोऽपरः। गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः॥68॥ परश्वधायुधो देव अनुकारी सुबान्धवः। तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः॥69॥ उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः। सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः॥70॥ बन्धनो बन्धकर्ता च सुबन्धनविमोचनः। स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः॥71॥ बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः। अमरेशो महादेवो विश्वदेवः सुरारिहा॥72॥ अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा। अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः॥73॥ धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा। धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः॥74॥ प्रभावः सर्वगो वायुरर्यमा सविता रविः। उषङ्गुश्च विधाता च मान्धाता भूतभावनः॥75॥ विभुर्वर्णविभावी च सर्वकामगुणावहः। पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥76॥ बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी। कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः॥77॥ सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः। देवदेवः सुखासक्तः सदसत्सर्वरत्नवित्॥78॥ कैलासगिरिवासी च हिमवद्गिरिसंश्रयः। कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः॥79॥ वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः। सारग्रीवो महाजत्रुरलोलश्च महौषधः॥80॥ सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः। सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः॥81॥ प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः। सारङ्गो नवचक्राङ्गः केतुमाली सभावनः॥82॥ भूतालयो भूतपतिरहोरात्रमनिन्दितः॥83॥ वाहिता सर्वभूतानां निलयश्च विभुर्भवः। अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः॥84॥ धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः। गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः॥85॥ हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्। प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः॥86॥ गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः। महागीतो महानृत्यो ह्यप्सरोगणसेवितः॥87॥ महाकेतुर्महाधातुर्नैकसानुचरश्चलः। आवेदनीय आदेशः सर्वगन्धसुखावहः॥88॥ तोरणस्तारणो वातः परिधी पतिखेचरः। संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः॥89॥ नित्य आत्मसहायश्च देवासुरपतिः पतिः। युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः॥90॥ आषाढश्च सुषाण्ढश्च ध्रुवोऽथ हरिणो हरः। वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः॥91॥ शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः। अक्षश्च रथयोगी च सर्वयोगी महाबलः॥92॥ समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः। निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः॥93॥ रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित्। मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः॥94॥ आरोहणोऽधिरोहश्च शीलधारी महायशाः। सेनाकल्पो महाकल्पो योगो युगकरो हरिः॥95॥ युगरूपो महारूपो महानागहनो वधः। न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः॥96॥ बहुमालो महामालः शशी हरसुलोचनः। विस्तारो लवणः कूपस्त्रियुगः सफलोदयः॥97॥ त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः। बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः॥98॥ निवेदनः सुखाजातः सुगन्धारो महाधनुः। गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्॥99॥ मन्थानो बहुलो वायुः सकलः सर्वलोचनः। तलस्तालः करस्थाली ऊर्ध्वसंहननो महान्॥100॥ छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः। मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः॥101॥ हर्यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात्। सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः॥102॥ सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्। पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः॥103॥ ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्। पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः॥104॥ गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः। अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः॥105॥ ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः। चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः॥106॥ कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत्। उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः॥107॥ वरो वराहो वरदो वरेण्यः सुमहास्वनः। महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः॥108॥ पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्। सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः॥109॥ चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः। साध्यर्षिर्वसुरादित्यो॥110॥ व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः। ऋतु संवत्सरो मासः पक्षः सङ्ख्यासमापनः॥111॥ कला काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः। विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः॥112॥ सदसद्व्यक्तमव्यक्तं पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥113॥ निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः। देवासुरविनिर्माता देवासुरपरायणः॥114॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः। देवासुरमहामात्रो देवासुरगणाश्रयः॥115॥ देवासुरगणाध्यक्षो देवासुरगणाग्रणीः। देवातिदेवो देवर्षिर्देवासुरवरप्रदः॥116॥ देवासुरेश्वरो विश्वो देवासुरमहेश्वरः। सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः॥117॥ उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः। ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥118॥ विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः। सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः॥119॥ गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः। शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः॥120॥ अभिरामः सुरगणो विरामः सर्वसाधनः। ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः॥121॥ स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः। सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः॥122॥ व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः। विमुक्तो मुक्ततेजाश्च श्रीमान्श्रीवर्धनो जगत॥123॥ ॥ इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

    RudrayamalaShiva Sahasranama Stotram (रुद्रयामलशिव सहस्रनाम स्तोत्रम्)

    रुद्रयामलशिव सहस्रनाम स्तोत्रम् (RudrayamalaShiva Sahasranama Stotram) ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः। हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः॥1॥ विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः। सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः॥2॥ आततावी महारुद्रः संसारास्त्रः सुरेश्वरः। उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः॥3॥ रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः। वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः॥4॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः। ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः॥5॥ सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः। आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः॥6॥ मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः। अरण्येशः परिचरो निचेरुः स्तायुरक्षकः॥7॥ प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः। भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः॥8॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात्। शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः॥9॥ वामनो व्यापकः शूली वर्षीयानजडोऽनणुः। ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः॥10॥ आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः। द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः॥11॥ पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः। अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः॥12॥ प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः। खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः॥13॥ वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः। आशुषेणो महासेनो महावीरो महारथः॥14॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः। श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी॥15॥ आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः। धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः॥16॥ तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः। सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः॥17॥ स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः। सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः॥18॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः। मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः॥19॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः। ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः॥20॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः। वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः॥21॥ सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत्। उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः॥22॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः। शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः॥23॥ मयस्करः शिवतरः खण्डपर्शुरजः शुचिः। तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः॥24॥ शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः। उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः॥25॥ आतार्यः सारभूतात्मा सारग्राही दुरत्ययः। आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः॥26॥ शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः। इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः॥27॥ वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः। यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः॥28॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः। प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः॥29॥ पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः। हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः॥30॥ निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः। शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः॥31॥ लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः। भूतो भूतपतिर्भूपो भूधरो भूधरायुधः॥32॥ भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः। मदनो मादको माद्यो मदहा मधुरप्रियः॥33॥ मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः। निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः॥34॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः। सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः॥35॥ सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः। समस्तजगदाधारः समस्तगुणसागरः॥36॥ समस्तदुःखविध्वंसी समस्तानन्दकारणः। रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः॥37॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः। विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः॥38॥ विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः। भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः॥39॥ भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः। मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः॥40॥ मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः। मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः॥41॥ मृगेन्द्रचर्मवसनो नरसिंहनिपातनः। मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः॥42॥ दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः। ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः॥43॥ यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः। व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी॥44॥ लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः। ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः॥45॥ ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः। कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः॥46॥ कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः। परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः॥47॥ वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः। वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः॥48॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः। भक्तकल्याणदो भक्तकामधेनुः सुराधिपः॥49॥ पावनः पावको वामो महाकालो मदापहः। घोरपातकदावाग्निर्दवभस्मकणप्रियः॥50॥ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः। जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः॥51॥ जगदानन्ददो जन्मजरामरणवर्जितः। खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः॥52॥ कपालमालाभरणः कपाली विष्णुवल्लभः। कमलासनकालाग्निः कमलासनपूजितः॥53॥ कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः। नाट्यकर्ता नटपरो महानाट्यविशारदः॥54॥ विराड्रूपधरो धीरो वीरो वृषभवाहनः। वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः॥55॥ महोन्नतो महाकायो महावक्षा महाभुजः। महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः॥56॥ महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः। सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः॥57॥ सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः। धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः॥58॥ कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः। कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः॥59॥ व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती। व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः॥60॥ अतिरागी वीतरागी रागहेतुर्विरागवित्। रागघ्नो रागशमनो रागदो रागिरागवित्॥61॥ विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः। विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः॥62॥ नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः। विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः॥63॥ क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक्। सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः॥64॥ गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः। गुणाधारो गुणाकारो गुणकृद् गुणनाशकः॥65॥ वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः। वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः॥66॥ कालवित्कालकृत्कालो बलकृद् बलविद्बली। मनोन्मनो मनोरूपो बलप्रमथनो बलः॥67॥ विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः। विश्वकारो महाविश्वो विश्वविश्वो विशारदः॥68॥ variation विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः। विद्याकारो महाविद्यो विद्याविद्यो विशारदः॥68॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः। ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः॥69॥ प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः। प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः॥70॥ शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः। शरन्नाथः शरत्कालनाशकः शरदाश्रयः॥71॥ हिमस्वरूपो हिमदो हिमहा हिमनायकः। शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः॥72॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः। आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः॥73॥ ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः। सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः॥74॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः। जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः॥75॥ जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः। ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः॥76॥ वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः। कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः॥77॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः। अपायरहितः शान्तो दान्तो दमयिता दमः॥78॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः। कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः॥79॥ प्रलयानलकृद् दिव्यः प्रलयानलनाशकः। त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः॥80॥ अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः। सदम्भो दम्भरहितो दम्भदो दम्भनाशकः॥81॥ कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः। भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः॥82॥ स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः। त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः॥83॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः। धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः॥84॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः। तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः॥85॥ शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः। जयप्रदो जयाध्यक्षो जयात्मा जयकारणः॥86॥ जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः। जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः॥87॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः। अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान्॥88॥ कैलासशिखरावासः कैलासशिखरप्रियः। भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः॥89॥ सोमः सोमकलाकारो महातेजा महातपाः। हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक्॥90॥ ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः। स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः॥91॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः। पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः॥92॥ सारभूतः स्वरमयो रसभूतो रसाश्रयः। ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः॥93॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः। मन्दारमूलनिलयो मन्दारकुसुमावृतः॥94॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः। श्रीमाननन्तकल्याणपरिपूर्णो महोदयः॥95॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः। सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः॥96॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः। ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः॥97॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः। बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः॥98॥ बीजाधारो बीजरूपो निर्बीजो बीजनाशकः। परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः॥99॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः। युगावहो युगाधीशो युगकृद्युगनाशकः॥100॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः। धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः॥101॥ मनोजवो जीवहेतुरन्धकासुरसूदनः। लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः॥102॥ अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः। श्रितावासो जनावासः सुरवासः सुमण्डलः॥103॥ भववैद्यो योगिवैद्यो योगिसिंहहृदासनः। उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः॥104॥ आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः। भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः॥105॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः। कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः॥106॥ अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः। भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः॥107॥ विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः। सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः॥108॥ अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः। दयासुधार्द्रनयनो निराशीरपरिग्रहः॥109॥ परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः। मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः॥110॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जितः। विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः॥111॥ अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः। अतीन्द्रियो महामायो मायावी विगतज्वरः॥112॥ अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः। महाप्रेतासनासीनः पिशाचानुचरावृतः॥113॥ गौरीविलाससदनो नानागानविशारदः। विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः॥114॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः। किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः॥115॥ रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः। नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः॥116॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः। दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः॥117॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः। रत्नाङ्गुलीयविलसत्करशाखानखप्रभः॥118॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः। वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः॥119॥ लीलावलम्बितवपुर्भक्तमानसमन्दिरः। मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः॥120॥ कस्तूरीविलसत्फालो दिव्यवेषविराजितः। दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः॥121॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः। हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः॥122॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः। सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः॥123॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः। मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः॥124॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः। हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः॥125॥ शरणागतदीनार्तपरित्राणपरायणः। जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः॥126॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः। अक्षरः कारणं क्रुद्धसमरः शारदप्लवः॥127॥ आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः। पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः॥128॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः। भवाब्धितरणोपायो भगवान् भक्तवत्सलः॥129॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः। यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः॥130॥ हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः। ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः॥131॥ मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः। महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः॥132॥ मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः। सर्वज्ञः परमार्थात्मा ब्रह्मानन्दा्रयो विभुः॥133॥ महेश्वरो महादेवः परब्रह्म सदाशिव॥134॥ ॥ इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Bhagwan Shiva

    Hanuman Sahasranama Stotram (हनुमान सहस्रनाम स्तोत्रम्)

    हनुमान सहस्रनाम स्तोत्रम् (Hanuman Sahasranama Stotram) हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः। अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः॥1॥ धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः। पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः॥2॥ शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः। पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः॥3॥ अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः। आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः॥4॥ भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः। विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः॥5॥ विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः। विश्वचेष्टो विश्वगम्यो विश्वध्येयःकलाधरः॥6॥ प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः। बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः॥7॥ अञ्जनासूनुरव्यग्रो ग्रामस्यान्तो धराधरः। भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः॥8॥ सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः। शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः॥9॥ गोष्पदीकृतवारीशः पूर्णकामो धरापतिः। रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः॥10॥ जानकीप्राणदाता च रक्षःप्राणापहारकः। पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः॥11॥ द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः। अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः॥12॥ बुभूकारहतारातिर्गर्वपर्वतमर्दनः। हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः॥13॥ जगन्नाथो जगन्नेता जगदीशो जनेश्वरः। जगत्श्रितो हरिः श्रीशो गरुडस्मयभञ्जकः॥14॥ पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः। ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः॥15॥ सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः। कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः॥16॥ सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः। कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः॥17॥ उदधिक्रमणो देवः संसारभयनाशनः। वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः॥18॥ लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः। भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥॥19॥ श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः। कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः॥20॥ विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः। ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः॥21॥ समीरतनुजो वीरो वीरमारो जयप्रदः। जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः॥22॥ पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः। देवेशोऽमितरोमाऽथ रामभक्तविधायकः॥23॥ ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः। ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः॥24॥ विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः। सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः॥25॥ लङ्केशनिधनस्थायी लङ्कादाहक ईश्वरः। चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः॥26॥ कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः। सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः॥27॥ लक्ष्मणप्राणदाता च सीताजीवनहेतुकः। रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली॥28॥ देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः। नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः॥29॥ निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः। हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः॥30॥ जानकीघनशोकोत्थतापहर्ता पराशरः। वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः॥31॥ भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः। पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः॥32॥ छायापहारी भूतेशो लोकेशः सद्गतिप्रदः। प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः॥33॥ क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः। भक्तानुकम्पी विश्वेशः पुरुहूतः पुरन्दरः॥34॥ अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च। वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः॥35॥ रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः। राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः॥36॥ मशकीकृतदेवारिर्दैत्यारिर्मधूसूदनः। कामः कपिः कामपालः कपिलो विश्वजीवनः॥37॥ भागीरथीपदाम्भोजः सेतुबन्धविशारदः। स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः॥38॥ स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः। उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥॥39॥ जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तरः। विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः॥40॥ खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः। क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः॥41॥ हिरण्मयः पुराणश्च खेचरो भूचरो मनुः। हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः॥42॥ वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः। प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः॥43॥ नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः। चिन्तामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः॥44॥ पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः। किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः॥45॥ ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान्। अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः॥46॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः। नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः॥47॥ एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः। ज्योतिर्ज्योतिरनादिश्च सात्विको राजसस्तमः॥48॥ तमोहर्ता निरालम्बो निराकारो गुणाकरः। गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥॥49॥ बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः। बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः॥50॥ बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः। बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः॥51॥ बृहद्भक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः। बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः॥52॥ देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः। सप्तपातालगामी च मलयाचलसंश्रयः॥53॥ उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः। शाखामृगः कपीन्द्रोऽथ पुराणः प्राणचञ्चुरः॥54॥ चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः। अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः॥55॥ अपराजितो जितारातिः सदानन्दद ईशिता। गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः॥56॥ मनोवेगी सदायोगी संसारभयनाशनः। तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः॥57॥ शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः। प्रलयोऽमितमायश्च मायातीतो विमत्सरः॥58॥ मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः। मायाश्रयश्च निलेर्पो मायानिर्वर्तकः सुखी ॥॥59॥ सुखी(खं) सुखप्रदो नागो महेशकृतसंस्तवः। महेश्वरः सत्यसन्धः शरभः कलिपावनः॥60॥ रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः। घ्राणं गन्धः स्पर्शनं च स्पर्शो हिङ्कारमानगः॥61॥ नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः। गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः॥62॥ भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बुरुर्हरः। विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः॥63॥ याजको यजमानश्च पावकः पितरस्तथा। श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता सुरः॥64॥ राजेन्द्रो भूपती रूढो माली संसारसारथिः। नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः॥65॥ गणपः केशवो भ्राता पिता माताऽथ मारुतिः। सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात्॥66॥ कामजित् कामदहनः कामः काम्यफलप्रदः। मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः॥67॥ नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः। दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान्॥68॥ महानिधिर्महाभागो महाभर्गो महर्द्धिदः। महाकारो महायोगी महातेजा महाद्युतिः ॥॥69॥ महाकर्मा महानादो महामन्त्रो महामतिः। महाशमो महोदारो महादेवात्मको विभुः॥70॥ रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः। अम्भोधिलङ्घनः सिद्धः सत्यधर्मा प्रमोदनः॥71॥ जितामित्रो जयः सोमो विजयो वायुवाहनः। जीवो धाता सहस्रांशुर्मुकुन्दो भूरिदक्षिणः॥72॥ सिद्धार्थः सिद्धिदः सिद्धः सङ्कल्पः सिद्धिहेतुकः। सप्तपातालचरणः सप्तर्षिगणवन्दितः॥73॥ सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः। सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः॥74॥ सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः। सप्तसामोपगीतश्च सप्तपातालसंश्रयः॥75॥ सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः। मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः॥76॥ सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः। प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः॥77॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः। नवद्वारपुराधारो नवद्वारनिकेतनः॥78॥ नरनारायणस्तुत्यो नवनाथमहेश्वरः। मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥॥79॥ बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः। दुष्टहन्ता नियमिता पिशाचग्रहशातनः॥80॥ बालग्रहविनाशी च धर्मनेता कृपाकरः। उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः॥81॥ शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः। समग्रगुणशाली च व्यग्रो रक्षोविनाशनः॥82॥ रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः। मेघनादो मेघरूपो मेघवृष्टिनिवारणः॥83॥ मेघजीवनहेतुश्च मेघश्यामः परात्मकः। समीरतनयो धाता तत्त्वविद्याविशारदः॥84॥ अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः। अर्थोऽनर्थापहारी च समर्थो रामसेवकः॥85॥ अर्थी धन्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः। सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः॥86॥ अचलोद्धारको नित्यः सेतुकृद्रामसारथिः। आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शयः॥87॥ वराहो नारसिंहश्च वामनो जमदग्निजः। रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः॥88॥ नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः। कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥॥89॥ जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः। सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः॥90॥ नखदारितरक्षश्च नखयुद्धविशारदः। कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा॥91॥ स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः। कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः॥92॥ क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः। वज्राङ्गो वज्रवक्त्रश्च भक्तवज्रनिवारकः॥93॥ नखायुधो मणिग्रीवो ज्वालामाली च भास्करः। प्रौढप्रतापस्तपनो भक्ततापनिवारकः॥94॥ शरणं जीवनं भोक्ता नानाचेष्टोऽथ चञ्चलः। स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः॥95॥ पवनः पावनः कान्तो भक्ताङ्गः सहनो बलः। मेघनादरिपुर्मेघनादसंहृतराक्षसः॥96॥ क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः। श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः॥97॥ अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः। अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः॥98॥ अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः। सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः॥99॥ अञ्जनाप्राणलिङ्गं च वायुवंशोद्भवः श्रुतिः। भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक्॥100॥ मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः। क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः॥101॥ कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः। लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः॥102॥ विपश्चित् कविरानन्दविग्रहोऽनल्पनाशनः। फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः॥103॥ योगविद्योगकर्ता च योगयोनिर्दिगम्बरः। अकारादिक्षकारान्तवर्णनिर्मितविग्रहः॥104॥ उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः। श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः॥105॥ सुशर्माऽमितधर्मा च नारायणपरायणः। जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च॥106॥ हरी रुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः। गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः॥107॥ नागकन्याभयध्वंसी कृतपूर्णः कपालभृत्। अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः॥108॥ अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः। अष्टाङ्गयोगफलभूः सत्यसन्धः पुरुष्टुतः॥109॥ श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः। पञ्चाक्षरपरः पञ्चमातृको रञ्जनो ध्वजः॥110॥ योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः। ब्रह्मचारीन्द्रियवपुर्धृतदण्डो दशात्मकः॥111॥ अप्रपञ्चः सदाचारः शूरसेनो विदारकः। बुद्धः प्रमोद आनन्दः सप्तजिह्वपतिर्धरः॥112॥ नवद्वारपुराधारः प्रत्यग्रः सामगायनः। षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः॥113॥ सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः। अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः॥114॥ धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः। नन्दीप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः॥115॥ लोहिताङ्गः समिद्वह्निः षडृतुः शर्व ईश्वरः। फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः॥116॥ धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः। पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः॥117॥ त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः। ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः॥118॥ रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः। वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा॥119॥ जयोऽजेयपरीवारः सहस्रवदनः कविः। शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः॥120॥ सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः। शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः॥121॥ चतुर्णवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा। सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियवर्धनः॥122॥ स्मृतिबीजं सुरेशानः संसारभयनाशनः। उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक॥123॥ ॥ इति श्री आञ्जनेयसहस्रनामस्तोत्रं हनुमत्सहस्रनामस्तोत्रं च सम्पूर्णम् ॥ Bhagwan Hanuman

    Ram Sahasranama Stotram (राम सहस्रनाम स्तोत्रम्)

    राम सहस्रनाम स्तोत्रम् (Ram Sahasranama Stotram) राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः। रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः॥1॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः। जनार्दनो जितामित्रः परार्थैकप्रयोजनः॥2॥ विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः। सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः॥3॥ ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः। ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान्॥4॥ द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः। विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः॥5॥ ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः। विपुलांसो महोरस्कः परमेष्ठी परायणः॥6॥ सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः। लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः॥7॥ अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः। रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः॥8॥ ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः। सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः॥9॥ सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः। कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः॥10॥ भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः। सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः॥11॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः। स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः॥12॥ धीरो दान्तो घनश्यामः सर्वायुधविशारदः। अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः॥13॥ सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः। यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः॥14॥ वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः। विभीषणप्रतिष्ठाता परमात्मा परात्परः॥15॥ प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः। अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः॥16॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः। अभिवन्द्यो महाकायो विश्वकर्मा विशारदः॥17॥ विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः। कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः॥18॥ अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः। लोकाध्यक्षो महामायो विभीषणवरप्रदः॥19॥ आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः। भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः॥20॥ सुखदः कारणं कर्ता भवबन्धविमोचनः। देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः॥21॥ संसारोत्तारको रामः सर्वदुःखविमोक्षकृत्। विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत्॥22॥ नित्यो नियतकल्याणः सीताशोकविनाशकृत्। काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः॥23॥ मारीचमथनो रामो विराधवधपण्डितः। दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः॥24॥ महाधनुर्महाकायो भीमो भीमपराक्रमः। तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः॥25॥ भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः। अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा॥26॥ स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः। भूतादिः शम्भुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः॥27॥ कवची कुण्डली चक्री खड्गी भक्तजनप्रियः। अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः॥28॥ अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः। समः समात्मा समगो जटामुकुटमण्डितः॥29॥ अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः। लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः॥30॥ सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः। अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली॥31॥ धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः। हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः॥32॥ व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः। जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः॥33॥ सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशो जाम्बवत्प्रभुः। मदनो मथनो व्यापी विश्वरूपो निरञ्जनः॥34॥ नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः। नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः॥35॥ जितक्रोधो जितारातिः प्लवगाधिपराज्यदः। वसुदः सुभुजो नैकमायो भव्यप्रमोदनः॥36॥ चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः। अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः॥37॥ सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक्। वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः॥38॥ अतुलः सात्त्विको धीरः शरासनविशारदः। ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः॥39॥ वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः। गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः॥40॥ कुम्भकर्णप्रभेत्ता च गोपीगोपालसंवृतः। मायावी व्यापको व्यापी रैणुकेयबलापहः॥41॥ पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः। लोकत्रयाश्रयो लोकचरितो भरताग्रजः॥42॥ श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः। मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः॥43॥ यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः। तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः॥44॥ चाणूरमर्दनो दिव्यः शान्तो भरतवन्दितः। शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः॥45॥ लोकगर्भः शेषशायी क्षीराब्धिनिलयोऽमलः। आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात्॥46॥ अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः। त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती॥47॥ पर्जन्यः कुमुदो भूतावासः कमललोचनः। श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः॥48॥ लोकाभिरामो लोकारिमर्दनः सेवकप्रियः। सनातनतमो मेघश्यामलो राक्षसान्तकृत्॥49॥ दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः। भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः॥50॥ उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः। सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः॥51॥ दामोदरोऽच्युतः शार्ङ्गी वामनो मधुराधिपः। देवकीनन्दनः शौरिः शूरः कैटभमर्दनः॥52॥ सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः। कालस्वरूपी कालात्माकालः कल्याणदःकविः। संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः॥53॥ स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः। अनादिनिधनः सर्वलोकपूज्यो निरामयः॥54॥ रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः। सर्वदुःखातिगो विद्याराशिः परमगोचरः॥55॥ शेषो विशेषो विगतकल्मषो रघुनायकः। वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः॥56॥ कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः। देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः॥57॥ सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः। मनो बुद्धिरहङ्कारः प्रकृतिः पुरुषोऽव्ययः॥58॥ अहल्यापावनः स्वामी पितृभक्तो वरप्रदः। न्यायो न्यायी नयी श्रीमान्नयो नगधरो ध्रुवः॥59॥ लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः। वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः॥60॥ देवाग्रणीः शिवध्यानतत्परः परमः परः। सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिः सुलोचनः॥61॥ पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः। जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः॥62॥ अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी। कलानिधिः कलानाथो कमलानन्दवर्धनः॥63॥ जयी जितारिः सर्वादिः शमनो भवभञ्जनः। अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः॥64॥ आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः। निःशब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः॥65॥ आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात्। सनातनतमः स्रग्वी पेशलो जविनां वरः॥66॥ शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत्। निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः॥67॥ शताननः सहस्राक्षः शतमूर्तिर्धनप्रभः। हृत्पुण्डरीकशयनः कठिनो द्रव एव च॥68॥ उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः। अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः॥69॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः। हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः॥70॥ शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी। नरो नारायणः श्यामः कपर्दी नीललोहितः॥71॥ रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः। मातामहो मातरिश्वा विरिञ्चो विष्टरश्रवाः॥72॥ अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः। वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः॥73॥ निदाघस्तपनोऽमोघः श्लक्ष्णः परबलापहृत्। कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः॥74॥ शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः। असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत्॥75॥ वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः। रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः॥76॥ पवित्रपादः पापारिर्मणिपूरो नभोगतिः। उत्तारणो दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः॥77॥ अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः। भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः॥78॥ उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः। नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः॥79॥ चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः। निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः॥80॥ श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः। भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः॥81॥ अकायो भक्तकायस्थः कालज्ञानी महावटुः। परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः॥82॥ स्वभावभद्रो मध्यस्थः संसारभयनाशनः। वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः॥83॥ सुरेन्द्रः करणं कर्म कर्मकृत्कर्म्यधोक्षजः। ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः॥84॥ परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः। विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः॥85॥ प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः। केशवः केशिहा काव्यः कविः कारणकारणम्॥86॥ कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः। आदिकर्ता वराहश्च माधवो मधुसूदनः॥87॥ नारायणो नरो हंसो विष्वक्सेनो जनार्दनः। विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः॥88॥ वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः। नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः॥89॥ आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः। गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः॥90॥ पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः। त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः॥91॥ वामनो दुष्टदमनो गोविन्दो गोपवल्लभः। भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः॥92॥ कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः। संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः॥93॥ बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः। भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः॥94॥ तपोवासो मुदावासः सत्यवासः सनातनः। पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः॥95॥ पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः। शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली॥96॥ किरीटी कुण्डली हारी मेखली कवची ध्वजी। योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः॥97॥ शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः। सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः॥98॥ पवनः संहतः शक्तिः सम्पूर्णाङ्गः समृद्धिमान्। स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः॥99॥ मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः। सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः॥100॥ सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः। सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः॥101॥ अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः। निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः॥102॥ सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः। अधिकारी विभुर्नित्यः परमात्मा सनातनः॥103॥ अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः। श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः॥104॥ आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः। सत्यवान् गुणसम्पन्नः स्वयन्तेजाः सुदीप्तिमान्॥105॥ कालात्मा भगवान् कालः कालचक्रप्रवर्तकः। नारायणः परञ्ज्योतिः परमात्मा सनातनः॥106॥ विश्वसृड् विश्वगोप्ता च विश्वभोक्ता च शाश्वतः। विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः॥107॥ सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः। सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः॥108॥ सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः। अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः॥109॥ अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः। नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी॥110॥ जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः। कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः॥111॥ सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः। पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात्॥112॥ तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः। परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः॥113॥ परञ्ज्योतिः परन्धामः पराकाशः परात्परः। अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः॥114॥ नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः। हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः॥115॥ रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः। तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः॥116॥ अकारवाच्यो भगवान् श्रीर्भू लीलापतिः पुमान्। सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः॥117॥ स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान्। नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी॥118॥ कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम्। श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः॥119॥ श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायक। अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान॥120॥ ॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ BHagwan Ram

    Lakshmi Sahasranama Stotram (लक्ष्मी सहस्रनाम स्तोत्रम्)

    लक्ष्मी सहस्रनाम स्तोत्रम् (Lakshmi Sahasranama Stotram) नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी। नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी॥1॥ महालक्ष्मीर्महाकाली महाकन्या सरस्वती। भोगवैभवसन्धात्री भक्तानुग्रहकारिणी॥2॥ ईशावास्या महामाया महादेवी महेश्वरी। हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी॥3॥ नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी। सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी॥4॥ त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा। वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना॥5॥ भद्रकाली कराली च महाकाली तिलोत्तमा। काली करालवक्त्रान्ता कामाक्षी कामदा शुभा॥6॥ चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी। त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा॥7॥ सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी। उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा॥8॥ प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया। पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी॥9॥ अरूपा बहुरूपा च विरूपा विश्वरूपिणी। पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा॥10॥ काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता। देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः॥11॥ सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही। यज्ञविद्या महाविद्या गुह्यविद्या विभावर॥12॥ ज्योतिष्मती महामाता सर्वमन्त्रफलप्रद। दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी॥13॥ सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी। गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका॥14॥ शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता। सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी॥15॥ जया च विजया चैव जयन्ती चाऽपराजिता। कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी॥16॥ सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका। इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी॥17॥ यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी। अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा॥18॥ सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी। वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा॥19॥ शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी। व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी॥20॥ एकाक्षरपरा तारा भवबन्धविनाशिनी। विश्वम्भरा धराधारा निराधाराऽधिकस्वरा॥21॥ राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः। सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला॥22॥ पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी। दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी॥23॥ शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी। युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी॥24॥ अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी। गङ्गा सरस्वतीवेणीयमुनानर्मदापगा॥25॥ समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला। पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा॥26॥ रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी। कालिका चक्रिका देवी सत्या तु वटुकास्थिता॥27॥ तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी। विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी॥28॥ सन्ध्यारात्रिर्दिवाज्योत्स्त्ना कलाकाष्ठा निमेषिका। उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी॥29॥ कपिला कीलिकाऽशोका मल्लिकानवमल्लिका। देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका॥30॥ कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा। दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा॥31॥ श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका। श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च॥32॥ श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी। विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी॥33॥ माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी। अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता॥34॥ ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता। योगिध्यानान्तगम्या च योगध्यानपरायणा॥35॥ त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी। भारती कमला भाषा पद्मा पद्मवती कृतिः॥36॥ गौतमी गोमती गौरी ईशाना हंसवाहनी। नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा॥37॥ चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा। स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी॥38॥ मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी। रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी॥39॥ देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी। सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी॥40॥ बिन्दुनादकलातीता बिन्दुनादकलात्मिका। दशवायुजयाकारा कलाषोडशसंयुता॥41॥ काश्यपी कमलादेवी नादचक्रनिवासिनी। मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी॥42॥ अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी। श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी॥43॥ आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा। श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी॥44॥ मृतसञ्जीविनी मैत्री कामिनी कामवर्जिता। निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा॥45॥ सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताशुभा। स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी॥46॥ दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः। चिन्तामणिश्चिदानन्दा पञ्चबाणाग्रबोधिन॥47॥ बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुक। सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा॥48॥ वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी। जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा॥49॥ मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती। आथर्वणी श्रुतिशून्या कल्पनावर्जिता सती॥50॥ सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः। अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी॥51॥ त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा। हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी॥52॥ कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता। सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता॥53॥ वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता। चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी॥54॥ कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी। सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता॥55॥ शररुद्रहरा हन्त्री सर्वसंहारकारिणी। पुरुषा पौरुषी तुष्टिस्सर्वतन्त्रप्रसूतिका॥56॥ अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी। भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता॥57॥ व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा। पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा॥58॥ जगज्जराजनित्री च पञ्चकर्मप्रसूतिका। वाग्देव्याभरणाकारा सर्वकाम्यस्थितस्थितिः॥59॥ अष्टादशचतुष्षष्ठिपीठिका विद्यया युता। कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी॥60॥ केतकी मल्लिकाशोका वाराही धरणी ध्रुवा। नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी॥61॥ अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी। श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना॥62॥ अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी। अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः॥63॥ दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी। ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी॥64॥ शाकम्भरी महाशोणा गरुडोपरिसंस्थिता। सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा॥65॥ अकारादिक्षकारान्ता सर्वविद्याधिदेवता। मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना॥66॥ इडापिङ्गलिकामध्यासुषुम्ना ग्रन्थिभेदिनी। कालचक्राश्रयोपेता कालचक्रस्वरूपिणी॥67॥ वैशारदी मतिश्श्रेष्ठा वरिष्ठा सर्वदीपिका। वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः॥68॥ जम्भिनी जृम्भिणी जृम्भकारिणी गणकारिका। शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी॥69॥ देवकी देवसङ्काशा वारिधिः करुणाकरा। शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जिनी॥70॥ एकमात्रा द्विमात्रा च त्रिमात्रा च तथापरा। अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा॥71॥ एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी। नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा॥72॥ सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता। गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता॥73॥ साधुबन्धपदन्यासा सर्वौको घटिकावलिः। षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता॥74॥ आदित्यवर्णा चापर्णा कामिनी वररूपिणी। ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा॥75॥ पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता। सद्योवेदवती सर्वा हंसी विद्याधिदेवता॥76॥ विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी। वैदिकी वेदरूपा च कालिका कालरूपिणी॥77॥ नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी। हिरण्यवर्णरूपा च हिरण्यपदसम्भवा॥78॥ कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता। ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी॥79॥ वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी। एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी॥80॥ पाशांकुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत्। एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी॥81॥ सांख्या सांख्यवती ज्वाला ज्वलन्ती कामरूपिणी। जाग्रन्ती सर्वसम्पत्तिस्सुषुप्तान्वेष्टदायिी॥82॥ कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलाना। सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी॥83॥ छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका। चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः॥84॥ शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी। अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना॥85॥ सर्ववेदार्थसम्पत्तिस्सर्वशास्त्रार्थमातृका। अकारादिक्षकारान्तसर्ववर्णकृतस्थला॥86॥ सर्वलक्ष्मीस्सदानन्दा सारविद्या सदाशिवा। सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता॥87॥ अणिमादिगुणोपेता परा काष्ठा परा गतिः। हंसयुक्तविमानस्था हंसारूढा शशिप्रभा॥88॥ भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला। तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी॥89॥ वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी। महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया॥90॥ समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा। नामाक्षरपरा देवी उपसर्गनखाञ्चिता॥91॥ निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी। आसीना च शयाना च तिष्ठन्ती धावनाधिका॥92॥ लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः। सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः॥93॥ समासतद्धिताकारा विभक्तिवचनात्मिका। स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी॥94॥ गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी। शेषवासुकिसंसेव्या चषाला वरवर्णिनी॥95॥ कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका। शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना॥96॥ आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना। सत्यज्ञानात्मिकाऽऽनन्दा ब्राह्मी ब्रह्म सनातनी॥97॥ अविद्यावासना मायाप्रकृतिस्सर्वमोहिनी। शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी॥98॥ वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी। विराड् स्वाहा स्वधा शुद्धा नीरूपास्तिस्सुभक्तिगा॥99॥ निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी। वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी॥100॥ जालन्धरी मृडानी च भवानी भवभञ्जनी। त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी॥101॥ नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा। पराजिताविधानज्ञा विशेषितगुणात्मिका॥102॥ हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा। असंख्येयपरार्धान्तस्वरव्यञ्जनवैखरी॥103॥ मधुजिह्वा मधुमती मधुमासोदया मधुः। माधवी च महाभागा मेघगम्भीरनिस्वना॥104॥ ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा। नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा॥105॥ भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि। कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यार्चितोदया॥106॥ ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका। ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता॥107॥ वैराजोत्तमसाम्राज्या कुमारकुशलोदया। बगला भ्रमराम्बा च शिवदूती शिवात्मिका॥108॥ मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी। योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता॥109॥ सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः। सुप्रजाता सुवीरा च सुपोषा सुपतिश्शिवा॥110॥ सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका। समुद्रव्योममध्यस्था समबिन्दुसमाश्रया॥111॥ सौभाग्यरसजीवातुस्सारासारविवेकदृक्। त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता॥112॥ नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा। ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम्॥113॥ कालिकेयमहोदारवीर्यविक्रमरूपिणी। वडबाग्निशिखावक्त्रा महाकबलतर्पणा॥114॥ महाभूता महादर्पा महासारा महाक्रतुः। पञ्जभूतमहाग्रासा पञ्चभूताधिदेवता॥115॥ सर्वप्रमाणा सम्पत्तिस्सर्वरोगप्रतिक्रिया। ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषणी॥116॥ शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी। हेममाला शिखामाला त्रिशिखा पञ्चमोचना॥117॥ सर्वागमसदाचारमर्यादा यातुभञ्जनी। पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी॥118॥ सामगानसमाराध्या श्रोत्रकर्णरसायनम्। जीवलोकैकजीवातुर्भद्रोदारविलोकना॥119॥ तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी। मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला॥120॥ सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता। देहहृद्दीपिका दीप्तिर्जिह्मपापप्रणाशिनी॥121॥ अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी। महादुर्गा महोत्साहा महादेवबलोदया॥122॥ डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट्। निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता॥123॥ भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी। शाश्वती शाश्वताकारा लोकानुग्रहकारिणी॥124॥ सारसी मानसी हंसी हंसलोकप्रदायिनी। चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा॥125॥ सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी। सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी॥126॥ क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी। सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी॥127॥ कलिदोषप्रशमनी कोलाहलपुरस्स्थिता। गौरी लाक्षणकी मुख्या जघन्याकृतिवर्जित॥128॥ माया विद्या मूलभूता वासवी विष्णुचेतन। वादिनी वसुरूपा च वसुरत्नपरिच्छदा॥129॥ छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी। वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका॥130॥ पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी। नित्या तथ्या रमा रामा रमणी मृत्युभञ्जी॥131॥ ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिा। मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया॥132॥ वाराणसीवासरता चार्यावर्तजनस्तुता। जगदुत्पत्तिसंस्थानसंहारत्रयकारणम्॥133॥ त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि। नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये॥134॥ सिद्धलक्ष्मीर्महाकालि महलक्ष्मि नमोऽस्तु ते। सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम्॥135॥ यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः। सृष्ट्यादिकारणाकारवितते दोषवर्जिते॥136॥ जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते। जगन्नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे॥137॥ कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते। अनन्तानित्यमहिषीप्रपञ्चेश्वरनायकि॥138॥ अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि। नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि॥139॥ वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते। रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे॥140॥ कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते। मातुलुङ्गमयं खेटं सौवर्णचषकं तथा॥141॥ पद्मद्वयं पूर्णकुम्भं कीरञ्च वरदाभये। पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम्॥142॥ धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती। अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे॥143॥ भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिन। पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते॥144॥ इन्दिरेन्दिन्दिराभाक्षि क्षीरसागरकन्यके। भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः॥145॥ मङ्गलं मङ्गलानां त्वं देवतानां च देवता। त्वमुत्तमोत्तमानाञ्च त्वं श्रेयः परमामृतम्॥146॥ धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया। आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः॥147॥ पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम्। आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि॥148॥ पदमेव विभूतिश्च सूक्ष्मासूक्ष्मतरागतिः। सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः॥149॥ अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः। समन्वयश्च वेदानामविरोधस्त्वमेव हि॥150॥ निःश्रेयसपदप्राप्तिसाधनं फलमेव च। श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी॥151॥ श्रीबीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका। प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी॥152॥ क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता। श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी॥153॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते॥154॥ ॥ इति श्रीलक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Devi Lakshmi

    Gayatri Sahasranama Stotram (गायत्री सहस्रनाम स्तोत्रम्)

    गायत्री सहस्रनाम स्तोत्रम् (Gayatri Sahasranama Stotram) ॐ अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी। अमृतार्णवमध्यस्थाप्यजिता चापराजिता॥1॥ अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता। अजराजापराधर्मा अक्षसूत्रधराधरा॥2॥ अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी। अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी॥3॥ अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा। अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका॥4॥ अजा चाजमुखावासाप्यरविन्दनिभानना। अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी॥5॥ असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता। आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना॥6॥ आदित्यपदवीचाराप्यादित्यपरिसेविता। आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी॥7॥ आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता। आधारनिलयाधारा चाकाशान्तनिवासिनी॥8॥ आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी। आदित्यमण्डलगता चान्तरध्वान्तनाशिनी॥9॥ इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा। इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी॥10॥ इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी। इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी॥11॥ इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता। उमा चोषा ह्युडुनिभा उर्वारुकफलानना॥12॥ उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा। ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी॥13॥ ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी। ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता॥14॥ ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी। ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा॥15॥ ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी। लूतारिवरसम्भूता लूतादिविषहारिणी॥16॥ एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता। ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा॥17॥ ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी। और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा॥18॥ अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी। कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी॥19॥ कमला कामिनी कान्ता कामदा कालकण्ठिनी। करिकुम्भस्तनभरा करवीरसुवासिनी॥20॥ कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी। कुरुविन्ददलाकारा कुण्डली कुमुदालया॥21॥ कालजिह्वा करालास्या कालिका कालरूपिणी। कमनीयगुणा कान्तिः कलाधारा कुमुद्वती॥22॥ कौशिकी कमलाकारा कामचारप्रभञ्जिनी। कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया॥23॥ केसरी केशवनुता कदम्बकुसुमप्रिया। कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता॥24॥ काममाता क्रतुमती कामरूपा कृपावती। कुमारी कुण्डनिलया किराती कीरवाहना॥25॥ कैकेयी कोकिलालापा केतकी कुसुमप्रिया। कमण्डलुधरा काली कर्मनिर्मूलकारिणी॥26॥ कलहंसगतिः कक्षा कृतकौतुकमङ्गला। कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः॥27॥ कर्पूरलेपना कृष्णा कपिला कुहराश्रया। कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा॥28॥ खड्गखेटकरा खर्वा खेचरी खगवाहना। खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता॥29॥ खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी। खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता॥30॥ गायत्री गोमती गीता गान्धारी गानलोलुपा। गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता॥31॥ गोविन्दचरणाक्रान्ता गुणत्रयविभाविता। गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी॥32॥ गुहावासा गुणवती गुरुपापप्रणाशिनी। गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी॥33॥ गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा। गर्वापहारिणी गोदा गोकुलस्था गदाधरा॥34॥ गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी। घर्मदा घनदा घण्टा घोरदानवमर्दिनी॥35॥ घृणिमन्त्रमयी घोषा घनसम्पातदायिनी। घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी॥36॥ घनारिमण्डला घूर्णा घृताची घनवेगिनी। ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी॥37॥ चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता। चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा॥38॥ चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला। चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी॥39॥ चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका। चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी॥40॥ चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता। चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी॥41॥ चारुहोमप्रिया चार्वाचरिता चक्रबाहुका। चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा॥42॥ चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी। चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया॥43॥ चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी। छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा॥44॥ छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी। छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी॥45॥ छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया। जननी जन्मरहिता जातवेदा जगन्मयी॥46॥ जाह्नवी जटिला जेत्री जरामरणवर्जिता। जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी॥47॥ जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया। जातरूपमयी जिह्वा जानकी जगती जरा॥48॥ जनित्री जह्नुतनया जगत्त्रयहितैषिणी। ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा॥49॥ जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता। ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी॥50॥ जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला। झिंझिका झणनिर्घोषा झंझामारुतवेगिनी॥51॥ झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता। टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी॥52॥ टङ्कीगणकृताघोषा टङ्कनीयमहोरसा। टङ्कारकारिणी देवी ठठशब्दनिनादिनी॥53॥ डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता। डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी॥54॥ डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा। ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा॥55॥ नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी। त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः॥56॥ त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी। तरुणादित्यसंकाशा तामसी तुहिना तुरा॥57॥ त्रिकालज्ञानसम्पन्ना त्रिवली (त्रिवेणी) च त्रिलोचना। त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा॥58॥ तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी। तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा॥59॥ त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी। ताटङ्किनी तुषाराभा तुहिनाचलवासिनी॥60॥ तन्तुजालसमायुक्ता तारहारावलिप्रिया। तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः॥61॥ तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता। तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी॥62॥ त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः। तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा॥63॥ त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी। तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता॥64॥ तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः। थात्कारी थारवा थान्ता दोहिनी दीनवत्सला॥65॥ दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी। देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना॥66॥ देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा। दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी॥67॥ दण्डकारण्यनिलया दण्डिनी देवपूजिता। देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः॥68॥ दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी। धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी॥69॥ धरन्धरा धराधारा धनदा धान्यदोहिनी। धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा॥70॥ धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा। धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी॥71॥ नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका। नर्मदा नलिनी नीला नीलकण्ठसमाश्रया॥72॥ नारायणप्रिया नित्या निर्मला निर्गुणा निधिः। निराधारा निरुपमा नित्यशुद्धा निरञ्जना॥73॥ नादबिन्दुकलातीता नादबिन्दुकलात्मिका। नृसिंहिनी नगधरा नृपनागविभूषिता॥74॥ नरकक्लेशशमनी नारायणपदोद्भवा। निरवद्या निराकारा नारदप्रियकारिणी॥75॥ नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका। नवसूत्रधरा नीतिर्निरुपद्रवकारिणी॥76॥ नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी। नवनीतप्रिया नारी नीलजीमूतनिस्वना॥77॥ निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी। नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी॥78॥ नवजाम्बूनदप्रख्या नागलोकाधिदेवता। नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी॥79॥ निमग्नारक्तनयना निर्घातसमनिस्वना। नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी॥80॥ पार्वती परमोदारा परब्रह्मात्मिका परा। पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी॥81॥ परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी। पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी॥82॥ पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा। पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी॥83॥ पावनी पादसहिता पेशला पवनाशिनी। प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला॥84॥ पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा। पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी॥85॥ पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी। पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया॥86॥ पतिव्रता पवित्राङ्गी पुष्पहासपरायणा। प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी॥87॥ पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी। पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी॥88॥ प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा। पुण्डरीकपुरावासा पुण्डरीकसमानना॥89॥ पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी। प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला॥90॥ प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः। पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता॥91॥ परमाया परज्योतिः परप्रीतिः परागतिः। पराकाष्ठा परेशानी पाविनी पावकद्युतिः॥92॥ पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी। पीताङ्गी पीतवसना पीतशय्या पिशाचिनी॥93॥ पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया। पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी॥94॥ पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता। पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी॥95॥ पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा। पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी॥96॥ पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी। पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी॥97॥ पुण्यप्रजा पारदात्री परमार्गैकगोचरा। प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी॥98॥ फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः। फणीन्द्रभोगशयना फणिमण्डलमण्डिता॥99॥ बालबाला बहुमता बालातपनिभांशुका। बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता॥100॥ बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया। बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया॥101॥ बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता। बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी॥102॥ बालाकिनी बिलाहारा बिलवासा बहूदका। बहुनेत्रा बहुपदा बहुकर्णावतंसिका॥103॥ बहुबाहुयुता बीजरूपिणी बहुरूपिणी। बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी॥104॥ बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी। बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी॥105॥ वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा। बद्धपद्मासनासीना बिल्वपत्रतलस्थिता॥106॥ बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा। बाला बाणासनवती वडवानलवेगिनी॥107॥ ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी। भवानी भीषणवती भाविनी भयहारिणी॥108॥ भद्रकाली भुजङ्गाक्षी भारती भारताशया। भैरवी भीषणाकारा भूतिदा भूतिमालिनी॥109॥ भामिनी भोगनिरता भद्रदा भूरिविक्रमा। भूतवासा भृगुलता भार्गवी भूसुरार्चिता॥110॥ भागीरथी भोगवती भवनस्था भिषग्वरा। भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा॥111॥ भर्गात्मिका भीमवती भवबन्धविमोचिनी। भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी॥112॥ भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी। माता माया मधुमती मधुजिह्वा मधुप्रिया॥113॥ महादेवी महाभागा मालिनी मीनलोचना। मायातीता मधुमती मधुमांसा मधुद्रवा॥114॥ मानवी मधुसम्भूता मिथिलापुरवासिनी। मधुकैटभसंहर्त्री मेदिनी मेघमालिनी॥115॥ मन्दोदरी महामाया मैथिली मसृणप्रिया। महालक्ष्मीर्महाकाली महाकन्या महेश्वरी॥116॥ माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता। मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी॥117॥ मधुरद्राविणी मुद्रा मलया मलयान्विता। मेधा मरकतश्यामा मागधी मेनकात्मजा॥118॥ महामारी महावीरा महाश्यामा मनुस्तुता। मातृका मिहिराभासा मुकुन्दपदविक्रमा॥119॥ मूलाधारस्थिता मुग्धा मणिपूरकवासिनी। मृगाक्षी महिषारूढा महिषासुरमर्दिनी॥120॥ योगासना योगगम्या योगा यौवनकाश्रया। यौवनी युद्धमध्यस्था यमुना युगधारिणी॥121॥ यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी। यात्रा यानविधानज्ञा यदुवंशसमुद्भवा॥122॥ यकारादिहकारान्ता याजुषी यज्ञरूपिणी। यामिनी योगनिरता यातुधानभयङ्करी॥123॥ रुक्मिणी रमणी रामा रेवती रेणुका रतिः। रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया॥124॥ रोहिणी राज्यदा रेवा रमा राजीवलोचना। राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता॥125॥ रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना। राजहंससमारूढा रम्भा रक्तबलिप्रिया॥126॥ रमणीययुगाधारा राजिताखिलभूतला। रुरुचर्मपरीधाना रथिनी रत्नमालिका॥127॥ रोगेशी रोगशमनी राविणी रोमहर्षिणी। रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी॥128॥ रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा। लज्जाधिदेवता लोला ललिता लिङ्गधारिणी॥129॥ लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता। लज्जा लम्बोदरी देवी ललना लोकधारिणी॥130॥ वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः। वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी॥131॥ विनता व्योममध्यस्था वारिजासनसंस्थिता। वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी॥132॥ वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया। विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा॥133॥ वामदेवप्रिया वेला वज्रिणी वसुदोहिनी। वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा॥134॥ वासवी वामजननी वैकुण्ठनिलया वरा। व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता॥135॥ शाकम्भरी शिवा शान्ता शारदा शरणागतिः। शातोदरी शुभाचारा शुम्भासुरविमर्दिनी॥136॥ जशोभावती शिवाकारा शंकरार्धशरीरिणी। शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी॥137॥ शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना। शरभा शूलिनी शुद्धा शबरी शुकवाहना॥138॥ श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी। शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया॥139॥ षडाधारस्थिता देवी षण्मुखप्रियकारिणी। षडङ्गरूपसुमतिसुरासुरनमस्कृता॥140॥ सरस्वती सदाधारा सर्वमङ्गलकारिणी। सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा॥141॥ सर्वावासा सदानन्दा सुस्तनी सागराम्बरा। सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा॥142॥ सप्तर्षिमण्डलगता सोममण्डलवासिनी। सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता॥143॥ सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा। सरघा सूर्यतनया सुकेशी सोमसंहतिः॥144॥ हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी। क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा॥145॥ गायत्री चैव सावित्री पार्वती च सरस्वती। वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका॥146॥ ॥ इति श्रीमद्देवीभागवते महापुराणे गायत्रीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Devi Gayatri

    Durga Sahasranama Stotram (दुर्गा सहस्रनाम स्तोत्रम्)

    दुर्गा सहस्रनाम स्तोत्रम् (Durga Sahasranama Stotram) ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया। विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती॥1॥ क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला। हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया॥2॥ त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता। यज्ञविद्या महामाया वेदमाता सुधाधृतिः॥3॥ प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी। सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता॥4॥ पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना। प्रह्लादिनी महामाता दुर्गा दुर्गतिनाशिनी॥5॥ ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी। दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी॥6॥ अपर्णा शाम्बरी माया मदिरामृदुहासिनी। कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी॥7॥ कामेश्वरी च नीला च भिरुण्डा वह्रिवासिनी। लम्बोदरी महाकाली विद्याविद्येश्वरी तथा॥8॥ नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी। सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी॥9॥ कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी। नारायणी महानिद्रा योगनिद्रा प्रभावती॥10॥ प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः। क्षीरार्णवसुधाहारा कालिका सिंहवाहना॥11॥ ॐकारा च सुधाकारा चेतना कोपनाकृतिः। अर्धबिन्दुधराधारा विश्वमाता कलावती॥12॥ पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती। कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी॥13॥ जिनमाता जिनेन्द्रा च शारदा हंसवाहना। राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका॥14॥ राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती। सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा॥15॥ सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती। गोदावरी विपाशा च कावेरी च शतह्रदा॥16॥ सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः। नर्मदा कर्मनाशा च चर्मण्वती च वेदिका॥17॥ वेत्रवती वितस्ता च वरदा नरवाहना। सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी॥18॥ एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी। सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी॥19॥ पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया। परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी॥20॥ ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना। इच्छा भगवती शक्तिः कामधेनुः कृपावती॥21॥ वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा। गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी॥22॥ एकानेका महेज्या च शत बाहुर्महाभुजा। भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी॥23॥ षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता। सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी॥24॥ अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी। रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा॥25॥ क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया। कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी॥26॥ सुवर्णरसना नासाचक्षुः स्पर्शवती रसा। गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः॥27॥ मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी। पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी॥28॥ योनिमुद्रा महामुद्रा खेचरी खगगामिनी। मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता॥29॥ मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी। रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी॥30॥ शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया। सुवेणी पद्महस्ता च मुक्ताहारविभूषणा॥31॥ कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा। खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा॥32॥ चापिनी पाशहस्ता च त्रिशूलवरधारिणी। सुबाणा शक्तिहस्ता च मयूरवरवाहना॥33॥ वरायुधधरा वीरा वीरपानमदोत्कटा। वसुधा वसुधारा च जया शाकम्भरी शिवा॥34॥ विजया च जयन्ती च सुस्तनी शत्रुनाशिनी। अन्तर्वती वेदशक्तिर्वरदा वरधारिणी॥35॥ शीतला च सुशीला च बालग्रहविनाशिनी। कौमारी च सुपर्णा च कामाख्या कामवन्दिता॥36॥ जालन्धरधरानन्ता कामरूपनिवासिनी। कामबीजवती सत्या सत्यमार्गपरायणा॥37॥ स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी। षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी॥38॥ वृषप्रिया वृषारूढा महिषासुरघातिनी। शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा॥39॥ कपालभूषणा काली कपालामाल्यधारिणी। कपालकुण्डला दीर्घा शिवदूती घनध्वनिः॥40॥ सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी। कम्बुग्रीवावसुमती छत्रच्छाया कृतालया॥41॥ जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी। प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी॥42॥ मूलाधारा निराकारा वह्रिकुण्डकृतालया। वायुकुण्डसुखासीना निराधारा निराश्रया॥43॥ श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया। वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा॥44॥ तपस्विनी तपःसिद्धि तपसः सिद्धिदायिनी। तपोनिष्ठा तपोयुक्ताः तापसी च तपःप्रिया॥45॥ सप्तधातुर्मयीर्मूतिः सप्तधात्वन्तराश्रया। देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता॥46॥ औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी। वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी॥47॥ मृगया मृगमांसादा मृगत्वङ् गलोचना। वागुराबन्धरूपा च बन्धरूपावधोद्धता॥48॥ बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी। शृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी॥49॥ अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजर्नाचिता। कौलिकी कुलविद्या च सुकुला कुलपूजिता॥50॥ कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी। वात्याली मेघमाला च सुवृष्टिः सस्यर्वधिनी॥51॥ अकारा च इकारा च उकारौकाररूपिणी। ह्रीङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी॥52॥ सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी। सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया॥53॥ वश्या च वश्यबीजा च लोकवश्यविभाविनी। नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया॥54॥ महिषा नृपमान्या च नृपान्या नृपनन्दिनी। नृपधर्ममयी धन्या धनधान्यविवर्धिनी॥55॥ चतुर्वर्णमयीमूर्तिश्चतुर्वणैंश्च पूजिता। सर्वधर्ममयीसिद्धि श्चतुराश्रमवासिनी॥56॥ ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा। वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी॥57॥ अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी। सुमेधा सत्यमेधा च भद्रकाल्यपराजिता॥58॥ गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया। त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी॥59॥ पाञ्चाली बालिका बाला बालक्रीडा सनातनी। गर्भाधारधराशून्या गर्भाशयनिवासिनी॥60॥ सुरारिघातिनी कृत्या पूतना च तिलोत्तमा। लज्जा रसवती नन्दा भवानी पापनाशिनी॥61॥ पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा। सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता॥62॥ मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी। अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी॥63॥ गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा। निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा॥64॥ सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी। शतमारी महादेवी वैष्णवी शतपत्रिका॥65॥ विषारिर्नागदमनी कुरुकुल्ल्याऽमृतोद्भवा। भूतभीतिहरारक्षा भूतावेशविनाशिनी॥66॥ रक्षोघ्नी राक्षसी रात्रिर्दीर्घनिद्रा निवारिणी। चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी॥67॥ डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी। शीता शीतप्रिया स्वङ्गा सकला वनदेवता॥68॥ गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा। महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी॥69॥ चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी। अणिमादिगुणोपेता सुस्पृअहा कामरूपिणी॥70॥ अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी। अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी॥71॥ चतुस्समुद्रशयना चतुर्वर्गफलप्रदा। काशपुष्पप्रतीकाशा शरत्कुमुदलोचना॥72॥ सोमसूर्याग्निनयना ब्रह्मविष्णुशिर्वार्चिता। कल्याणीकमला कन्या शुभा मङ्गलचण्डिका॥73॥ भूता भव्या भविष्या च शैलजा शैलवासिनी। वाममार्गरता वामा शिववामाङ्गवासिनी॥74॥ वामाचारप्रिया तुष्टिर्लोंपामुद्रा प्रबोधिनी। भूतात्मा परमात्मा भूतभावविभाविनी॥75॥ मङ्गला च सुशीला च परमार्थप्रबोधिनी। दक्षिईणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः॥76॥ योगिनी योगयुक्ता च योगाङ्ग ध्यानशालिनी। योगपट्टधरा मुक्ता मुक्तानां परमा गतिः॥77॥ नारस्ंइही सुजन्मा च त्रिवर्गफलदायिनी। धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः॥78॥ साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी। ऋअतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया॥79॥ सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा। मीनपुत्री सती साध्वी मैनाकभगिनी तडित्॥80॥ सौदामिनी सुदामा च सुधामा धामशालिनी। सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी॥81॥ श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी। रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः॥82॥ जगज्जीवा जगद्बीजा जगत्रयहितैषिणी। चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला॥83॥ यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता। चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी॥84॥ चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता। अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी॥85॥ उमा कलशहस्ता च पूर्णकुम्भपयोधरा। अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी॥86॥ महाचण्डी च रौद्री च महाभैरवपूजिता। निर्मुण्डा हस्तिनीचण्डा करालदशनानना॥87॥ कराला विकराला च घोरा घुर्घुरनादिनी। रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा॥88॥ कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया। क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा॥89॥ मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी। हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा॥90॥ पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला। महिषी च लेखनी लेखा सुलेखा लेखकप्रिया॥91॥ शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता। कुरुक्षेत्राऽवनिः काशी मथुरा काञ्च्यवन्तिका॥92॥ अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया। त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी॥93॥ कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी। कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया॥94॥ तोतला च तुलाकोटिः कूटस्था कोटराश्रया। स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी॥95॥ तेजस्विनी सुभिक्षा च बलदा बलदायिनी। महाकोशी महावार्ता बुद्धिः सदसदात्मिका॥96॥ महाग्रहहरा सौम्या विशोका शोकनाशिनी। सात्विकी सत्वसंस्था च राजसी च रजोवृता॥97॥ तामसी च तमोयुक्ता गुणत्रयविभाविनी। अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी॥98॥ शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः। सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा॥99॥ सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका। जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका॥100॥ सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी। मानभूमिः पानपात्रा पानदानकरोद्यता॥101॥ आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी। आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता॥102॥ नागवल्ली नागकन्या भोगिनी भोगवल्लभा। सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी॥103॥ श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी। मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला॥104॥ सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता। नागपाशधरामूर्तिरगाधा नागकुण्डला॥105॥ सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी। सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः॥106॥ मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका। मातृमण्डलमध्यस्था मातृमण्डलवासिनी॥107॥ कुमार जननी क्रूरा सुमुखी ज्वरनाशिनी। निधाना पञ्चभूतानां भवसागरतारिणी॥108॥ अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता। रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी॥109॥ कलङ्करहिता नारी चतुःषष्ठ्यभिधावती। अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी॥110॥ सर्वसौख्यवतीयुक्तिराहारपरिणामिनी। जीर्णा च जीर्णवस्रा च नूतना नववल्लभा॥111॥ अजरा च रजःप्रीता रतिरागविवर्धिनी। पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा॥112॥ पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी। उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा॥113॥ रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी। त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी॥114॥ अरागा शिवतत्त्वा च कामतत्वानुरागिणी। प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा॥115॥ अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया। शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता॥116॥ माता मातामही तृप्तिः पितुमाता पितामही। स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया॥117॥ स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी। शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी॥118॥ उर्वशी कदली केका विशिखा शिखिवर्तिनी। खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी॥119॥ लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा। वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः॥120॥ प्राकारवलया वेला मर्यादा च महोदधिः। पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा॥121॥ ललिता मांसला तन्वी वेदवेदाङ्गधारिणी। नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा॥122॥ अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी। शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता॥123॥ वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा। मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया॥124॥ अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः। स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः॥125॥ प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका। इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी॥126॥ शशिस्रवा च तालुस्था काकिन्यमृतजीविनी। अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता॥127॥ स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा। विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया॥128॥ चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी। निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी॥129॥ पुरुषाज्ञा चा भिन्ना च क्षान्तिः कैवल्यदायिनी। विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः॥130॥ निरीहा च समस्तैका सर्वलोकैकसेविता। शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी॥131॥ कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी। प्रत्यञ्चा च धुनर्यष्टिः खड्गधारा दुरानतिः॥132॥ अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी। वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी॥133॥ जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी। सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी॥134॥ क्षेमङ्करी क्षेमरूपा सर्त्कीत्तिः पथिदेवता। सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा॥135॥ सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला। पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम॥136॥ ॥ इति श्रीरुद्रयामलेतन्त्रे भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥ Devi Durga

    Saraswati Sahasranama Stotram (सरस्वती सहस्रनाम स्तोत्रम्)

    सरस्वती सहस्रनाम स्तोत्रम् (Saraswati Sahasranama Stotram) ॐ वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा। वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा॥1॥ विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी। वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी॥2॥ वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी। विश्वाराध्या विश्वमाता विश्वधात्री विनायका॥3॥ विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी। वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका॥4॥ वेदज्ञा वेदजननी विश्वा विश्वविभावरी। वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी॥5॥ विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका। व्याळघ्नी व्याळभूषांगी विरजा वेदनायिका॥6॥ वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी। विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया॥7॥ वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता। वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा॥8॥ गौरी गुणवती गोप्या गन्धर्वनगरप्रिया। गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया॥9॥ गिरिविद्या गानतुष्टा गायकप्रियकारिणी। गायत्री गिरिशाराध्या गीर्गिरीशप्रियंकरी॥10॥ गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी। गीर्माता गणसंस्तुत्या गणनीयगुणान्विता॥11॥ गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका। गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी॥12॥ गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला। गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी॥13॥ गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता। गरुडासनसंसेव्या गोमती गुणशालिनी॥14॥ शारदा शाश्वती शैवी शांकरी शंकरात्मिका। श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना॥15॥ शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी। शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया॥16॥ शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी। शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका॥17॥ श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा। शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियंकरी॥18॥ शीललभ्या शीलवती श्रीमाता शुभकारिणी। शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता॥19॥ श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा। शिवेतरघ्नी शबरी श्रवणीयगुणान्विता॥20॥ शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका। शमान्विता शमाराध्या शितिकण्ठप्रपूजिता॥21॥ शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा। सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी॥22॥ सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा। सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी॥23॥ सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी। सर्वाराध्या सर्वमाता सर्वदेवनिषेविता॥24॥ सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया। स्वरक्रमपदाकारा सर्वदोषनिषूदिनी॥25॥ सहस्राक्षी सहस्रास्या सहस्रपदसंयुता। सहस्रहस्ता साहस्रगुणालंकृतविग्रहा॥26॥ सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी। षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता॥27॥ स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी। संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी॥28॥ सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी। सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी॥29॥ सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी। सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा॥30॥ सर्वप्रियंकरी सर्वशुभदा सर्वमङ्गळा। सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा॥31॥ सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा। सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गळा॥32॥ सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता। सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका॥33॥ सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा। सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी॥34॥ सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका। सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी॥35॥ सुरूपिणी सुखमयी सेवकप्रियकारिणी। स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका॥36॥ साररूपा सरोरूपा सत्यभूता समाश्रया। सितासिता सरोजाक्षी सरोजासनवल्लभा॥37॥ सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता। महादेवी महेशानी महासारस्वतप्रदा॥38॥ महासरस्वती मुक्ता मुक्तिदा मलनाशिनी। महेश्वरी महानन्दा महामन्त्रमयी मही॥39॥ महालक्ष्मीर्महाविद्या माता मन्दरवासिनी। मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा॥40॥ महामुक्तिर्महानित्या महासिद्धिप्रदायिनी। महासिद्धा महामाता महदाकारसंयुता॥41॥ महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा। मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी॥42॥ मदिराक्षी मदावासा मखरूपा मखेश्वरी। महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता॥43॥ महापुण्या मुदावासा महासम्पत्प्रदायिनी। मणिपूरैकनिलया मधुरूपा महोत्कटा॥44॥ महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी। मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया॥45॥ मा महादेवसंस्तुत्या महिषीगणपूजिता। मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी॥46॥ मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी। मुख्या महानिवासा च महाभाग्यजनाश्रिता॥47॥ महिळा महिमा मृत्युहारी मेधाप्रदायिनी। मेध्या महावेगवती महामोक्षफलप्रदा॥48॥ महाप्रभाभा महती महादेवप्रियंकरी। महापोषा महर्द्धिश्च मुक्ताहारविभूषणा॥49॥ माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा। मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी॥50॥ महाकारुण्यसम्पूर्णा मनोनमनवन्दिता। महापातकजालघ्नी मुक्तिदा मुक्तभूषणा॥51॥ मनोन्मनी महास्थूला महाक्रतुफलप्रदा। महापुण्यफलप्राप्या मायात्रिपुरनाशिनी॥52॥ महानसा महामेधा महामोदा महेश्वरी। मालाधरी महोपाया महातीर्थफलप्रदा॥53॥ महामङ्गळसम्पूर्णा महादारिद्र्यनाशिनी। महामखा महामेघा महाकाळी महाप्रिया॥54॥ महाभूषा महादेहा महाराज्ञी मुदालया। भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी॥55॥ भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका। भूतधात्री भयहरी भक्तसारस्वतप्रदा॥56॥ भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी। भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा॥57॥ भागीरथी भवाराध्या भाग्यासज्जनपूजिता। भवस्तुत्या भानुमती भवसागरतारणी॥58॥ भूतिर्भूषा च भूतेशी भाललोचनपूजिता। भूता भव्या भविष्या च भवविद्या भवात्मिका॥59॥ बाधापहारिणी बन्धुरूपा भुवनपूजिता। भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा॥60॥ भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा। भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी॥61॥ भाविनी भ्रातृरूपा च भारती भवनायिका। भाषा भाषावती भीष्मा भैरवी भैरवप्रिया॥62॥ भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका। भास्वती भगमाला च भिक्षादानकृतोद्यमा॥63॥ भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी। भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी॥64॥ भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा। भोगवती भोगरूपा भोगमोक्षफलप्रदा॥65॥ भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी। ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा॥66॥ ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी। ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया॥67॥ बालेन्दुशेखरा बाला बलिपूजाकरप्रिया। बलदा बिन्दुरूपा च बालसूर्यसमप्रभा॥68॥ ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा। ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी॥69॥ बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी। बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता॥70॥ बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी। बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी॥71॥ ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा। ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता॥72॥ बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी। अक्षमालाक्षराकाराक्षराक्षरफलप्रदा॥73॥ अनन्तानन्दसुखदानन्तचन्द्रनिभानना। अनन्तमहिमाघोरानन्तगम्भीरसम्मिता॥74॥ अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा। अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता॥75॥ अनेकभूषणादृश्यानेकलेखनिषेविता। अनन्तानन्तसुखदाघोराघोरस्वरूपिणी॥76॥ अशेषदेवतारूपामृतरूपामृतेश्वरी। अनवद्यानेकहस्तानेकमाणिक्यभूषणा॥77॥ अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता। अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी॥78॥ अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा। अकळंकारूपिणी च ह्यनुग्रहपरायणा॥79॥ अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा। अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्विता॥80॥ अम्बुजानवराखण्डाम्बुजासनमहाप्रिया। अजरामरसंसेव्याजरसेवितपद्युगा॥81॥ अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता। अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा॥82॥ अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रिया। अखण्डात्वमरस्तुत्यामरनायकपूजिता॥83॥ अजेयात्वजसंकाशाज्ञाननाशिन्यभीष्टदा। अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा॥84॥ अनन्तसारानन्तश्रीरनन्तविधिपूजिता। अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता॥85॥ आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा। अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी॥86॥ अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका। अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा॥87॥ जया जयन्ती जयदा जन्मकर्मविवर्जिता। जगत्प्रिया जगन्माता जगदीश्वरवल्लभा॥88॥ जातिर्जया जितामित्रा जप्या जपनकारिणी। जीवनी जीवनिलया जीवाख्या जीवधारिणी॥89॥ जाह्नवी ज्या जपवती जातिरूपा जयप्रदा। जनार्दनप्रियकरी जोषनीया जगत्स्थिता॥90॥ जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी। जीवातुलतिका जीवजन्मी जन्मनिबर्हणी॥91॥ जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका। जगदानन्दजननी जम्बूश्च जलजेक्षणा॥92॥ जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा। जटा जटावती जप्या जपकर्तृप्रियंकरी॥93॥ जपकृत्पापसंहर्त्री जपकृत्फलदायिनी। जपापुष्पसमप्रख्या जपाकुसुमधारिणी॥94॥ जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी। जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा॥95॥ जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी। जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी॥96॥ जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका। जयलक्षणसम्पूर्णा जयदानकृतोद्यमा॥97॥ जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी। जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी॥98॥ जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना। ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका॥99॥ जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया। जरामरणशून्या च जनित्री जन्मनाशिनी॥100॥ जलजाभा जलमयी जलजासनवल्लभा। जलजस्था जपाराध्या जनमङ्गळकारिणी॥101॥ कामिनी कामरूपा च काम्या कामप्रदायिनी। कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा॥102॥ कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी। कञ्जाक्षी करुणारूपा केवलामरसेविता॥103॥ कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी। कमला कमलावासा कमलोत्पलमालिनी॥104॥ कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा। कामेश्वरी कमलिनी कामदा कामबन्धिनी॥105॥ कामधेनुः काञ्चनाक्षी काञ्चनाभा कळानिधिः। क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी॥106॥ क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी। क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी॥107॥ कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना। कन्दर्पजननी कान्ता करुणा करुणावती॥108॥ क्लींकारिणी कृपाकारा कृपासिन्धुः कृपावती। करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी॥109॥ क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी। कळा कळावती कूर्मी कूटस्था कञ्जसंस्थिता॥110॥ काळिका कल्मषघ्नी च कमनीयजटान्विता। करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा॥111॥ कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा। कूर्मयाना कल्पलता कालकूटविनाशिनी॥112॥ कल्पोद्यानवती कल्पवनस्था कल्पकारिणी। कदम्बकुसुमाभासा कदम्बकुसुमप्रिया॥113॥ कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा। कुलमाता कुलावासा कुलाचारप्रियंकरी॥114॥ कुलानाथा कामकळा कळानाथा कळेश्वरी। कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका॥115॥ कवित्वदा काव्यमाता कविमाता कळाप्रदा। तरुणी तरुणीताता ताराधिपसमानना॥116॥ तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा। तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी॥117॥ त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी। त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका॥118॥ त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी। त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी॥119॥ तमालसदृशी त्राता तरुणादित्यसन्निभा। त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी॥120॥ तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी। त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता॥121॥ तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी। तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी॥122॥ त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता। तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी॥123॥ तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता। त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा॥124॥ तेजस्विनी तापहारी तापोपप्लवनाशिनी। तेजोगर्भा तपःसारा त्रिपुरारिप्रियंकरी॥125॥ तन्वी तापससंतुष्टा तपनाङ्गजभीतिनुत्। त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता॥126॥ त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी। शुभा शुभावती शान्ता शान्तिदा शुभदायिनी॥127॥ शीतळा शूलिनी शीता श्रीमती च शुभान्विता। योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता॥128॥ यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा। यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता॥129॥ यामिनीयप्रभा याम्या यजनीया यशस्करी। यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता॥130॥ यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता। यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी॥131॥ योगिनी योगरूपा च योगकर्तृप्रियंकरी। योगयुक्ता योगमयी योगयोगीश्वराम्बिका॥132॥ योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता। यन्त्रिताघौघसंहारा यमलोकनिवारिणी॥133॥ यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक्। योगीश्वरी योगमाता योगसिद्धा च योगदा॥134॥ योगारूढा योगमयी योगरूपा यवीयसी। यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता॥135॥ युगकर्त्री युगमयी युगधर्मविवर्जिता। यमुना यमिनी याम्या यमुनाजलमध्यगा॥136॥ यातायातप्रशमनी यातनानान्निकृन्तनी। योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी॥137॥ योगक्षेममयी यन्त्रा यावदक्षरमातृका। यावत्पदमयी यावच्छब्दरूपा यथेश्वरी॥138॥ यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता। यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता॥139॥ योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी। योगिवन्द्या योगिमाता योगीशफलदायिनी॥140॥ यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता। यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी॥141॥ यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियंकरी। यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा॥142॥ यजनीया यमस्तुत्या योगयुक्ता यशस्करी। योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी॥143॥ योगिज्ञानप्रदा यक्षी यमबाधाविनाशिन। योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिन॥144॥ ॥ इति श्रीस्कान्दपुराणान्तर्गत सनत्कुमार संहितायां नारद सनत्कुमार संवादे सरस्वतीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥ Devi Saraswati

    Kali Sahasranama Stotram (काली सहस्रनाम स्तोत्रम्)

    काली सहस्रनाम स्तोत्रम् (Kali Sahasranama Stotram) ॐ श्मशानकालिका काली भद्रकाली कपालिनी। गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी॥1॥ कालिका कालरात्रिश्च महाकालनितम्बिनी। कालभैरवभार्या च कुलवर्त्मप्रकाशिनी॥2॥ कामदा कामिनी काम्या कामनीयस्वभाविनी। कस्तूरीरसनीलाङ्गी कुञ्जरेश्वरगामिनी॥3॥ ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी। कामार्ता कामरूपा च कामधेनुः कलावती॥4॥ कान्ता कामस्वरूपा च कामाख्या कुलपालिनी। कुलीना कुलवत्यम्बा दुर्गा दुर्गार्तिनाशिनी॥5॥ कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी। कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला॥6॥ करालास्या कराली च कुलकान्ताऽपराजिता। उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला॥7॥ नीला घना बलाका च मात्रामुद्रापिताऽसिता। ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला॥8॥ माहेश्वरी च चामुण्डा वाराही नारसिंहिका। वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा॥9॥ मालिनी नरमुण्डाली गलद्रक्तविभूषणा। रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका॥10॥ घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा। महादंष्ट्रा महामाया सुदती युगदन्तुरा॥11॥ सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना। शारदेन्दुप्रसन्नास्या स्फुरत्स्मेराम्बुजेक्षणा॥12॥ अट्टहासप्रसन्नास्या स्मेरवक्त्रा सुभाषिणी। प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि॥13॥ कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी। सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी॥14॥ प्रचण्डा चण्डिका चण्डी चर्चिका चण्डवेगिनी। सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा॥15॥ प्रेतदेहा कर्णपूरा प्रेतपाणिसुमेखला। प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया॥16॥ श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता। पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी॥17॥ पुत्रा पवित्रा परमा पुरापुण्यविभूषणा। पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी॥18॥ नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका। दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी॥19॥ दिगम्बरा घोररावा सृक्कान्ता रक्तवाहिनी। घोररावा शिवा खड्गा विशङ्का मदनातुरा॥20॥ मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी। अतिमत्ता महामत्ता सर्वाकर्षणकारिणी॥21॥ गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा। चतुर्भुजा दशभुजा अष्टादशभुजा तथा॥22॥ कात्यायनी जगन्माता जगती परमेश्वरी। जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी॥23॥ जन्ममयी हैमवती महामाया महामहा। नागयज्ञोपवीताङ्गी नागिनी नागशायिनी॥24॥ नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी। मोहरात्री महारात्री दारुणा भासुराम्बरा॥25॥ विद्याधरी वसुमती यक्षिणी योगिनी जरा। राक्षसी डाकिनी वेदमयी वेदविभूषणा॥26॥ श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी। चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती॥27॥ अपर्णा निश्चला लोला सर्वविद्या तपस्विनी। गङ्गा काशी शची सीता सती सत्यपरायणा॥28॥ नीतिस्सुनीतिस्सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा। वाणी बुद्धिर्महालक्ष्मीर्लक्ष्मीर्नीलसरस्वती॥29॥ स्रोतस्वती सरस्वती मातङ्गी विजया जया। नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी॥30॥ शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी। स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी॥31॥ परमाणुस्वरूपा च चिदानन्दस्वरूपिणी। सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी॥32॥ सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी। रङ्गिणी टङ्किनी चित्रा विचित्रा चित्ररूपिणी॥33॥ पद्मा पद्मालया पद्ममुखी पद्मविभूषणा। डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया॥34॥ भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी। उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी॥35॥ सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान्। शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता॥36॥ सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा। सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा॥37॥ कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया। तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी॥38॥ चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी। त्रपा त्रपावती लज्जा विलज्जा हरयौवती॥39॥ सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी। गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा॥40॥ भीमा भयानका भीमनादिनी भीः प्रभावती। वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया॥41॥ ऋक्सामाथर्वनिलया रागिणी शोभना सुरा। कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा॥42॥ वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी। मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता॥43॥ रम्भोर्वशी रती रामा रोहिणी रेवती मखा। शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा॥44॥ शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी। पिनाकधारिणी धूम्रा सुरभी वनमालिनी॥45॥ रथिनी समरप्रीता वेगिनी रणपण्डिता। जटिनी वज्रिणी नीला लावण्याम्बुदचन्द्रिका॥46॥ बलिप्रिया सदापूज्या दैत्येन्द्रमथिनी तथा। महिषासुरसंहर्त्री कामिनी रक्तदन्तिका॥47॥ रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी। रक्तप्रिया मांसरुचिर्वासवासक्तमानसा॥48॥ गलच्छोणितमुण्डाली कण्ठमालाविभूषणा। शवासना चितान्तस्था महेशी वृषवाहिनी॥49॥ व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी। वामदेवी महादेवी गौरी सर्वज्ञभामिनी॥50॥ बालिका तरुणी वृद्धा वृद्धमाता जरातुरा। सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मणी सती॥51॥ सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी। अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी॥52॥ मन्दाकिनी मन्दहासा ज्वालामुख्यऽसुरान्तका। मानदा मानिनी मान्या माननीया मदातुरा॥53॥ मदिरामेदुरोन्मादा मेध्या साध्या प्रसादिनी। सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा॥54॥ जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी। सुखदा शुभदा सत्या सभासङ्क्षोभकारिणी॥55॥ शिवदूती भूतिमती विभूतिर्भूषणानना। कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका॥56॥ कीर्तिर्यशस्विनी भूषा भूष्ठा भूतपतिप्रिया। सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी॥57॥ धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी। उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका॥58॥ राज्ञामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका। महाकुलीना निष्कामा सकामा कामजीवना॥59॥ कामदेवकला रामाऽभिरामा शिवनर्तकी। चिन्तामणिः कल्पलता जाग्रती दीनवत्सला॥60॥ कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा। सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी॥61॥ त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी। तडागनिम्नजठरा शुष्कमांसास्थिमालिनी॥62॥ अवन्ती मधुरा हृद्या त्रैलोक्यापावनक्षमा। व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी॥63॥ क्षेमङ्करी शाङ्करी च सर्वसम्मोहकारिणी। ऊर्द्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा॥64॥ अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला। सर्वप्रियङ्करी भोग्या धनिनी पिशिताशना॥65॥ भयङ्करी पापहरा निष्कलङ्का वशङ्करी। आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी॥66॥ सहस्रसूर्यसङ्काशा चन्द्रकोटिसमप्रभा। निशुम्भशुम्भसंहर्त्री रक्तबीजविनाशिनी॥67॥ मधुकैटभसंहर्त्री महिषासुरघातिनी। वह्निमण्डलमध्यस्था सर्वसत्त्वप्रतिष्ठिता॥68॥ सर्वाचारवती सर्वदेवकन्याधिदेवता। दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी॥69॥ इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी। रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः॥70॥ मनस्विनी देवमाता यशस्या ब्रह्मवादिनी। सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी॥71॥ आधाररूपिणी ध्येया मूलाधारनिवासिनी। आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी॥72॥ वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता। आन्वीक्षिकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरी॥73॥ ज्वालिनी ज्वलिनी शैलतनया विन्ध्यवासिनी। प्रत्यया खेचरी धैर्या तुरीया विमलाऽऽतुरा॥74॥ प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी। भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा॥75॥ ईक्षासिद्धिर्वशित्वा च ईशित्वोर्ध्वनिवासिनी। लघिमा चैव सावित्री गायत्री भुवनेश्वरी॥76॥ मनोहरा चिता दिव्या देव्युदारा मनोरमा। पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा॥77॥ सुषुम्नेडा योगवती गान्धारी नवकान्तका। पाञ्चाली रुक्मिणी राधा राध्या भामा च राधिका॥78॥ अमृता तुलसी वृन्दा कैटभी कपटेश्वरी। उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी॥79॥ उग्रतारा यशोदाख्या देवकी देवमानिता। निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका॥80॥ कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा। योगीश्वरी महामारी भ्रामरी बिन्दुरूपिणी॥81॥ दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा। कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः॥82॥ द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया। शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा॥83॥ अमेया विक्रमा क्रूरा सम्यक्छीला त्रिविक्रमा। स्वस्तिर्हव्यवहा प्रीतिरुक्मा धूम्रार्चिरङ्गदा॥84॥ तपिनी तापिनी विश्वभोगदा धारिणी धरा। त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी॥85॥ बीजरूपा महामुद्रा वशिनी योगरूपिणी। अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी॥86॥ अनङ्गमदनाऽनङ्गरेखाऽनङ्गकुशेश्वरी। अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका॥87॥ सर्वतन्त्रमयी सर्वमोदिन्यानन्दरूपिणी। वज्रेश्वरी च जयिनी सर्वदुःखक्षयङ्करी॥88॥ षडङ्गयुवती योगेयुक्ता ज्वालांशुमालिनी। दुराशया दुराधारा दुर्जया दुर्गरूपिणी॥89॥ दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा। हंसेश्वरी त्रिलोकस्था शाकम्भर्यनुरागिणी॥90॥ त्रिकोणनिलया नित्या परमामृतरञ्जिता। महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी॥91॥ त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी। भक्तानन्दमयी भक्तभाविता भक्तशङ्करी॥92॥ सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी। सर्वसम्भोगभवना सर्वसौख्यानुरूपिणी॥93॥ कुमारीपूजनरता कुमारीव्रतचारिणी। कुमारीभक्तिसुखिनी कुमारीरूपधारिणी॥94॥ कुमारीपूजकप्रीता कुमारीप्रीतिदप्रिया। कुमारीसेवकासङ्गा कुमारीसेवकालया॥95॥ आनन्दभैरवी बालभैरवी बटुभैरवी। श्मशानभैरवी कालभैरवी पुरभैरवी॥96॥ महाभैरवपत्नी च परमानन्दभैरवी। सुरानन्दभैरवी च उन्मादानन्दभैरवी॥97॥ यज्ञानन्दभैरवी च तथा तरुणभैरवी। ज्ञानानन्दभैरवी च अमृतानन्दभैरवी॥98॥ महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी। त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी॥99॥ त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी। महासप्तदशी चैव षोडशी त्रिपुरेश्वरी॥100॥ महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा। नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी॥101॥ राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी। सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी॥102॥ सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयका। यवायावकसिन्दूररक्तचन्दनधारिणी॥103॥ यवायावकसिन्दूररक्तचन्दनरूपधृक्। चमरी बालकुटिला निर्मला श्यामकेशिनी॥104॥ वज्रमौक्तिकरत्नाढ्या किरीटकुण्डलोज्ज्वला। रत्नकुण्डलसंयुक्ता स्फुरद्गण्डमनोरमा॥105॥ कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका। मुक्ताविद्रुममाणिक्यहाराद्यस्तनमण्डला॥106॥ सूर्यकान्तेन्दुकान्ताढ्या स्पर्शाश्मगलभूषणा। बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा॥107॥ कामकोदण्डकाभुग्नभ्रूकटाक्षप्रवर्षिणी। मातङ्गकुम्भवक्षोजा लसत्कनकदक्षिणा॥108॥ मनोज्ञशष्कुलीकर्णा हंसीगतिविडम्बिनी। पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिनी॥109॥ कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिता। विचित्ररत्नपृथिवीकल्पशाखितलस्थिता॥110॥ रत्नदीपस्फुरद्रत्नसिंहासननिवासिनी। षट्चक्रभेदनकरी परमानन्दरूपिणी॥111॥ सहस्रदलपद्मान्ता चन्द्रमण्डलवर्तिनी। ब्रह्मरूपा शिवक्रोडा नानासुखविलासिनी॥112॥ हरविष्णुविरिञ्चेन्द्रग्रहनायकसेविता। शिवा शैवा च रुद्राणी तथैव शिवनादिनी॥113॥ महादेवप्रिया देवी तथैवानङ्गमेखला। डाकिनी योगिनी चैव तथोपयोगिनी मता॥114॥ माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी। अलम्बुसा भोगवती क्रोधरूपा सुमेखला॥115॥ गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी। पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी॥116॥ भगात्मिका भगाधारा भगेशी भगरूपिणी। लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा॥117॥ लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक्। लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी॥118॥ भगवती कौशिकी च प्रेमरूपा प्रियंवदा। गृध्ररूपी शिवारूपा चक्रेशी चक्ररूपधृक्॥119॥ आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा। भगरूपा भगस्थात्री भगिनी भगमालिनी॥120॥ भगात्मिका भगाधारा रूपिणी भगशालिनी। लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी॥121॥ लिङ्गस्था लिङ्गिनी लिङ्गरूपिणी लिङ्गसुन्दरी। लिङ्गगीतिर्महाप्रीतिर्भगगीतिर्महासुखा॥122॥ लिङ्गनामसदानन्दा भगनामसदारतिः। भगनामसदानन्दा लिङ्गनामसदारतिः॥123॥ लिङ्गमालकराभूषा भगमालाविभूषणा। भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका॥124॥ भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी। भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा॥125॥ स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता। स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्थिता॥126॥ स्वयम्भूकुसुमस्नाता स्वयम्भूपुष्पतर्पिता। स्वयम्भूपुष्पघटिता स्वयम्भूपुष्पधारिणी॥127॥ स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पचर्चिता। स्वयम्भूपुष्पनिरता स्वयम्भूकुसुमाग्रहा॥128॥ स्वयम्भूपुष्पयज्ञेशा स्वयम्भूकुसुमालिका। स्वयम्भूपुष्पनिचिता स्वयम्भूकुसुमार्चिता॥129॥ स्वयम्भूकुसुमादानलालसोन्मत्तमानसा। स्वयम्भूकुसुमानन्दलहरी स्निग्धदेहिनी॥130॥ स्वयम्भूकुसुमाधारा स्वयम्भूकुसुमाकुला। स्वयम्भूपुष्पनिलया स्वयम्भूपुष्पवासिनी॥131॥ स्वयम्भूकुसुमास्निग्धा स्वयम्भूकुसुमात्मिका। स्वयम्भूपुष्पकरिणी स्वयम्भूपुष्पमालिका॥132॥ स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमप्रभा। स्वयम्भूकुसुमज्ञाना स्वयम्भूपुष्पभोगिनी॥133॥ स्वयम्भूकुसुमोल्लासा स्वयम्भूपुष्पवर्षिणी। स्वयम्भूकुसुमानन्दा स्वयम्भूपुष्पपुष्पिणी॥134॥ स्वयम्भूकुसुमोत्साहा स्वयम्भूपुष्परूपिणी। स्वयम्भूकुसुमोन्मादा स्वयम्भूपुष्पसुन्दरी॥135॥ स्वयम्भूकुसुमाराध्या स्वयम्भूकुसुमोद्भवा। स्वयम्भूकुसुमाव्यग्रा स्वयम्भूपुष्पपूर्णिता॥136॥ जस्वयम्भूपूजकप्राज्ञा स्वयम्भूहोतृमात्रिका। स्वयम्भूदातृरक्षित्री स्वयम्भूभक्तभाविका॥137॥ स्वयम्भूकुसुमप्रीता स्वयम्भूपूजकप्रिया। स्वयम्भूवन्दकाधारा स्वयम्भूनिन्दकान्तका॥138॥ स्वयम्भूप्रदसर्वस्वा स्वयम्भूप्रदपुत्रिणी। स्वयम्भूप्रदसस्मेरा स्वयम्भूतशरीरिणी॥139॥ सर्वलोकोद्भवप्रीता सर्वकालोद्भवात्मिका। सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा॥140॥ कुन्दपुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः। कुन्दगोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका॥141॥ स्वयम्भूर्वा शिवा शक्ता पाविनी लोकपाविनी। कीर्तिर्यशस्विनी मेधा विमेधा सुरसुन्दरी॥142॥ अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला। सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभयविनाशिनी॥143॥ वरदाऽभयदा चैव मुक्तिबन्धविनाशिनी। कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी॥144॥ सुखदा दुःखदा मोक्षा मोक्षदार्थप्रकाशिनी। दुष्टादुष्टमती चैव सर्वकार्यविनाशिनी॥145॥ शुक्रधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी। शुक्रालया शुक्रभोगा शुक्रपूजा सदारतिः॥146॥ शुक्रपूज्या शुक्रहोमसन्तुष्टा शुक्रवत्सला। शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी॥147॥ शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी। शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी॥148॥ महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी। शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता॥149॥ शुक्रानन्दकरी शुक्रसदानन्दविधायिनी। शुक्रोत्साहा सदाशुक्रपूर्णा शुक्रमनोरमा॥150॥ शुक्रपूजकसर्वस्था शुक्रनिन्दकनाशिनी। शुक्रात्मिका शुक्रसम्पच्छुक्राकर्षणकारिणी॥151॥ रक्ताशया रक्तभोगा रक्तपूजासदारतिः। रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला॥152॥ रक्तपूर्णा रक्तदेहा रक्तपूजकपुत्रिणी। रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी॥153॥ रक्ताभिदेहा रक्तार्हा रक्तवन्दकवन्दिता। महारक्ता रक्तभवा रक्तवृष्टिविधायिनी॥154॥ रक्तस्नाता रक्तप्रीता रक्तसेव्यातिरक्तिनी। रक्तानन्दकरी रक्तसदानन्दविधायिनी॥155॥ रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा। रक्तसेवकसर्वस्वा रक्तनिन्दकनाशिनी॥156॥ रक्तात्मिका रक्तरूपा रक्ताकर्षणकारिणी। रक्तोत्साहा रक्तव्यग्रा रक्तपानपरायणा॥157॥ शोणितानन्दजननी कल्लोलस्निग्धरूपिणी। साधकान्तर्गता देवी पार्वती पापनाशिनी॥158॥ साधूनां हृदिसंस्थात्री साधकानन्दकारिणी। साधकानां च जननी साधकप्रियकारिणी॥159॥ साधकप्रचुरानन्दसम्पत्तिसुखदायिनी। साधका साधकप्राणा साधकासक्तमानसा॥160॥ साधकोत्तमसर्वस्वासाधका भक्तरक्तपा। साधकानन्दसन्तोषा साधकारिविनाशिनी॥161॥ आत्मविद्या ब्रह्मविद्या परब्रह्मकुटुम्बिनी। त्रिकूटस्था पञ्चकूटा सर्वकूटशरीरिणी॥162॥ सर्ववर्णमयी वर्णजपमालाविधायिनी। इति श्रीकालिकानाम्नां सहस्रं शिवभाषितम्॥163॥ ॥ इति श्रीकालिकाकुलसर्वस्वे श्रीकालिकासहस्रनामस्तोत्रं सम्पूर्णम् ॥

    Dakaradi Shri Durga Sahasra Naam Stotram (दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्)

    दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम् (Dakaradi Shri Durga Sahasra Naam Stotram) श्री देव्युवाच । मम नाम सहस्रं च शिव पूर्वविनिर्मितम् । तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥ इत्युक्त्वा पार्वती देवि श्रावयामास तच्चतान् । तदेव नामसाहस्रं दकारादि वरानने ॥ रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् । सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥ निजबीजं भवेद्बीजं मंत्रं कीलकमुच्यते । सर्वाशापूरणे देवी विनियोगः प्रकीर्तितः ॥ ॐ अस्य श्रीदकारादि दुर्गासहस्रनाम स्तोत्रस्य शिव ऋषिः अनुष्टुप्छंदः श्रीदुर्गा देवता दुं बीजं दुं कीलकं दुःखदारिद्र्यरोगशोक निवृत्त्यर्थं पाठे विनियोगः । ध्यानम् विद्युद्दामसमप्रभां मृगपति स्कंधस्थितां भीषणां कन्याभिः करवालखेटविलद्दस्ताभिरासेविताम् । हसैश्चक्रगदासिखेट विशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ स्तोत्रम् दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी । दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ 1 ॥ दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी । दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ 2 ॥ दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका । दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिः परा ॥ 3 ॥ दुर्गमार्गसदास्थात्री दुर्गमार्गरतिप्रिया । दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ 4 ॥ दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी । दुर्गासुरनिहंत्री च दुर्गासुरनिषूदिनी ॥ 5 ॥ दुर्गासुरहरा दूती दुर्गासुरविनाशिनी । दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ 6 ॥ दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता । दुर्गासुरवधप्रेप्सुः दुर्गासुरमुखांतकृत् ॥ 7 ॥ दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी । दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ 8 ॥ दुर्गविक्षोभणकरी दुर्गशीर्षनिकृंतनी । दुर्गविध्वंसनकरी दुर्गदैत्यनिकृंतनी ॥ 9 ॥ दुर्गदैत्यप्राणहरा दुर्गदैत्यांतकारिणी । दुर्गदैत्यहरत्राता दुर्गदैत्यासृगुन्मदा ॥ 10 ॥ दुर्गदैत्याशनकरी दुर्गचर्मांबरावृता । दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ 11 ॥ दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी । दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ 12 ॥ दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी । दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ 13 ॥ दुर्गदेशवासरता दुर्गदेशविलासिनी । दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ 14 ॥ दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना । दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ 15 ॥ दुर्गमागमसंधाना दुर्गमागमसंस्तुता । दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ 16 ॥ दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता । दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ 17 ॥ दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता । दुर्गमाचारसंतुष्टा दुर्गमाचारतोषिता ॥ 18 ॥ दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता । दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ 19 ॥ दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा । दुर्गमांबुजमध्यस्था दुर्गमांबुजवासिनी ॥ 20 ॥ दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी । दुर्गनाडीपद्मरता दुर्गनाड्यंबुजस्थिता ॥ 21 ॥ दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा । दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ 22 ॥ दुर्गनाडीश्वररता दुर्गनाडीशचुंबिता । दुर्गनाडीशक्रोडस्था दुर्गनाड्यत्थितोत्सुका ॥ 23 ॥ दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता । दरिस्थाना दरिस्थानवासिनी दनुजांतकृत् ॥ 24 ॥ दरीकृततपस्या च दरीकृतहरार्चना । दरीजापितदिष्टा च दरीकृतरतिप्रिया ॥ 25 ॥ दरीकृतहरार्हा च दरीक्रीडितपुत्रिका । दरीसंदर्शनरता दरीरोपितवृश्चिका ॥ 26 ॥ दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा । दनुजांतकरी दीना दनुसंतानदारिणी ॥ 27 ॥ दनुजध्वंसिनी दूना दनुजेंद्रविनाशिनी । दानवध्वंसिनी देवी दानवानां भयंकरी ॥ 28 ॥ दानवी दानवाराध्या दानवेंद्रवरप्रदा । दानवेंद्रनिहंत्री च दानवद्वेषिणीसती ॥ 29 ॥ दानवारिप्रेमरता दानवारिप्रपूजिता । दानवारिकृतार्चा च दानवारिविभूतिदा ॥ 30 ॥ दानवारिमहानंदा दानवारिरतिप्रिया । दानवारिदानरता दानवारिकृतास्पदा ॥ 31 ॥ दानवारिस्तुतिरता दानवारिस्मृतिप्रिया । दानवार्याहाररता दानवारिप्रबोधिनी ॥ 32 ॥ दानवारिधृतप्रेमा दुःखशोकविमोचनी । दुःखहंत्री दुःखदात्री दुःखनिर्मूलकारिणी ॥ 33 ॥ दुःखनिर्मूलनकरी दुःखदारिद्र्यनाशिनी । [दार्यरिनाशिनी] दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ 34 ॥ दुःखहीना दुःखदूरा द्रविणाचारदायिनी । द्रविणोत्सर्गसंतुष्टा द्रविणत्यागतोषिता ॥ 35 ॥ द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा । द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ 36 ॥ द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा । द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिता ॥ 37 ॥ द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका । द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ 38 ॥ द्रविणाकर्षणकरी द्रविणौघविसर्जनी । द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ 39 ॥ दीनमाता दीनबंधुर्दीनविघ्नविनाशिनी । दीनसेव्या दीनसिद्धा दीनसाध्या दिगंबरी ॥ 40 ॥ दीनगेहकृतानंदा दीनगेहविलासिनी । दीनभावप्रेमरता दीनभावविनोदिनी ॥ 41 ॥ दीनमानवचेतःस्था दीनमानवहर्षदा । दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ 42 ॥ दीनसाधनसंतुष्टा दीनदर्शनदायिनी । दीनपुत्रादिदात्री च दीनसम्यग्विधायिनी ॥ 43 ॥ दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता । दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ 44 ॥ दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसादिता । दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा ॥ 45 ॥ दत्तात्रेयस्तुता चैव दत्तात्रेयनुतासदा । दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ 46 ॥ दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुंबिनी । दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ 47 ॥ दत्तात्रेयकृतानंदा दत्तात्रेयांशसंभवा । दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ 48 ॥ दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा । दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ॥ 49 ॥ दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा । देवकन्या देवमान्या देवदुःखविनाशिनी ॥ 50 ॥ देवसिद्धा देवपूज्या देवेज्या देववंदिता । देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ 51 ॥ देवरम्या देवरता देवकौतुकतत्परा । देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ 52 ॥ देवकामा देवरामा देवद्विषविनाशिनी । देवदेवप्रिया देवी देवदानववंदिता ॥ 53 ॥ देवदेवरतानंदा देवदेववरोत्सुका । देवदेवप्रेमरता देवदेवप्रियंवदा ॥ 54 ॥ देवदेवप्राणतुल्या देवदेवनितंबिनी । देवदेवहृतमना देवदेवसुखावहा ॥ 55 ॥ देवदेवक्रोडरता देवदेवसुखप्रदा । देवदेवमहानंदा देवदेवप्रचुंबिता ॥ 56 ॥ देवदेवोपभुक्ता च देवदेवानुसेविता । देवदेवगतप्राणा देवदेवगतात्मिका ॥ 57 ॥ देवदेवहर्षदात्री देवदेवसुखप्रदा । देवदेवमहानंदा देवदेवविलासिनी ॥ 58 ॥ देवदेवधर्मपत्नी देवदेवमनोगता । देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ 59 ॥ देवदेवांगनिलया देवदेवांगशायिनी । देवदेवांगसुखिनी देवदेवांगवासिनी ॥ 60 ॥ देवदेवांगभूषा च देवदेवांगभूषणा । देवदेवप्रियकरी देवदेवाप्रियांतकृत् ॥ 61 ॥ देवदेवप्रियप्राणा देवदेवप्रियात्मिका । देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ 62 ॥ देवदेवार्चकोत्साहा देवदेवार्चकाश्रया । देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ 63 ॥ देवदेवस्य जननी देवदेवविधायिनी । देवदेवस्य रमणी देवदेवहृदाश्रया ॥ 64 ॥ देवदेवेष्टदेवी च देवतापविपातिनी । [तापसपालिनी] देवताभावसंतुष्टा देवताभावतोषिता ॥ 65 ॥ देवताभाववरदा देवताभावसिद्धिदा । देवताभावसंसिद्धा देवताभावसंभवा ॥ 66 ॥ देवताभावसुखिनी देवताभाववंदिता । देवताभावसुप्रीता देवताभावहर्षदा ॥ 67 ॥ देवताविघ्नहंत्री च देवताद्विषनाशिनी । देवतापूजितपदा देवताप्रेमतोषिता ॥ 68 ॥ देवतागारनिलया देवतासौख्यदायिनी । देवतानिजभावा च देवताहृतमानसा ॥ 69 ॥ देवताकृतपादार्चा देवताहृतभक्तिका । देवतागर्वमध्यस्था देवतादेवतातनुः ॥ 70 ॥ दुं‍दुर्गायै नमो नाम्नी दुं‍षण्मंत्रस्वरूपिणी । दूंनमोमंत्ररूपा च दूंनमोमूर्तिकात्मिका ॥ 71 ॥ दूरदर्शिप्रिया दुष्टा दुष्टभूतनिषेविता । दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ 72 ॥ दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता । दूरदर्शिकंठसंस्था दूरदर्शिप्रहर्षिता ॥ 73 ॥ दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्पिता । दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा ॥ 74 ॥ दूरदर्शिभ्रांतिहरा दूरदर्शिहृदास्पदा । दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ 75 ॥ दीर्घदर्शिप्राणतुल्या दीर्घदर्शिवरप्रदा । दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ 76 ॥ दीर्घदर्शिमहानंदा दीर्घदर्शिगृहालया । दीर्घदर्शिगृहीतार्चा दीर्घदर्शिहृतार्हणा ॥ 77 ॥ दया दानवती दात्री दयालुर्दीनवत्सला । दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ 78 ॥ दयांबुधिर्दयासारा दयासागरपारगा । दयासिंधुर्दयाभारा दयावत्करुणाकरी ॥ 80 ॥ दयावद्वत्सलादेवी दयादानरतासदा । दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ 81 ॥ दयावत्स्नेहनिरता दयावत्प्रतिपादिका । दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ 82 ॥ दयावद्भावसंतुष्टा दयावत्परितोषिता । दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ 83 ॥ दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी । दयावद्देहनिलया दयाबंधुर्दयाश्रया ॥ 84 ॥ दयालुवात्सल्यकरी दयालुसिद्धिदायिनी । दयालुशरणासक्ता दयालुर्देहमंदिरा ॥ 85 ॥ दयालुभक्तिभावस्था दयालुप्राणरूपिणी । दयालुसुखदा दंभा दयालुप्रेमवर्षिणी ॥ 86 ॥ दयालुवशगा दीर्घा दीर्घांगी दीर्घलोचना । दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ 87 ॥ दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा । दारुणासुरहंत्री च दारुणासुरदारिणी ॥ 88 ॥ दारुणाहवकर्त्री च दारुणाहवहर्षिता । दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ 89 ॥ दारुणाचारनिरता दारुणोत्सवहर्षिता । दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ 90 ॥ दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता । दशदोष्का दशभुजा दशबाहुविराजिता ॥ 91 ॥ दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा । दशरथार्चितपदा दाशरथिप्रिया सदा ॥ 92 ॥ दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया । दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ 93 ॥ दाशरथीष्टसंदात्री दाशरथीष्टदेवता । दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ 94 ॥ दाशरथिप्रियतमा दाशरथिप्रपूजिता । दशाननारिसंपूज्या दशाननारिदेवता ॥ 95 ॥ दशाननारिप्रमदा दशाननारिजन्मभूः । दशाननारिरतिदा दशाननारिसेविता ॥ 96 ॥ दशाननारिसुखदा दशाननारिवैरिहृत् । दशाननारीष्टदेवी दशग्रीवारिवंदिता ॥ 97 ॥ दशग्रीवारिजननी दशग्रीवारिभाविनी । दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ 98 ॥ दशग्रीवारिरमणी दशग्रीववधूरपि । दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ 99 ॥ दशग्रीवपुरस्था च दशग्रीववधोत्सुका । दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ 100 ॥ दशग्रीवाहवकरी दशग्रीवानपायिनी । दशग्रीवप्रियावंद्या दशग्रीवाहृता तथा ॥ 101 ॥ दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया । दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ 102 ॥ दशग्रीवेश्वररता दशवर्षीयकन्यका । दशवर्षीयबाला च दशवर्षीयवासिनी ॥ 103 ॥ दशपापहरा दम्या दशहस्तविभूषिता । दशशस्त्रलसद्दोष्का दशदिक्पालवंदिता ॥ 104 ॥ दशावताररूपा च दशावताररूपिणी । दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ 105 ॥ दशविद्यास्वरूपा च दशविद्यामयी तथा । दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ 106 ॥ दिगंतरा दिगंतस्था दिगंबरविलासिनी । दिगंबरसमाजस्था दिगंबरप्रपूजिता ॥ 107 ॥ दिगंबरसहचरी दिगंबरकृतास्पदा । दिगंबरहृताचित्ता दिगंबरकथाप्रिया ॥ 108 ॥ दिगंबरगुणरता दिगंबरस्वरूपिणी । दिगंबरशिरोधार्या दिगंबरहृताश्रया ॥ 109 ॥ दिगंबरप्रेमरता दिगंबररतातुरा । दिगंबरीस्वरूपा च दिगंबरीगणार्चिता ॥ 110 ॥ दिगंबरीगणप्राणा दिगंबरीगणप्रिया । दिगंबरीगणाराध्या दिगंबरगणेश्वरा ॥ 111 ॥ दिगंबरगणस्पर्शामदिरापानविह्वला । दिगंबरीकोटिवृता दिगंबरीगणावृता ॥ 112 ॥ दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा । दुरंतदानवद्वेष्टी दुरंतदनुजांतकृत् ॥ 113 ॥ दुरंतपापहंत्री च दस्रनिस्तारकारिणी । दस्रमानससंस्थाना दस्रज्ञानविवर्धिनी ॥ 114 ॥ दस्रसंभोगजननी दस्रसंभोगदायिनी । दस्रसंभोगभवना दस्रविद्याविधायिनी ॥ 115 ॥ दस्रोद्वेगहरा दस्रजननी दस्रसुंदरी । दस्रभक्तिविधाज्ञाना दस्रद्विषविनाशिनी ॥ 116 ॥ दस्रापकारदमनी दस्रसिद्धिविधायिनी । दस्रताराराधिता च दस्रमातृप्रपूजिता ॥ 117 ॥ दस्रदैन्यहरा चैव दस्रतातनिषेविता । दस्रपितृशतज्योतिर्दस्रकौशलदायिनी ॥ 118 ॥ दशशीर्षारिसहिता दशशीर्षारिकामिनी । दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ 119 ॥ दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया । दशशीर्षशिरश्छेत्री दशशीर्षनितंबिनी ॥ 120 ॥ दशशीर्षहरप्राणा दशशीर्षहरात्मिका । दशशीर्षहराराध्या दशशीर्षारिवंदिता ॥ 121 ॥ दशशीर्षारिसुखदा दशशीर्षकपालिनी । दशशीर्षज्ञानदात्री दशशीर्षारिदेहिनी ॥ 122 ॥ दशशीर्षवधोपात्तश्रीरामचंद्ररूपता । दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ 123 ॥ दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया । दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ 124 ॥ दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता । दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ 125 ॥ दैत्यगुरुगतप्राणा दैत्यगुरुतापनाशिनी । दुरंतदुःखशमनी दुरंतदमनीतमी ॥ 126 ॥ दुरंतशोकशमनी दुरंतरोगनाशिनी । दुरंतवैरिदमनी दुरंतदैत्यनाशिनी ॥ 127 ॥ दुरंतकलुषघ्नी च दुष्कृतिस्तोमनाशिनी । दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ 128 ॥ दर्शनीया च दृश्या च दृष्ट्वा च दृष्टिगोचरा । दूतीयागप्रिया दूती दूतीयागकरप्रिया ॥ 129 ॥ दूतीयागकरानंदा दूतीयागसुखप्रदा । दूतीयागकरायाता दूतीयागप्रमोदिनी ॥ 130 ॥ दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता । दुर्वासोऽर्चितपादा च दुर्वासोमुनिभाविता ॥ 131 ॥ दुर्वासोमुनिवंद्या च दुर्वासोमुनिदेवता । दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ 132 ॥ दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता । दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमंडिता ॥ 133 ॥ दुर्वासोमुनिसंचारा दुर्वासोहृदयंगमा । दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा ॥ 134 ॥ दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया । दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ 135 ॥ दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा । दररात्री दरहरा दरयुक्ता दरापहा ॥ 136 ॥ दरघ्नी दरहंत्री च दरयुक्ता दराश्रया । दरस्मेरा दरापांगी दयादात्री दयाश्रया । दस्रपूज्या दस्रमाता दस्रदेवी दरोन्मदा ॥ 137 ॥ दस्रसिद्धा दस्रसंस्था दस्रतापविमोचनी । दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका ॥ 138 ॥ दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनाप्रिया । दैत्यगुर्वंगनासिद्धा दैत्यगुर्वंगनोत्सुका ॥ 139 ॥ दैत्यगुरुप्रियतमा देवगुरुनिषेविता । देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ 140 ॥ देवगुरुप्रेमयुता देवगुर्वनुमानिता । देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ 141 ॥ देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी । दैत्यस्त्रीगणसंपूज्या दैत्यस्त्रीगणपूजिता ॥ 142 ॥ दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी । देवस्त्रीगणपूज्या च देवस्त्रीगणवंदिता ॥ 143 ॥ देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता । देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ 144 ॥ देवस्त्रीगणहस्तस्थचारुचामरवीजिता । देवस्त्रीगणहस्तस्थचारुगंधविलेपिता ॥ 145 ॥ देवांगनाधृतादर्शदृष्ट्यर्थमुखचंद्रमा । देवांगनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ 146 ॥ देवस्त्रीगणहस्तस्थधूपाघ्राणविनोदिनी । देवस्त्रीगणहस्तस्थदीपमालाविलोकना ॥ 147 ॥ देवनारीकरगतवासकासवपायिनी । देवनारीकंकतिकाकृतकेशनिमार्जना ॥ 148 ॥ देवनारीसेव्यगात्रा देवनारीकृतोत्सुका । देवनारीविरचितपुष्पमालाविराजिता ॥ 149 ॥ देवनारीविचित्रांगी देवस्त्रीदत्तभोजना । देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ 150 ॥ देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी । देवस्त्रीयोजितलसद्रत्नपादपदांबुजा ॥ 151 ॥ देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी । देवनारीचारुकराकलितांघ्र्यादिदेहिका ॥ 152 ॥ देवनारीकरव्यग्रतालवृंतमरुत्सका । देवनारीवेणुवीणानादसोत्कंठमानसा ॥ 153 ॥ देवकोटिस्तुतिनुता देवकोटिकृतार्हणा । देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ॥ 154 ॥ दंतदाष्ट्योद्वेगफला देवकोलाहलाकुला । द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ 155 ॥ दामपूज्या दामभूषा दामोदरविलासिनी । दामोदरप्रेमरता दामोदरभगिन्यपि ॥ 156 ॥ दामोदरप्रसूर्दामोदरपत्नीपतिव्रता । दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ 157 ॥ दामोदराभिन्नतनुर्दामोदरकृतास्पदा । दामोदरकृतप्राणा दामोदरगतात्मिका ॥ 158 ॥ दामोदरकौतुकाढ्या दामोदरकलाकला । दामोदरालिंगितांगी दामोदरकुतूहला ॥ 159 ॥ दामोदरकृताह्लादा दामोदरसुचुंबिता । दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ 160 ॥ दामोदरसहाढ्या च दामोदरसहायिनी । दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ 161 ॥ दामोदरानुकूला च दामोदरनितंबिनी । दामोदरजलक्रीडाकुशला दर्शनप्रिया ॥ 162 ॥ दामोदरजलक्रीडात्यक्तस्वजनसौहृदा । दामोदरलसद्रासकेलिकौतुकिनी तथा ॥ 163 ॥ दामोदरभ्रातृका च दामोदरपरायणा । दामोदरधरा दामोदरवैरिविनाशिनी ॥ 164 ॥ दामोदरोपजाया च दामोदरनिमंत्रिता । दामोदरपराभूता दामोदरपराजिता ॥ 165 ॥ दामोदरसमाक्रांता दामोदरहताशुभा । दामोदरोत्सवरता दामोदरोत्सवावहा ॥ 166 ॥ दामोदरस्तन्यदात्री दामोदरगवेषिता । दमयंतीसिद्धिदात्री दमयंतीप्रसादिता ॥ 167 ॥ दमयंतीष्टदेवी च दमयंतीस्वरूपिणी । दमयंतीकृतार्चा च दमनर्षिविभाविता ॥ 168 ॥ दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी । दमनर्षिस्वरूपा च दंभपूरितविग्रहा ॥ 169 ॥ दंभहंत्री दंभधात्री दंभलोकविमोहिनी । दंभशीला दंभहरा दंभवत्परिमर्दिनी ॥ 170 ॥ दंभरूपा दंभकरी दंभसंतानधारिणी । दत्तमोक्षा दत्तधना दत्तारोग्या च दांभिका ॥ 171 ॥ दत्तपुत्रा दत्तदारा दत्तहारा च दारिका । दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ॥ 172 ॥ दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका । दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ 173 ॥ दत्तसौधावनीवासा दत्तस्वर्गा च दासदा । दास्यतुष्टा दास्यहरा दासदासीशतप्रदा ॥ 174 ॥ दाररूपा दारवासा दारवासिहृदास्पदा । दारवासिजनाराध्या दारवासिजनप्रिया ॥ 175 ॥ दारवासिविनिर्णीता दारवासिसमर्चिता । दारवास्याहृतप्राणा दारवास्यारिनाशिनी ॥ 176 ॥ दारवासिविघ्नहरा दारवासिविमुक्तिदा । दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ 177 ॥ दंपती दंपतीष्टा च दंपतीप्राणरूपिका । दंपतीस्नेहनिरता दांपत्यसाधनप्रिया ॥ 178 ॥ दांपत्यसुखसेवा च दांपत्यसुखदायिनी । दांपत्याचारनिरता दांपत्यामोदमोदिता ॥ 179 ॥ दांपत्यामोदसुखिनी दांपत्याह्लादकारिणी । दंपतीष्टपादपद्मा दांपत्यप्रेमरूपिणी ॥ 180 ॥ दांपत्यभोगभवना दाडिमीफलभोजिनी । दाडिमीफलसंतुष्टा दाडिमीफलमानसा ॥ 181 ॥ दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी । दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ 182 ॥ दाडिमीफलसाम्योरुपयोधरहृदायुता । [समन्विता] दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ 183 ॥ दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः । दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ 184 ॥ दक्षयज्ञनाशकर्त्री दक्षयज्ञांतकारिणी । दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ 185 ॥ दक्षात्मजा दक्षसूनुर्दक्षजा दक्षजातिका । दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ 186 ॥ दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका । दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ 187 ॥ दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता । दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ 188 ॥ दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवंदिता । दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ 189 ॥ द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता । द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ 190 ॥ द्वारकरी द्वारधात्री दोषमात्रविवर्जिता । दोषकरा दोषहरा दोषराशिविनाशिनी ॥ 191 ॥ दोषाकरविभूषाढ्या दोषाकरकपालिनी । दोषाकरसहस्राभा दोषाकरसमानना ॥ 192 ॥ दोषाकरमुखी दिव्या दोषाकरकराग्रजा । दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ 193 ॥ दोषाकरश्रेणी दोषसदृशापांगवीक्षणा । दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ 194 ॥ दोषाकरप्राणरूपा दोषाकरमरीचिका । दोषाकरोल्लसत्फाला दोषाकरसुहर्षिणी ॥ 195 ॥ दोषाकरशिरोभूषा दोषाकरवधूप्रिया । दोषाकरवधूप्राणा दोषाकरवधूर्मता ॥ 196 ॥ दोषाकरवधूप्रीता दोषाकरवधूरपि । दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ 197 ॥ दोषाजापमहानंदा दोषाजपपरायणा । दोषापुरश्चाररता दोषापूजकपुत्रिका ॥ 198 ॥ दोषापूजकवात्सल्यकारिणीजगदंबिका । दोषापूजकवैरिघ्नी दोषापूजकविघ्नहृत् ॥ 199 ॥ दोषापूजकसंतुष्टा दोषापूजकमुक्तिदा । दमप्रसूनसंपूज्या दमपुष्पप्रिया सदा ॥ 200 ॥ दुर्योधनप्रपूज्या च दुश्शासनसमर्चिता । दंडपाणिप्रिया दंडपाणिमाता दयानिधिः ॥ 201 ॥ दंडपाणिसमाराध्या दंडपाणिप्रपूजिता । दंडपाणिगृहासक्ता दंडपाणिप्रियंवदा ॥ 202 ॥ दंडपाणिप्रियतमा दंडपाणिमनोहरा । दंडपाणिहृतप्राणा दंडपाणिसुसिद्धिदा ॥ 203 ॥ दंडपाणिपरामृष्टा दंडपाणिप्रहर्षिता । दंडपाणिविघ्नहरा दंडपाणिशिरोधृता ॥ 204 ॥ दंडपाणिप्राप्तचर्चा दंडपाण्युन्मुखी सदा । दंडपाणिप्राप्तपदा दंडपाणिपराङ्मुखी ॥ 205 ॥ दंडहस्ता दंडपाणिर्दंडबाहुर्दरांतकृत् । दंडदोष्का दंडकरा दंडचित्तकृतास्पदा ॥ 206 ॥ दंडिविद्या दंडिमाता दंडिखंडकनाशिनी । दंडिप्रिया दंडिपूज्या दंडिसंतोषदायिनी ॥ 207 ॥ दस्युपूजा दस्युरता दस्युद्रविणदायिनी । दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ 208 ॥ दस्युनिर्नाशिनी दस्युकुलनिर्नाशिनी तथा । दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ 209 ॥ दुष्टदंडकरी दुष्टवर्गविद्राविणी तथा । दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी ॥ 210 ॥ दूषकोत्तापजननी दूषकारिष्टकारिणी । दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ 211 ॥ दारुकारिनिहंत्री च दारुकेश्वरपूजिता । दारुकेश्वरमाता च दारुकेश्वरवंदिता ॥ 212 ॥ दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता । दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ॥ 213 ॥ दर्भकर्माचाररता दर्भहस्तकृतार्हणा । दर्भानुकूला दार्भर्या दर्वीपात्रानुदामिनी ॥ 214 ॥ दमघोषप्रपूज्या च दमघोषवरप्रदा । दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ 215 ॥ दावाग्निरूपा दावाग्निनिर्नाशितमहाबला । दंतदंष्ट्रासुरकला दंतचर्चितहस्तिका ॥ 216 ॥ दंतदंष्ट्रस्यंदना च दंतनिर्नाशितासुरा । दधिपूज्या दधिप्रीता दधीचिवरदायिनी ॥ 217 ॥ दधीचीष्टदेवता च दधीचिमोक्षदायिनी । दधीचिदैन्यहंत्री च दधीचिदरधारिणी ॥ 218 ॥ दधीचिभक्तिसुखिनी दधीचिमुनिसेविता । दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ 219 ॥ दधीचिकुलसंभूषा दधीचिभुक्तिमुक्तिदा । दधीचिकुलदेवी च दधीचिकुलदेवता ॥ 220 ॥ दधीचिकुलगम्या च दधीचिकुलपूजिता । दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ 221 ॥ दधीचिदुःखहंत्री च दधीचिकुलसुंदरी । दधीचिकुलसंभूता दधीचिकुलपालिनी ॥ 222 ॥ दधीचिदानगम्या च दधीचिदानमानिनी । दधीचिदानसंतुष्टा दधीचिदानदेवता ॥ 223 ॥ दधीचिजयसंप्रीता दधीचिजपमानसा । दधीचिजपपूजाढ्या दधीचिजपमालिका ॥ 224 ॥ दधीचिजपसंतुष्टा दधीचिजपतोषिणी । दधीचितापसाराध्या दधीचिशुभदायिनी ॥ 225 ॥ दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः । नाम्नां सहस्रं दुर्गाया दादीनामिति कीर्तितम् ॥ 226 ॥ फलशृतिः यः पठेत्साधकाधीशः सर्वसिद्धिर्लभेत्तु सः । प्रातर्मध्याह्नकाले च संध्यायां नियतः शुचिः ॥ 227 ॥ तथाऽर्धरात्रसमये स महेश इवापरः । शक्तियुक्ता महारात्रौ महावीरः प्रपूजयेत् ॥ 228 ॥ महादेवीं मकाराद्यैः पंचभिर्द्रव्य सत्तमैः । तत्पठेत् स्तुतिमिमां यः स च सिद्धिस्वरूपधृक् ॥ 229 ॥ देवालये श्मशाने च गंगातीरे निजेगृहे । वारांगनागृहे चैव श्रीगुरोः सन्निधानपि ॥ 230 ॥ पर्वते प्रांतरे घोरे स्तोत्रमेतत्सदा पठेत् । दुर्गानामसहस्रेण दुर्गां पश्यति चक्षुषा ॥ 231 ॥ शतावर्तनमेतस्य पुरश्चरणमुच्यते । स्तुतिसारो निगदितः किं भूयः श्रोतुमिच्छसि ॥ 232 ॥ इति कुलार्णवे दुर्गा दकारादि सहस्रनामस्तोत्रम् ।

    Anjaneya Sahasra Naam (आञ्जनेय सहस्र नामम्)

    आञ्जनेय सहस्र नामम् (Anjaneya Sahasra Naam) ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रृषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः । ध्यानम् प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् । सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥ गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् । ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ वामहस्तसमाकृष्टदशास्याननमण्डलम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ स्तोत्रम् हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः । अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ 1 ॥ धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः । पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ 2 ॥ शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः । पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ 3 ॥ अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः । आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ 4 ॥ भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः । विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ 5 ॥ विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः । विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ 6 ॥ प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ 7 ॥ अञ्जनासूनुरव्यग्रो ग्रामस्यान्तो धराधरः । भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ 8 ॥ सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः ॥ 9 ॥ गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ 10 ॥ जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ 11 ॥ द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः ॥ 12 ॥ बुभूकारहतारातिर्गर्वपर्वतमर्दनः । हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः ॥ 13 ॥ जगन्नाथो जगन्नेता जगदीशो जनेश्वरः । जगत्श्रितो हरिः श्रीशो गरुडस्मयभञ्जकः ॥ 14 ॥ पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ 15 ॥ सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः । कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ 16 ॥ सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ 17 ॥ उदधिक्रमणो देवः संसारभयनाशनः । वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ 18 ॥ लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः । भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥ श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः । कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ 20 ॥ विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः । ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ॥ 21 ॥ समीरतनुजो वीरो वीरमारो जयप्रदः । जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ 22 ॥ पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः । देवेशोऽमितरोमाऽथ रामभक्तविधायकः ॥ 23 ॥ ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः । ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ 24 ॥ विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः । सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः ॥ 25 ॥ लङ्केशनिधनस्थायी लङ्कादाहक ईश्वरः । चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ 26 ॥ कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः । सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ 27 ॥ लक्ष्मणप्राणदाता च सीताजीवनहेतुकः । रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली ॥ 28 ॥ देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः । नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ 29 ॥ निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः । हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ॥ 30 ॥ जानकीघनशोकोत्थतापहर्ता पराशरः । वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ 31 ॥ भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः । पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ 32 ॥ छायापहारी भूतेशो लोकेशः सद्गतिप्रदः । प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ 33 ॥ क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः । भक्तानुकम्पी विश्वेशः पुरुहूतः पुरन्दरः ॥ 34 ॥ अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च । वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः ॥ 35 ॥ रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः । राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः ॥ 36 ॥ मशकीकृतदेवारिर्दैत्यारिर्मधुसूदनः । कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ 37 ॥ भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः ॥ 38 ॥ स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ 39 ॥ जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तरः । विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ 40 ॥ खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः । क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ 41 ॥ हिरण्मयः पुराणश्च खेचरो भूचरो मनुः । हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः ॥ 42 ॥ वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः । प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ 43 ॥ नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः ॥ 44 ॥ पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः । किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः ॥ 45 ॥ ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ 46 ॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः । नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ 47 ॥ एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥ 48 ॥ तमोहर्ता निरालम्बो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥ बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥ 50 ॥ बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः । बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः ॥ 51 ॥ बृहद्भक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ 52 ॥ देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥ 53 ॥ उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणः प्राणचञ्चुरः ॥ 54 ॥ चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ 55 ॥ अपराजितो जितारातिः सदानन्दद ईशिता । गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः ॥ 56 ॥ मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥ 57 ॥ शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः । प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ 58 ॥ मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः । मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखी ॥ सुखी सुखप्रदो नागो महेशकृतसंस्तवः । महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ 60 ॥ रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः । घ्राणं गन्धः स्पर्शनं च स्पर्शो हिङ्कारमानगः ॥ 61 ॥ नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः । गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ 62 ॥ भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बुरुर्हरः । विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः ॥ 63 ॥ याजको यजमानश्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता सुरः ॥ 64 ॥ राजेन्द्रो भूपती रूढो माली संसारसारथिः । नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ 65 ॥ गणपः केशवो भ्राता पिता माताऽथ मारुतिः । सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ 66 ॥ कामजित् कामदहनः कामः काम्यफलप्रदः । मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ 67 ॥ नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः । दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ 68 ॥ महानिधिर्महाभागो महाभर्गो महर्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥ महाकर्मा महानादो महामन्त्रो महामतिः । महाशमो महोदारो महादेवात्मको विभुः ॥ 70 ॥ रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्घनः सिद्धः सत्यधर्मा प्रमोदनः ॥ 71 ॥ जितामित्रो जयः सोमो विजयो वायुवाहनः । जीवो धाता सहस्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ 72 ॥ सिद्धार्थः सिद्धिदः सिद्धः सङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ 73 ॥ सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ 74 ॥ सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः । सप्तसामोपगीतश्च सप्तपातालसंश्रयः ॥ 75 ॥ सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः । मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ 76 ॥ सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 77 ॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥ 78 ॥ नरनारायणस्तुत्यो नवनाथमहेश्वरः । मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टहन्ता नियमिता पिशाचग्रहशातनः ॥ 80 ॥ बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ 81 ॥ शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशनः ॥ 82 ॥ रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरूपो मेघवृष्टिनिवारणः ॥ 83 ॥ मेघजीवनहेतुश्च मेघश्यामः परात्मकः । समीरतनयो धाता तत्त्वविद्याविशारदः ॥ 84 ॥ अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः । अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥ 85 ॥ अर्थी धन्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ 86 ॥ अचलोद्धारको नित्यः सेतुकृद्रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शयः ॥ 87 ॥ वराहो नारसिंहश्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ 88 ॥ नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥ जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ 90 ॥ नखदारितरक्षश्च नखयुद्धविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ 91 ॥ स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः । कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ 92 ॥ क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः । वज्राङ्गो वज्रवक्त्रश्च भक्तवज्रनिवारकः ॥ 93 ॥ नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ 94 ॥ शरणं जीवनं भोक्ता नानाचेष्टोऽथ चञ्चलः । स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः ॥ 95 ॥ पवनः पावनः कान्तो भक्ताङ्गः सहनो बलः । मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ 96 ॥ क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः । श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ 97 ॥ अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः । अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः ॥ 98 ॥ अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ 99 ॥ अञ्जनाप्राणलिङ्गं च वायुवंशोद्भवः श्रुतिः । भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥ 100 ॥ मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ 101 ॥ कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः । लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ 102 ॥ विपश्चित् कविरानन्दविग्रहोऽनल्पनाशनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ 103 ॥ योगविद्योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ 104 ॥ उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः । श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ 105 ॥ सुशर्माऽमितधर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ 106 ॥ हरी रुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ 107 ॥ नागकन्याभयध्वंसी कृतपूर्णः कपालभृत् । अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः ॥ 108 ॥ अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः । अष्टाङ्गयोगफलभूः सत्यसन्धः पुरुष्टुतः ॥ 109 ॥ श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनो ध्वजः ॥ 110 ॥ योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियवपुर्धृतदण्डो दशात्मकः ॥ 111 ॥ अप्रपञ्चः सदाचारः शूरसेनो विदारकः । बुद्धः प्रमोद आनन्दः सप्तजिह्वपतिर्धरः ॥ 112 ॥ नवद्वारपुराधारः प्रत्यग्रः सामगायनः । षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः ॥ 113 ॥ सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ 114 ॥ धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दीप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥ 115 ॥ लोहिताङ्गः समिद्वह्निः षडृतुः शर्व ईश्वरः । फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ 116 ॥ धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ 117 ॥ त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः । ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः ॥ 118 ॥ रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः । वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ 119 ॥ जयोऽजेयपरीवारः सहस्रवदनः कविः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः ॥ 120 ॥ सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ 121 ॥ चतुर्णवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियवर्धनः ॥ 122 ॥ स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ॥ 123 ॥ सदागतिर्मातरिश्वा रामपादाब्जषट्पदः । नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ 124 ॥ रामदूतो लोकबन्धुरन्तरात्मा मनोरमः । श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ 125 ॥ रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः । पुण्यश्लोकः परानन्दः परेशप्रियसारथिः ॥ 126 ॥ लोकस्वामी मुक्तिदाता सर्वकारणकारणः । महाबलो महावीरः पारावारगतिर्गुरुः ॥ 127 ॥ तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः । समस्तलोकसाक्षी च समस्तसुरवन्दितः । सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ 128 ॥ इदं नामसहस्रं तु योऽधीते प्रत्यहं नरः । दुःखौघो नश्यते क्षिप्रं सम्पत्तिर्वर्धते चिरम् । वश्यं चतुर्विधं तस्य भवत्येव न संशयः ॥ 129 ॥ राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः । त्रिकालं पठनादस्य दृश्यन्ते च त्रिपक्षतः ॥ 130 ॥ अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् । त्रिकालपठनादस्य सिद्धिः स्यात् करसंस्थिता ॥ 131 ॥ ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः । ऐहिकामुष्मिकान् सोऽपि लभते नात्र संशयः ॥ 132 ॥ सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् । ज्वरापस्मारशमनं गुल्मादिव्याधिवारणम् ॥ 133 ॥ साम्राज्यसुखसम्पत्तिदायकं जपतां नृणाम् । य इदं पठते नित्यं पाठयेद्वा समाहितः । सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ 134 ॥ इति श्रीआञ्जनेय सहस्रनाम स्तोत्रम् ।