Chatushloki Stotra (चतुःश्लोकी)

चतुःश्लोकी सदा सर्वात्मभावेन भजनीयो व्रजेश्वरः । करिष्यति स एवास्मदैहिकं पारलौकिकम् ॥ १ ॥ अन्याश्रयो न कर्तव्यः सर्वथा बाधकस्तु सः । स्वकीये स्वात्मभावश्च कर्तव्यः सर्वथा सदा ॥ २ ॥ सदा सर्वात्मना कृष्णः सेव्यः कालादिदोषनुत् । तद्भक्तेषु च निर्दोषभावेन स्थेयमादरात् ॥ ३ ॥ भगवत्येव सततं स्थापनीयं मनः स्वयम् । कालोऽयं कठिनोऽपि श्रीकृष्णभक्तान्न बाधते ॥ ४ ॥ इति श्रीविट्ठलेश्वरोक्ता (द्वितीया) चतुःश्लोकी समाप्ता ।