No festivals today or in the next 14 days. 🎉
Shri Narayan Kavach || श्री नारायण कवच : Full Lyrics; श्री हरि विष्णु की पूजा के बाद जरूर करें इस कवच का पाठ
Shri Narayan Kavach (श्री नारायण कवच)
श्री Narayan Kavach एक अत्यंत शक्तिशाली divine armor है, जिसे भगवान श्री Narayana ने अपने भक्तों की रक्षा के लिए प्रदान किया है। यह Kavach सभी प्रकार के शारीरिक और मानसिक संकटों से सुरक्षा प्रदान करता है। इस कवच का पाठ करने से व्यक्ति को protection, शक्ति, और divine blessings मिलती हैं। भगवान Shri Narayana के इस sacred armor को धारण करने से life-threatening obstacles और negative energies दूर होती हैं। इसे नियमित रूप से पढ़ने से spiritual growth और self-realization में मदद मिलती है। Shri Narayana Kavach भक्तों को समृद्धि, सुख-शांति, और Moksha की प्राप्ति भी कराता है।श्री नारायण कवच (Shri Narayan Kavach)
विश्वरूप उवाचः
धौताडः प्रिपाणिराचम्य सपवित्र उदङ्मुखः।
कृतस्वांगकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म संनहोद भय आगते।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि॥५॥
मुखे शिरस्यानुपूर्व्यादोकारादीनि विन्यसेत्
ॐ नमो नारायणायेति विपर्ययमथापि बा॥६॥
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।
प्रणवादियकारान्तमंगुल्यंगुष्ठपर्वसु ॥७॥
न्यसेद्धृदय ओंकारं विकारमनु मूर्थनि।
षकारं तु भ्रुवोर्मध्येणकारं शिखया दिशेत्॥८॥
वेकारं नेत्रयोर्युज्जयान्नकारं सर्वसंधिषु।
मकारमस्त्रमुदिश्य मन्त्रमूर्तिर्भयेद् बुध:॥९॥
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्।
ॐ विष्णवे नमः इति॥।१०॥
आत्मानं परमं ध्यायेद् ध्येंयं घट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मन्रमुदाहरेत्॥९९॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपदाः पतगेन्द्रपृष्ठे
दरारिचर्मासिगदेषुचापपाशान्
दधानोऽष्टगुणोऽष्टबाहः॥१२॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्या-
दोर्गणेभ्यो वरुणस्य पाशात्।
स्थलेषु मायावदटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूप:॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायात्रृसिंहोऽसुरयुथपारिः।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भा:॥१४॥
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वद्रंष्टयोन्नीतधरो वराहः।
रामोऽद्विकूटेषवथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान्॥९||
मामुग्रधर्पादखिलात् प्रमादा-
ज्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः
पायाद् गुणेशः कपिलः कर्मबन्धनात्॥१६॥
सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात्।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥९७॥
धन्वन्तरिभभंगवान् पात्वपथ्याद्
दन्द्दाद् भयादूषभो निर्जितात्मा।
यज्ञश्च लोकादेवताज्जानान्ताद्
बलो गणात् क्रोधवशादहीन्द्रः॥९८॥
ट्वैपायनों भगवानप्रबोधाद् बुद्धस्तु
पाखण्डगणात् प्रमादात्।
कल्किः कलेः कालमलात्
प्रपातु धर्मावनायोरुकृतावतारः॥९९॥
मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणुः
नारायणः प्राह्न उदात्तशक्ति-
मध्यंदिने विष्णुररीन्द्रपाणिः॥२०॥
देवोऽपराहे मधुहोग्रधन्वा सायं
त्रिधामावतु माधवो माम्।
दोषी हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभ:॥२१॥
श्रीवत्सधामापररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसंध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः॥२२॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।
दंदग्धि दंदग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताश:॥२३॥
गदेऽशनिस्पर्शनविस्फुलिंगे
निष्पिण्डि निष्यिण्डय्यजितप्रियासि।
कृष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन्॥२४॥
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहवोरदृष्टीन्।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनो ररेर्हदयानि कप्पयन्।।२५॥
त्वं तिग्मधारासिवरारिसैन्य -
मीशप्रयुक्तो मम छिन्धि छिन्धि |
चक्षुषि चर्मजछतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम्॥२६॥
यत्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दष्टभ्यो भूतेभ्योऽहोभ्य एव वा॥२७॥
सर्वाण्येतानि भगवान्नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः॥२८॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छेभ्यो विषवक्सेनः स्वनामभिः॥२९॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छेभ्यो विषवक्सेनः स्वनामभिः॥२९॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धीन्द्रियमनः प्राणान् पान्तु पार्षदभूषणा:॥३०॥
यथा हि भगवानेव वस्तुतः सदसच्च यत्।
सत्येनानेन नः सर्वे यान्तु राशमुपद्रवाः॥३१॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।
भूषणायुधलिंगाख्या धत्ते शक्ति: स्वमायमा॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वग:॥३३॥
विदिक्षु दिकरध्वमधः समन्तादन्तबहिर्भगवान् नारसिंहः।
प्रहापयंल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः॥३४॥
मघवन्निदमाख्यातं वर्म॑ नारायणात्मकम्।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान्॥३५॥
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते॥३६॥
न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रा दिभ्यश्च कहिंचित्॥३७॥
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।
योगधारणया स्वांग जहौ स मरुधन्वनि।।३८॥
तस्योपरि विमानेन गन्थर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षय:॥३९॥
गगनान्यपतत् सद्यः सविमानो ह्यवाक्शिराः।
स बालखिल्यवचनादस्थीन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥४०॥