Shri Bhagavad Gita Stotra (श्रीभगवद्भक्तानाम्)

श्रीभगवद्भक्तानाम् प्रह्लादनारदपराशरपुण्डरीक- व्यासाम्बरीषशुकशौनक भीष्मदाल्भ्यान् । रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ॥ १ ॥ (पाण्डवगीतायाः) वाल्मीकिः सनकः सनन्दनतरुर्व्यासो वसिष्ठो भृगु- र्जाबालिर्जमदग्निकच्छजनको गर्गोऽङ्गिरा गौतमः । मान्धाता ऋतुपर्णवैन्यसगरा धन्यो दिलीपो नलः पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मङ्गलम् ॥ २ ॥ (मङ्गलाष्टकात्) ॥ इति प्रातः स्मरणम् ॥