Sharda Stuti (शारदा स्तुति)

|| शारदा स्तुति || (Sharda Stuti) अचलां सुरवरदा चिरसुखदां जनजयदाम् । विमलां पदनिपुणां परगुणदां प्रियदिविजाम् । शारदां सर्वदा भजे शारदाम् । सुजपासुमसदृशां तनुमृदुलां नरमतिदाम् । महतीप्रियधवलां नृपवरदां प्रियधनदाम् । शारदां सर्वदा भजे शारदाम् । सरसीरुहनिलयां मणिवलयां रसविलयाम् । शरणागतवरणां समतपनां वरधिषणाम् । शारदां सर्वदा भजे शारदाम् । सुरचर्चितसगुणां वरसुगुणां श्रुतिगहनाम् । बुधमोदितहृदयां श्रितसदयां तिमिरहराम् । शारदां सर्वदा भजे शारदाम् । कमलोद्भववरणां रसरसिकां कविरसदाम् । मुनिदैवतवचा स्मृतिविनुतां वसुविसृताम् । शारदां सर्वदा भजे शारदाम् । य इमं स्तवमनिशं भुवि कथयेदथ मतिमान् । लभते स तु सततं मतिमपरां श्रुतिजनिताम् । शारदां सर्वदा भजे शारदाम् ।