Stuti Collection

    Shri Ramachandrastuti (श्रीरामचन्द्रस्तुतिः)

    श्रीरामचन्द्रस्तुतिः नमामि भक्तवत्सलं कृपालु शील कोमलं भजामि ते पदांबुजं अकामिनां स्वधामदं । निकाम श्याम सुंदरं भवांबुनाथ मन्दरं प्रफुल्ल कंज लोचनं मदादि दोष मोचनं ॥ १ ॥ प्रलंब बाहु विक्रमं प्रभोऽप्रमेय वैभवं निषंग चाप सायकं धरं त्रिलोक नायकं । दिनेश वंश मंडनं महेश चाप खंडनं मुनींद्र संत रंजनं सुरारि वृंद भंजनं ॥ २ ॥ मनोज वैरि वंदितं अजादि देव सेवितं विशुद्ध बोध विग्रहं समस्त दूषणापहं । नमामि इंदिरा पतिं सुखाकरं सतां गतिं भजे सशक्ति सानुजं शची पति प्रियानुजं ॥ ३ ॥ त्वदंघ्रि मूल ये नराः भजन्ति हीन मत्सराः पतंति नो भवार्णवे वितर्क वीचि संकुले । विविक्त वासिनः सदा भजंति मुक्तये मुदा निरस्य इंद्रियादिकं प्रयांति ते गतिं स्वकं ॥ ४ ॥ तमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगद्गुरुं च शाश्वतं तुरीयमेव केवलं । भजामि भाव वल्लभं कुयोगिनां सुदुर्लभं स्वभक्त कल्प पादपं समं सुसेव्यमन्वहं ॥ ५ ॥ अनूप रूप भूपतिं नतोऽहमुर्विजा पतिं प्रसीद मे नमामि ते पदाब्ज भक्ति देहि मे । पठंति ये स्तवं इदं नरादरेण ते पदं व्रजंति नात्र संशयं त्वदीय भक्ति संयुताः ॥ ६ ॥ इति श्रीमद्गोस्वामितुलसीदासकृता श्रीरामचन्द्रस्तुतिः सम्पूर्णा ।

    Krishnan Stuti (कृष्ण स्तुति)

    कृष्ण स्तुति(Krishnan Stuti) कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥

    Ram Stuti (राम स्तुति)

    राम स्तुति (Ram Stuti) माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सरा रामचन्द्रः। सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने ॥

    Hanuman Stuti (हनुमान स्तुति)

    हनुमान स्तुति (Hanuman Stuti) मनोजवं मारुत्‌ तुल्य वेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये, उलंघ्य सिंधोसलिलं, सलीलं, यः शोकवहिन्‌ जनकात्पजायाः आदाय तेनैव ददाह लंकां, नमामि तं प्रांजलि आंजनेयम्‌।

    Laxmi Stuti (लक्ष्मी स्तुति)

    लक्ष्मी स्तुति(Laxmi Stuti) पद्मासने स्थिते देवि, परब्रह्मस्वरूपिणी। सर्वदुःख हरे देवि, महालक्ष्मी नमोऽस्तुते ॥

    Parvati Stuti (पार्वती स्तुति)

    पार्वती स्तुति(Parvati Stuti) ॐ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ॥

    Annapurna Stuti (अन्नपूर्णा स्तुति)

    अन्नपूर्णा स्तुति(Annapurna Stuti) अन्नपूर्णे सदापूर्णे शंकर प्राण वल्लभे, ज्ञान वैराग्य सिद्धयर्थं भिक्षां देहि मे पार्वती।

    Kali Stuti (काली स्तुति)

    काली स्तुति(Kali Stuti) काली काली महाकाली कालिके परमेश्वरी, सर्वानन्द करे देवि नारायणी नमोऽस्तुते ।

    Bhadrakali Stuti (भद्रकालीस्तुतिः)

    भद्रकालीस्तुतिः (Bhadrakali Stuti) ब्रह्मविष्णू ऊचतुः नमामि त्वां विश्वकर्जी परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् । वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥ पूर्णां शुद्धां विश्वरूपां सुरूपां देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् । सर्वान्तःस्थामुत्तमस्थानसंस्थामीडे कालीं विश्वसम्पालयित्रीम् ॥ २ ॥ मायातीतां मायिनीं वापि मायां भीमां श्यामां भीमनेत्रां सुरेशीम् । विद्यां सिद्धां सर्वभूताशयस्था- मीडे कालीं विश्वसंहारकर्त्रम् ॥ ३ ॥ नो ते रूपं वेत्ति शीलं न धाम नो वा ध्यानं नापि मन्त्रं महेशि। सत्तारूपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४ ॥ द्यौस्ते शीर्ष नाभिदेशो नभश्च चक्षूषि ते चन्द्रसूर्यानलास्ते । उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५ ॥ वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते । प्रीतिर्धर्मोऽधर्मकार्य हि कोपः सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६ ॥ अग्निजिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः । श्वासो वायुर्बाहवो लोकपालाः क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७ ॥ एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरूपाम् । मातः पूर्णे दुर्गेऽपारे ब्रह्मविज्ञानगम्ये साररूपे प्रसीद ॥ ८ ॥ ॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुतिः सम्पूर्णा ॥

    Shri Janaki Ji Stuti (श्रीजानकीस्तुतिः )

    श्रीजानकीस्तुतिः (Shri Janaki Ji Stuti) जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥ दारिद्र्यरणसंहीं भक्तानामिष्टदायिनीम् । विदेहराजतनयां राघवानन्दकारिणीम् ॥ भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् । पौलस्त्यैश्वर्यसंहर्जी भक्ताभीष्टां सरस्वतीम् ॥ पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् । अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ॥ आत्मविद्यां त्रयीरूपामुमारूपां नमाम्यहम् । प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ॥ नमामि चन्द्रभगिनीं सीतां सर्वाङ्गसुन्दरीम् । नमामि धर्मनिलयां करुणां वेदमातरम् ॥ पद्मालयां पद्महस्तां विष्णुवक्षःस्थलालयाम् । नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ॥ आह्लादरूपिणीं सिद्धि शिवां शिवकरीं सतीम्। नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम्। सीतां सर्वानवद्याङ्गीं भजामि सततं हृदा ॥ ॥ इति श्रीस्कन्दमहापुराणे सेतुमाहात्म्ये श्रीजानकीस्तुतिः सम्पूर्णा ॥

    Gayatri Stuti (गायत्रीस्तुतिः)

    गायत्रीस्तुतिः (Gayatri Stuti) महेश्वर उवाच जयस्व देवि गायत्रि महामाये महाप्रभे । महादेवि महाभागे महासत्त्वे महोत्सवे ॥ १॥ दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते । वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ॥ २ ॥ त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि। त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ॥ ३॥ कमलासनजे देवि सरस्वति नमोऽस्तु ते। नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे ॥ ४॥ सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके । सम्पूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ॥५॥ महाविद्ये महावेद्ये महादैत्यविनाशिनि । महाबुद्धयुद्धवे देवि वीतशोके किरातिनि ॥ ६ ॥ त्वं नीतिस्त्वं महाभागे त्वं गीस्त्वं गौस्त्वमक्षरम् । त्वं धीस्त्वं श्रीस्त्वमोङ्कारस्तत्त्वे चापि परिस्थिता । सर्वसत्त्वहिते देवि नमस्ते परमेश्वरि ॥ ७ ॥ इत्येवं संस्तुता देवी भवेन परमेष्ठिना। देवैरपि जयेत्युच्चैरित्युक्ता परमेश्वरी ॥ ८ ॥ ॥ इति श्रीवराहमहापुराणे महेश्वरकृता गायत्रीस्तुतिः सम्पूर्णा ॥

    Narmada Stuti (नर्मदास्तुतिः )

    नर्मदास्तुतिः (Narmada Stuti) व्यास उवाच जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे। जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरात्र्त्तिहरे ॥ १ ॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ २ ॥ जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे। जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ ३ ॥ जय षण्मुखसायुधईशनुते जय सागरगामिनि शम्भुनुते। जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ ४॥ जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे। जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धिवरे ॥ ५ ॥ एतद् व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ ६ ॥ तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः । प्रीता स्यान्नर्मदा देवी सर्वपापक्षयङ्करी ॥ ७ ॥ न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ॥ ८॥ ॥ इति श्रीस्कन्दमहापुराणे रेवाखण्डे व्यासकृता नर्मदास्तुतिः सम्पूर्णा ॥

    Raghav Stuti (राघव स्तुति)

    || राघव स्तुति || (Raghav Stuti) आञ्जनेयार्चितं जानकीरञ्जनं भञ्जनारातिवृन्दारकञ्जाखिलम्। कञ्जनानन्तखद्योतकञ्जारकं गञ्जनाखण्डलं खञ्जनाक्षं भज कुञ्जरास्यार्चितं कञ्जजेन स्तुतं पिञ्जरध्वंसकञ्जारजाराधितम्। कुञ्जगञ्जातकञ्जाङ्गजाङ्गप्रदं मञ्जुलस्मेरसम्पन्नवक्त्रं भजे। बालदूर्वादलश्यामलश्रीतनुं विक्रमेणावभग्नत्रिशूलीधनुम्। तारकब्रह्मनामद्विवर्णीमनुं चिन्तयाम्येकतारिन्तनूभूदनुम्। कोशलेशात्मजानन्दनं चन्दना- नन्ददिक्स्यन्दनं वन्दनानन्दितम्। क्रन्दनान्दोलितामर्त्यसानन्ददं मारुतिस्यन्दनं रामचन्द्रं भजे। भीदरन्ताकरं हन्तृदूषिन्खरं चिन्तिताङ्घ्र्याशनीकालकूटीगरम्। यक्षरूपे हरामर्त्यदम्भज्वरं हत्रियामाचरं नौमि सीतावरम्। शत्रुहृत्सोदरं लग्नसीताधरं पाणवैरिन् सुपर्वाणभेदिन् शरम्। रावणत्रस्तसंसारशङ्काहरं वन्दितेन्द्रामरं नौमि स्वामिन्नरम्।

    Murari Stuti (मुरारि स्तुति)

    || मुरारि स्तुति || (Murari Stuti) इन्दीवराखिल- समानविशालनेत्रो हेमाद्रिशीर्षमुकुटः कलितैकदेवः। आलेपितामल- मनोभवचन्दनाङ्गो भूतिं करोतु मम भूमिभवो मुरारिः। सत्यप्रियः सुरवरः कविताप्रवीणः शक्रादिवन्दितसुरः कमनीयकान्तिः। पुण्याकृतिः सुवसुदेवसुतः कलिघ्नो भूतिं करोतु मम भूमिभवो मुरारिः। नानाप्रकारकृत- भूषणकण्ठदेशो लक्ष्मीपतिर्जन- मनोहरदानशीलः। यज्ञस्वरूपपरमाक्षर- विग्रहाख्यो भूतिं करोतु मम भूमिभवो मुरारिः। भीष्मस्तुतो भवभयापहकार्यकर्ता प्रह्लादभक्तवरदः सुलभोऽप्रमेयः। सद्विप्रभूमनुज- वन्द्यरमाकलत्रो भूतिं करोतु मम भूमिभवो मुरारिः। नारायणो मधुरिपुर्जनचित्तसंस्थः सर्वात्मगोचरबुधो जगदेकनाथः। तृप्तिप्रदस्तरुण- मूर्तिरुदारचित्तो भूतिं करोतु मम भूमिभवो मुरारिः।

    Govinda Stuti (गोविंदास्तुति)

    || गोविंदा स्तुति || (Govinda Stuti) चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम्। रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे। महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम्। मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा तं गोविन्दं परमसुखकन्दं भजत रे। धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरै- र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम्। मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे। महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम्। कलातीतं कालं गतिहतमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे। नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौघै: सम्प्रीतं दितिजविपरीतं पुरिशयम्। गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे। परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम्। खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे। रमाकान्तं कान्तं भवभयभयान्तं भवसुखं दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम्। विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे। जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम्। स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गोविन्दं परमसुखकन्दं भजत रे। गदापाणेरेतद्दुरितदलनं दु:खशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम्। स भुक्त्वा भोगौघं चिरमिह ततोSपास्तवृजिन: परं विष्णो: स्थानं व्रजति खलु वैकुण्ठभुवनम्।

    Ashtalakshmi Stuti (अष्टलक्ष्मी स्तुति)

    || अष्टलक्ष्मी स्तुति || (Ashtalakshmi Stuti) विष्णोः पत्नीं कोमलां कां मनोज्ञां पद्माक्षीं तां मुक्तिदानप्रधानाम्। शान्त्याभूषां पङ्कजस्थां सुरम्यां सृष्ट्याद्यन्तामादिलक्ष्मीं नमामि। शान्त्या युक्तां पद्मसंस्थां सुरेज्यां दिव्यां तारां भुक्तिमुक्तिप्रदात्रीम्। देवैरर्च्यां क्षीरसिन्ध्वात्मजां तां धान्याधानां धान्यलक्ष्मीं नमामि। मन्त्रावासां मन्त्रसाध्यामनन्तां स्थानीयांशां साधुचित्तारविन्दे। पद्मासीनां नित्यमाङ्गल्यरूपां धीरैर्वन्द्यां धैर्यलक्ष्मीं नमामि। नानाभूषारत्नयुक्तप्रमाल्यां नेदिष्ठां तामायुरानन्ददानाम्। श्रद्धादृश्यां सर्वकाव्यादिपूज्यां मैत्रेयीं मातङ्गलक्ष्मीं नमामि। मायायुक्तां माधवीं मोहमुक्तां भूमेर्मूलां क्षीरसामुद्रकन्याम्। सत्सन्तानप्राप्तिकर्त्रीं सदा मां सत्त्वां तां सन्तानलक्ष्मीं नमामि। निस्त्रैगुण्यां श्वेतपद्मावसीनां विश्वादीशां व्योम्नि राराज्यमानाम्। युद्धे वन्द्यव्यूहजित्यप्रदात्रीं शत्रूद्वेगां जित्यलक्ष्मीं नमामि। विष्णोर्हृत्स्थां सर्वभाग्यप्रदात्रीं सौन्दर्याणां सुन्दरीं साधुरक्षाम्। सङ्गीतज्ञां काव्यमालाभरण्यां विद्यालक्ष्मीं वेदगीतां नमामि। सम्पद्दात्रीं भार्गवीं सत्सरोजां शान्तां शीतां श्रीजगन्मातरं ताम्। कर्मेशानीं कीर्तिदां तां सुसाध्यां देवैर्गीतां वित्तलक्ष्मीं नमामि। स्तोत्रं लोको यः पठेद् भक्तिपूर्णं सम्यङ्नित्यं चाष्ष्टलक्ष्मीः प्रणम्य। पुण्यं सर्वं देहजं सर्वसौख्यं भक्त्या युक्तो मोक्षमेत्यन्तकाले।

    Mahalakshmi Stuti (महालक्ष्मी स्तुति)

    || महालक्ष्मी स्तुति || (Mahalakshmi Stuti) महालक्ष्मीमहं भजे । देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे । सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे । सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे । सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे । सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे । आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे । काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे । दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे । सौम्यलोकमतिसुचरां सरलां महालक्ष्मीमहं भजे । सिद्धिबुद्धिसमफलदां सकलां महालक्ष्मीमहं भजे । सूर्यदीप्तिसमसुषमां सुरमां महालक्ष्मीमहं भजे । सर्वदेशगतशरणां शिवदां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे ।

    Sharda Stuti (शारदा स्तुति)

    || शारदा स्तुति || (Sharda Stuti) अचलां सुरवरदा चिरसुखदां जनजयदाम् । विमलां पदनिपुणां परगुणदां प्रियदिविजाम् । शारदां सर्वदा भजे शारदाम् । सुजपासुमसदृशां तनुमृदुलां नरमतिदाम् । महतीप्रियधवलां नृपवरदां प्रियधनदाम् । शारदां सर्वदा भजे शारदाम् । सरसीरुहनिलयां मणिवलयां रसविलयाम् । शरणागतवरणां समतपनां वरधिषणाम् । शारदां सर्वदा भजे शारदाम् । सुरचर्चितसगुणां वरसुगुणां श्रुतिगहनाम् । बुधमोदितहृदयां श्रितसदयां तिमिरहराम् । शारदां सर्वदा भजे शारदाम् । कमलोद्भववरणां रसरसिकां कविरसदाम् । मुनिदैवतवचा स्मृतिविनुतां वसुविसृताम् । शारदां सर्वदा भजे शारदाम् । य इमं स्तवमनिशं भुवि कथयेदथ मतिमान् । लभते स तु सततं मतिमपरां श्रुतिजनिताम् । शारदां सर्वदा भजे शारदाम् ।

    Shri Durga Nakshatra Malika Stuti (श्री दुर्गा नक्षत्र मालिका स्तुति)

    || श्री दुर्गा नक्षत्र मालिका स्तुति || (Shri Durga Nakshatra Malika Stuti) विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ कंसविद्रावणकरीं असुराणां क्षयङ्करीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥ भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् । तान्वै तारयते पापात् पङ्केगामिव दुर्बलाम् ॥ 5 ॥ स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ 6 ॥ नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ॥ 7 ॥ चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिञ्छवलये केयूराङ्गदधारिणि ॥ 8 ॥ भासि देवि यदा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रविस्पार्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ भ्राजसे चावबद्धेन भोगेनेवेह मन्दरः । ध्वजेन शिखिपिञ्छानां उच्छ्रितेन विराजसे ॥ 14 ॥ कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । ममाऽपि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ 17 ॥ विन्ध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् । कालि कालि महाकालि सीधुमांस पशुप्रिये ॥ 18 ॥ कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ 19 ॥ प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ 20 ॥ दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः । कान्तारेष्ववपन्नानां मग्नानां च महार्णवे ॥ 21 ॥ (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) जलप्रतरणे चैव कान्तारेष्वटवीषु च । ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ॥ 22 ॥ त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः । सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ 23 ॥ नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ शृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ 28 ॥ मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ 30 ॥ ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥ 31 ॥ प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ 32 ॥ ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ॥ 33 ॥ य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः ॥ 34 ॥ मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ॥ 35 ॥ इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ 38 ॥

    Ardhanarishwar Stuti (अर्धनारीश्वर स्तुति)

    || अर्धनारीश्वर स्तुति || (Ardhanarishwar Stuti) ॥ श्रीः ॥ वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च ऋशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ स्राभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा- दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गरागं पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । बिभ्राणं मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्र- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीत- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ एकत्र स्फुरति भुजङ्गभोगभङ्गि- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भास्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ एकत्रार्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलास्थिमालिकाना- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा- न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ दन्तानां सितिमनि कज्जलप्रयुक्ते मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नान्योन्यं समजनि नूतनो विशेषः ॥ कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ इत्यादीन्प्रविदधुरेव यत्र ताव- त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाम्बिकायाः ॥ किमयं शिवः किमु शिवाथ शिवा- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा- मविभाव्यमेव वचनं विदुषाम् ॥ एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राव्ययत्वमविखण्डितमेव भाति ॥ यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसम्मददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ उद्यन्निरुत्तरपरस्परसामरस्य- सम्भावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त- द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि साहित्यमत्यद्भुतमीशयोस्त- न्न कस्य रोमाञ्चमुदञ्चयेत ॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥ इत्यर्धनारीश्वरस्तुतिः सम्पूर्णा ॥

    Shri Kamakshi Stuti (श्री कामाक्षी स्तुति)

    || श्री कामाक्षी स्तुति || (Shri Kamakshi Stuti) वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् । वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां वन्दारुस्वस्वर्द्रुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगा- ह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता । सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं सन्ततं दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता । ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिरा कामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलं वृत्तिं तत्स्वयमादधच्च विमुखं दोषाकराडम्बरे । सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितं नेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सद्धृतम् ॥ कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः- कासारे वसतिं सदापि सुमनस्सन्दोहसंराजिते । सुज्ञानामृतपूरिते कलुषताहीने च पद्मालये नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ कामक्षीपदपद्मयुग्मनखराः सम्यक्कलासंयुताः नित्यं सद्गुणसंश्रिताः कुवलयामोदोद्भवाधायकाः । उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः श्रेष्ठादिन्दुनिरासकारिविभवा रक्षन्तु नः सर्वदा ॥ कामाक्षीचरणारविन्दयुगलीगुल्फद्वयं रक्षता- दस्मान् सन्ततमाश्रितार्तिशमनं दोषौघविध्वंसनम् । तेजःपूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन- प्रोद्यद्ध्वानमिषेण च प्रतिश‍ृणन्नम्रालिरक्षामिव ॥ जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन- स्सन्तोषाय ममामितोर्जितयशःसम्पत्तये च स्वयम् । साम्योलङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः । सम्यग्वृत्तमतीव सुन्दरमिदं सम्पन्निदानं सतां लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ऊरू ते भवतां मुदे मम सदा कामाक्षि भो देवते रम्भाटोपविमर्दनैकनिपुणे नीलोत्पलाभे शुभे । शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव- श्रीयुक्ते च नितम्बभारभरणैकाग्रप्रयत्ने सदा ॥ कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं श्रीमद्दर्पणदर्पहारि जघनद्वन्द्रं महत्तावकम । यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया लीलार्थं प्रतिभाति सागरवनग्रावादिकार्धावृता ॥ बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ । गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण- श्लाघ्यौ गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल- द्रत्नालङ्कृतहाटकाढ्यरशनासम्बद्धघण्टारवा । तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते सन्तोषं विदधातु सन्ततमसौ पीताम्बराष्टिता । तत्रापि स्वकया श्रिया तत इतः प्रद्योतयन्ती दिशः कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव- त्तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् । दत्वा देवि सुगन्धि सद्गणसदासेव्यं प्रणुद्य श्रमं सन्तोषाय च बोभवीतु महिते कामाक्षि भो देवते ॥ यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः- प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव । जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर- स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी- बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वोर्ययोर्दैवते । सौवर्णौ कलशाविवाद्य च पयःपूरीकृतौ सत्कृतौ तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ सौभाग्याधिकशंसिशास्त्रविहरद्रेखाङ्कितौ शौभनौ । स्वर्लोकद्रुमपञ्चकं वितरणे तत्ततृषां तस्य त- त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ दत्तां देवि करौ तवातिमृदुलौ कामाक्षि सम्पत्करौ सद्रत्नाञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ । नित्यं सम्पदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ कामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ । भावत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण- प्रोद्यद्बाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता- वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् । कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ लोकाघौघसमस्तनाशनचणावुत्तम्भितावुद्द्युती ॥ ग्रीवा कम्बुसमानसंस्थितिरसौ कान्त्येन्द्रनीलोपमा पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी । नानारत्नविभूषणैः सुरुचिरा सौवर्णकैर्मौत्तिक- श्रेष्टोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतम् । कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे । तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं तत्सौन्दर्यनिधानमग्र्यसुषमं कान्तालकालङ्कृतम् ॥ नेत्रे ते करुणाकटाक्षविशिखैः कामादिनित्यद्विषो बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः । हे कामाक्षि विशालतामुपगते ह्याकर्ण मिष्टावहे सातत्येन फलार्थिनां निजगतेः सम्फुलकं जायते ॥ भ्रूयुग्मं तव देवि चापलतिकाहङ्कारनिर्वापणं कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् । कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने दीनानिङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ नानासूनवितानसौरभपरिग्राहैकलोलालयः किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् । नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण- व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा श्रीमत्कुन्दसुकुड्मलाग्रदशनश्रेणीप्रभाशोभितम् । पुष्यद्बिम्बफलारुणाधरपुटं सद्वीटिकारञ्जितं सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर- त्ताटङ्काढ्ययुगेन भास्वररुचा सम्भूषितं तावकम् । कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं स्वाभ्याशस्थितगण्डभागफलकं सराजयज्ज्योतिषा ॥ शीर्षं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं सूक्ष्मं तन्मधुपालिनीलकुटिलश्रीकुन्तलालङ्कृतम् । सीमन्तं सुविभज्य तत्र विपुलश्रीमन्मणीन्द्रानित स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ कामाक्षीश्वरि कोटिसूर्यनिनसद्वज्रादिरत्नाञ्चित- श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् । सम्पत्तिं नितरां ममाम्ब मनुजाप्राप्यामिहानारतं लोकेऽमुत्र भवाभिधं व तिमिरं लूत्वा सदालिश्रितम् ॥ कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः श‍ृण्वन्त्यत्र पठन्ति वा स्थिरधियः पण्यामिमामर्थिनः । दीर्घायुर्धनधान्यसम्पदममी विन्दन्ति वाणीं यशः सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ कौण्डिन्यान्वयसम्भूतरामचन्द्रार्यसूरिणा । निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ।

    Shri Meenakshi Stuti (श्री मीनाक्षी स्तुति)

    || श्री मीनाक्षी स्तुति || (Shri Meenakshi Stuti) अद्राक्षं बहुभाग्यतो गुरुवरैः सम्पूज्यमानां मुदा पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् । वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामलाम् ॥ मातङ्गकुम्भविजयीस्तनभारभुग्न मध्यां मदारुणविलोचनवश्यकान्ताम् । ताम्राधरस्फुरितहासविधूततार राजप्रवालसुषुमां भज मीननेत्राम् ॥ आपादमस्तकदयारसपूरपूर्णां शापायुधोत्तमसमर्चितपादपद्माम् । चापयितेक्षुममलीमसचित्ततायै नीपाटविविहर्णां भज मीननेत्रम् ॥ कन्दर्प वैर्यपि यया सविलास हास नेत्रावलोकन वशीकृत मानसोऽभूत् । तां सर्वदा सकल मोहन रूप वेषां मोहान्धकार हरणां भज मीननेत्राम् ॥ अद्यापि यत्पुरगतः सकलोऽपि जन्तुः क्षुत्तृड् व्यथा विरहितः प्रसुवेव बालः । सम्पोश्यते करुणया भजकार्ति हन्त्रीं भक्त्याऽन्वहं तां हृदय भज मीननेत्राम् ॥ हालास्यनाथ दयिते करुणा पयोधे बालं विलोल मनसं करुणैक पात्रम् । वीक्षस्व मां लघु दयार्मिल दृष्टपादैर्- मातर्न मेऽस्ति भुवने गतिरन्द्रा त्वम् ॥ श्रुत्युक्त कर्म निवहाकरणाद्विशुद्धिः चित्तस्य नास्ति मम चञ्चलता निवृत्तैः । कुर्यां किमम्ब मनसा सकलाघ शान्त्यैः मातस्तवदङ्घ्रि भजनं सततं दयस्व ॥ त्वद्रूपदेशिकवरैः सततं विभाव्यं चिद्रूपमादि निधनन्तर हीनमम्ब । भद्रावहं प्रणमतां सकलाघ हन्तृ त्वद्रूपमेव मम हृत्कमले विभातु ॥ ॥ इति श्री जगद्गुरु श‍ृङ्गगिरि चन्द्रशेखरभारतिस्वामिगळ् विरचितं मीनाक्षीस्तुतिः सम्पूर्णम् ॥

    Shri Radha Krishna Stuti (श्रीराधाकृष्ण स्तुति)

    || श्रीराधाकृष्ण स्तुति || (Shri Radha Krishna Stuti) नवललितवयस्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधुवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ द्रुतसुकनकसुगौरस्निग्धमेघौघनील- च्छविभिरखिलवृन्दारण्यमुद्भासयन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मर निभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ इति श्रीराधाकृष्णस्तुतिः समाप्ता ।

    Shiv Stuti (शिव स्तुति)

    ॥ शिव स्तुति ॥ (Shiv Stuti) आशुतोष शशाँक शेखर, चन्द्र मौली चिदंबरा, कोटि कोटि प्रणाम शम्भू, कोटि नमन दिगम्बरा ॥ निर्विकार ओमकार अविनाशी, तुम्ही देवाधि देव, जगत सर्जक प्रलय करता, शिवम सत्यम सुंदरा ॥ आशुतोष शशाँक शेखर… निरंकार स्वरूप कालेश्वर, महा योगीश्वरा, दयानिधि दानिश्वर जय, जटाधार अभयंकरा ॥ आशुतोष शशाँक शेखर… शूल पानी त्रिशूल धारी, औगड़ी बाघम्बरी, जय महेश त्रिलोचनाय, विश्वनाथ विशम्भरा ॥ आशुतोष शशाँक शेखर… नाथ नागेश्वर हरो हर, पाप साप अभिशाप तम, महादेव महान भोले, सदा शिव शिव संकरा ॥ आशुतोष शशाँक शेखर… जगत पति अनुरकती भक्ति, सदैव तेरे चरण हो, क्षमा हो अपराध सब, जय जयति जगदीश्वरा ॥ आशुतोष शशाँक शेखर… जनम जीवन जगत का, संताप ताप मिटे सभी, ओम नमः शिवाय मन, जपता रहे पञ्चाक्षरा ॥ आशुतोष शशाँक शेखर, चन्द्र मौली चिदंबरा, कोटि कोटि प्रणाम शम्भू, कोटि नमन दिगम्बरा ॥

    Shivkrita Ganesh Stuti (शिवकृता गणेश स्तुति)

    ॥ शिवकृता गणेश स्तुति ॥ (Shivkrita Ganesh Stuti) शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव । सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ अन्ते तमोरूपिणमेव सृष्ट्वा शम्भुं स्वशक्त्या हरसि त्वमाद्य । एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ । स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च वुद्ध्या सहितः परेश ॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै । वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो । शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो । अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् । शत्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर । अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः । उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ अहो पश्य च मां शम्भो किं शोचसि महेश्वर । भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले । तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ अधुना ते गतो मोहो मदीया स्मृतिरागता । ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनःशिव ॥ रमसे च तया सार्धं मत्तया भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्त्रतुण्डचरिते चतुर्थाध्यायान्तर्गता शिवकृता गणेशस्तुतिः समाप्ता ॥

    Shiva Swarnmala Stuti (शिव स्वर्णमाला स्तुति)

    ॥शिव स्वर्णमाला स्तुति॥ (Shiva Swarnmala Stuti) साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ईशगिरीश नरेश परेश महेश बिलेशय भूषण भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ॠषिवर मानस हंस चराचर जनन स्थिति लय कारण भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ अन्तः करण विशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ करुणा वरुणा लय मयिदास उदासस्तवोचितो न हि भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ जय कैलास निवास प्रमाथ गणाधीश भू सुरार्चित भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ झनुतक झङ्किणु झनुतत्किट तक शब्दैर्नटसि महानट भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ धर्मस्थापन दक्ष त्र्यक्ष गुरो दक्ष यज्ञशिक्षक भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ बलमारोग्यं चायुस्त्वद्गुण रुचितं चिरं प्रदेहि विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ शर्व देव सर्वोत्तम सर्वद दुर्वृत्त गर्वहरण विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ भगवन् भर्ग भयापह भूत पते भूतिभूषिताङ्ग विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ षड्रिपु षडूर्मि षड्विकार हर सन्मुख षण्मुख जनक विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ सत्यं ज्ञानमनन्तं ब्रह्मे त्येल्लक्षण लक्षित भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ हाऽहाऽहूऽहू मुख सुरगायक गीता पदान पद्य विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

    Bhairavarupa Shiva Stuti (भैरवरूप शिव स्तुति)

    ॥ भैरवरूप शिव स्तुति ॥ (Bhairavarupa Shiva Stuti) देव, भीषणाकार, भैरव, भयंकर, भूत-प्रेत-प्रमथाधिपति, विपति-हर्ता । मोह-मूषक-मार्जार, संसार-भय-हरण, तारण-तरण, अभय कर्ता ॥ अतुल बल, विपुलविस्तार, विग्रहगौर, अमल अति धवल धरणीधराभं । शिरसि संकुलित-कल-जूट पिंगलजटा, पटल शत-कोटि-विद्युच्छटाभं ॥ भ्राज विबुधापगा आप पावन परम, मौलि-मालेव शोभा विचित्रं । ललित लल्लाटपर राज रजनीशकल, कलाधर, नौमि हर धनद-मित्रं ॥ इंदु-पावक-भानु-भानुनयन, मर्दन-मयन, गुण-अयन, ज्ञान-विज्ञान-रूपं । रमण-गिरिजा, भवन भूधराधिप सदा, श्रवण कुंडल, वदनछवि अनूपं ॥ चर्म-चर्म असि-शूल-धर, डमरु-शर-चाप-कर, यान वृषभेश, करुणा-निधानं । जरत सुर-असुर, नरलोक शोकाकुलं, मृदुलचित, अजित, कृत गरलपानं ॥ भस्म तनु-तनुभूषणं, भूषणंव्याघ्र-चर्माम्बरं, उरग-नर-मौलि उर मालधारी । डाकिनी, शाकिनी, खेचरं, भूचरं, यंत्र-मंत्र-भंजन, प्रबल कल्मषारी ॥ काल-अतिकाल, कलिकाल, व्यालादि-खग, त्रिपुर-मर्दन, भीम-कर्म भारी । सकल लोकान्त-कल्पान्त शूलाग्र कृत दिग्गजाव्यक्त-गुण नृत्यकारी ॥ पाप-संताप-घनघोर संसृति दीन, भ्रमत जग योनि नहिं कोपि त्राता । पाहि भैरव-रूप राम-रूपी रुद्र, बंधु, बंधुगुरु, जनक, जननी, विधाता ॥ यस्य गुण-गण गणति विमल मति शारधा, निगम नारद-प्रमुख ब्रह्मचारी । शेष, सर्वेश, आसीन आनंदवन, दास टुलसी प्रणत-त्रासहारी ॥

    Surya Stuti (सूर्य स्तुति)

    ॥ सूर्य स्तुति ॥ (Surya Stuti) दीन-दयालु दिवाकर देवा । कर मुनि, मनुज, सुरासुर सेवा ॥ हिम-तम-करि केहरि करमाली । दहन दोष-दुख-दुरित-रुजाली ॥ कोक-कोकनद-लोक-प्रकासी । तेज -प्रताप-रूप-रस-रासी ॥ सारथि-पंगु, पंगुदिब्य रथ-गामी । हरि-संकर -बिधि-मूरति स्वामी ॥ बेद पुरान प्रगट जस जागै । तुलसी राम-भगति बर माँगै ॥

    Shri Radha Stuti (श्री राधा स्तुति)

    || श्री राधा स्तुति || (Shri Radha Stuti) नमस्ते परमेशानि रासमण्डलवासिनी। रासेश्वरि नमस्तेऽस्तु कृष्ण प्राणाधिकप्रिये।। नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे। ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमान पदाम्बुजे।। नम: सरस्वतीरूपे नम: सावित्रि शंकरि। गंगापद्मावनीरूपे षष्ठि मंगलचण्डिके।। नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरुपिणी। नमो दुर्गे भगवति नमस्ते सर्वरूपिणी।। मूलप्रकृतिरूपां त्वां भजाम: करुणार्णवाम्। संसारसागरादस्मदुद्धराम्ब दयां कुरु।। || इति सम्पूर्ण श्री राधा स्तुति ||

    Shri Durga Mata Stuti (श्री दुर्गा माता स्तुति)

    श्री दुर्गा माता स्तुति (Shri Durga Mata Stuti) || मंत्र || सर्व मंगल मांगल्ए शिवे सर्वार्थ साधिके, शरण्ए त्र्यंबके गौरी नारायणी नमोस्तुते।। || स्तुति प्रारंभ || जय जग जननी आदि भवानी, जय महिषासुर मारिणी मां । उमा रमा गौरी ब्रह्माणी, जय त्रिभुवन सुख कारिणी मां ।। हे महालक्ष्मी हे महामाया, तुम में सारा जगत समाया । तीन रूप तीनों गुण धारिणी, तीन काल त्रैलोक बिहारिणी ।। हरि हर ब्रह्मा इंद्रादिक के, सारे काज संवारिणी माँ । जय जग जननी आदि भवानी, जय महिषासुर मारिणी मां शैल सुता मां ब्रह्मचारिणी, चंद्रघंटा कूष्मांडा माँ । स्कंदमाता कात्यायनी माता, शरण तुम्हारी सारा जहां।। कालरात्रि महागौरी तुम हो सकल रिद्धि सिद्धि धारिणी मां जय जग जननी आदि भवानी जय महिषासुर मारिणी माँ अजा अनादि अनेका एका, आद्या जया त्रिनेत्रा विद्या। नाम रूप गुण कीर्ति अनंता, गावहिं सदा देव मुनि संता।। अपने साधक सेवक जन पर, सुख यश वैभव वारिणी मां ।। जय जगजननी आदि भवानी, जय महिषासुर मारिणी मां।। दुर्गति नाशिनी दुर्मति हारिणी दुर्ग निवारण दुर्गा मां, भवभय हारिणी भवजल तारिणी सिंह विराजिनी दुर्गा मां । पाप ताप हर बंध छुड़ाकर जीवो की उद्धारिणी माँ, जय जग जननी आदि भवानी जय महिषासुर मारिणी माँ।।

    Dashaavatara Stuti (दशावतार स्तुति)

    दशावतार स्तुति (Dashaavatara Stuti) नामस्मरणादन्योपायं न हि पश्यामो भवतरणे । राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ वेदोद्धारविचारमते सोमकदानवसंहरणे । मीनाकारशरीर नमो भक्तं ते परिपालय माम् ॥ 1 ॥ मंथानाचलधारणहेतो देवासुर परिपाल विभो । कूर्माकारशरीर नमो भक्तं ते परिपालय माम् ॥ 2 ॥ भूचोरकहर पुण्यमते क्रीडोद्धृतभूदेवहरे । क्रोडाकारशरीर नमो भक्तं ते परिपालय माम् ॥ 3 ॥ हिरण्यकशिपुच्छेदनहेतो प्रह्लादाऽभयधारणहेतो । नरसिंहाच्युतरूप नमो भक्तं ते परिपालय माम् ॥ 4 ॥ भवबंधनहर विततमते पादोदकविहताघतते । वटुपटुवेषमनोज्ञ नमो भक्तं ते परिपालय माम् ॥ 5 ॥ क्षितिपतिवंशक्षयकरमूर्ते क्षितिपतिकर्ताहरमूर्ते । भृगुकुलराम परेश नमो भक्तं ते परिपालय माम् ॥ 6 ॥ सीतावल्लभ दाशरथे दशरथनंदन लोकगुरो । रावणमर्दन राम नमो भक्तं ते परिपालय माम् ॥ 7 ॥ कृष्णानंत कृपाजलधे कंसारे कमलेश हरे । कालियमर्दन लोकगुरो भक्तं ते परिपालय माम् ॥ 8 ॥ दानवसतिमानापहर त्रिपुरविजयमर्दनरूप । बुद्धज्ञाय च बौद्ध नमो भक्तं ते परिपालय माम् ॥ 9 ॥ शिष्टजनावन दुष्टहर खगतुरगोत्तमवाहन ते । कल्किरूपपरिपाल नमो भक्तं ते परिपालय माम् ॥ 10 ॥ नामस्मरणादन्योपायं न हि पश्यामो भवतरणे । राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ इति दशावतार स्तुतिः ।

    Shri Durga Nakshatra Malika Stuti (श्री दुर्गा नक्षत्र मालिका स्तुति)

    श्री दुर्गा नक्षत्र मालिका स्तुति (Shri Durga Nakshatra Malika Stuti) विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ 2 ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ 5 ॥ स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः । आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥ 6 ॥ नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचंद्रनिभानने ॥ 7 ॥ चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिंछवलये केयूरांगदधारिणि ॥ 8 ॥ भासि देवि यदा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ कृष्णच्छविसमा कृष्णा संकर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चंद्रविस्पार्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ मुकुटेन विचित्रेण केशबंधेन शोभिना । भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ भ्राजसे चावबद्धेन भोगेनेवेह मंदरः । ध्वजेन शिखिपिंछानां उच्छ्रितेन विराजसे ॥ 14 ॥ कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ जया त्वं विजया चैव संग्रामे च जयप्रदा । ममाऽपि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥ विंध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् । कालि कालि महाकालि सीधुमांस पशुप्रिये ॥ 18 ॥ कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ॥ 19 ॥ प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ 20 ॥ दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः । कांतारेष्ववपन्नानां मग्नानां च महार्णवे ॥ 21 ॥ (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) जलप्रतरणे चैव कांतारेष्वटवीषु च । ये स्मरंति महादेवीं न च सीदंति ते नराः ॥ 22 ॥ त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या संततिर्मतिः । संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥ 23 ॥ नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ एवं स्तुता हि सा देवी दर्शयामास पांडवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ शृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥ मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ 30 ॥ ये च संकीर्तयिष्यंति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥ 31 ॥ प्रवासे नगरे चापि संग्रामे शत्रुसंकटे । अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥ 32 ॥ ये स्मरिष्यंति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किंचिदस्मिन् लोके भविष्यति ॥ 33 ॥ य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिध्धिं यास्यंति पांडवाः ॥ 34 ॥ मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यंति कुरवः नरा वा तन्निवासिनः ॥ 35 ॥ इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् । रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥ 38 ॥

    Devi Ashwadhati (Amba Stuti) देवी अश्वधाटी (अंबा स्तुति)

    देवी अश्वधाटी (अंबा स्तुति) (Devi Ashwadhati (Amba Stuti)) (कालिदास कृतम्) चेटी भवन्निखिल खेटी कदंबवन वाटीषु नाकि पटली कोटीर चारुतर कोटी मणीकिरण कोटी करंबित पदा । पाटीरगंधि कुचशाटी कवित्व परिपाटीमगाधिप सुता घोटीखुरादधिक धाटीमुदार मुख वीटीरसेन तनुताम् ॥ 1 ॥ शा ॥ द्वैपायन प्रभृति शापायुध त्रिदिव सोपान धूलि चरणा पापापह स्वमनु जापानुलीन जन तापापनोद निपुणा । नीपालया सुरभि धूपालका दुरितकूपादुदन्चयतुमाम् रूपाधिका शिखरि भूपाल वंशमणि दीपायिता भगवती ॥ 2 ॥ शा ॥ यालीभि रात्मतनुतालीनकृत्प्रियक पालीषु खेलति भवा व्याली नकुल्यसित चूली भरा चरण धूली लसन्मणिगणा । याली भृति श्रवसि ताली दलं वहति यालीक शोभि तिलका साली करोतु मम काली मनः स्वपद नालीक सेवन विधौ ॥ 3 ॥ शा ॥ बालामृतांशु निभ फालामना गरुण चेला नितंब फलके कोलाहल क्षपित कालामराकुशल कीलाल शोषण रविः । स्थूलाकुचे जलद नीलाकचे कलित वीला कदंब विपिने शूलायुध प्रणति शीला दधातु हृदि शैलाधि राज तनया ॥ 4 ॥ शा ॥ कंबावतीव सविडंबा गलेन नव तुंबाभ वीण सविधा बिंबाधरा विनत शंबायुधादि निकुरुंबा कदंब विपिने । अंबा कुरंग मदजंबाल रोचि रिह लंबालका दिशतु मे शं बाहुलेय शशि बिंबाभि राम मुख संबाधिता स्तन भरा ॥ 5 ॥ शा ॥ दासायमान सुमहासा कदंबवन वासा कुसुंभ सुमनो वासा विपंचि कृत रासा विधूत मधु मासारविंद मधुरा । कासार सून तति भासाभिराम तनु रासार शीत करुणा नासा मणि प्रवर भासा शिवा तिमिर मासाये दुपरतिम् ॥ 6 ॥ शा ॥ न्यंकाकरे वपुषि कंकाल रक्त पुषि कंकादि पक्षि विषये त्वं कामना मयसि किं कारणं हृदय पंकारि मे हि गिरिजाम् । शंकाशिला निशित टंकायमान पद संकाशमान सुमनो झंकारि भृंगतति मंकानुपेत शशि संकाश वक्त्र कमलाम् ॥ 7 ॥ शा ॥ जंभारि कुंभि पृथु कुंभापहासि कुच संभाव्य हार लतिका रंभा करींद्र कर दंभापहोरुगति डिंभानुरंजित पदा । शंभा उदार परिरंभांकुरत् पुलक दंभानुराग पिशुना शं भासुराभरण गुंभा सदा दिशतु शुंभासुर प्रहरणा ॥ 8 ॥ शा ॥ दाक्षायणी दनुज शिक्षा विधौ विकृत दीक्षा मनोहर गुणा भिक्षाशिनो नटन वीक्षा विनोद मुखि दक्षाध्वर प्रहरणा । वीक्षां विधेहि मयि दक्षा स्वकीय जन पक्षा विपक्ष विमुखी यक्षेश सेवित निराक्षेप शक्ति जय लक्षावधान कलना ॥ 9 ॥ शा ॥ वंदारु लोक वर संधायिनी विमल कुंदावदात रदना बृंदारु बृंद मणि बृंदारविंद मकरंदाभिषिक्त चरणा । मंदानिला कलित मंदार दामभिरमंदाभिराम मकुटा मंदाकिनी जवन भिंदान वाचमरविंदानना दिशतु मे ॥ 10 ॥ शा ॥ यत्राशयो लगति तत्रागजा भवतु कुत्रापि निस्तुल शुका सुत्राम काल मुख सत्रासकप्रकर सुत्राण कारि चरणा । छत्रानिलातिरय पत्त्राभिभिराम गुण मित्रामरी सम वधूः कु त्रासहीन मणि चित्राकृति स्फुरित पुत्रादि दान निपुणा ॥ 11 ॥ शा ॥ कूलातिगामि भय तूलावलिज्वलनकीला निजस्तुति विधा कोलाहलक्षपित कालामरी कुशल कीलाल पोषण रता । स्थूलाकुचे जलद नीलाकचे कलित लीला कदंब विपिने शूलायुध प्रणति शीला विभातु हृदि शैलाधिराज तनया ॥ 12 ॥ शा ॥ इंधान कीर मणिबंधा भवे हृदयबंधा वतीव रसिका संधावती भुवन संधारणे प्यमृत सिंधावुदार निलया । गंधानुभाव मुहुरंधालि पीत कच बंधा समर्पयतु मे शं धाम भानुमपि रुंधान माशु पद संधान मप्यनुगता ॥ 13 ॥ शा ॥

    Avadash aarya Stuti (द्वादश आर्य स्तुति)

    द्वादश आर्य स्तुति (Avadash aarya Stuti) उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ 1 ॥ निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ 2 ॥ कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ 3 ॥ त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ 4 ॥ शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ 5 ॥ त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः । तान् पूषा हतदोषः किञ्चिद्रोषाग्निना दहतु ॥ 6 ॥ धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् । बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ 7 ॥ येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ 8 ॥ यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः । भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ 9 ॥ तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः । काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ 10 ॥ वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ 11 ॥ त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ 12 ॥ इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात्पतितम् । पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ 13 ॥ इति श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः ।