Navavarana Vidhi (नवावर्ण विधि)

नवावर्ण विधि (Navavarana Vidhi) श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमंत्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छंदांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः, ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे विनियोगः॥ ऋष्यादिन्यासः ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे । महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये । ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे -- इति मूलेन करौ संशोध्य करन्यासः ॐ ऐं अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां नमः । ॐ चामुंडायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुंडायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे अस्त्राय फट् । अक्षरन्यासः ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे । ॐ चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः, दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे । ॐ विं नमः, मुखे । ॐ च्चें नमः, गुह्ये । एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् । दिङ्न्यासः ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नै​ऋत्यै नमः । ॐ क्लीं पतीच्यै नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुंडायै उदीच्यै नमः । ॐ चामुंडायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे भूम्यै नमः । ध्यानम् ॐ खड्गं चक्रगदेषुचापपरिघांछूलं भुशुंडीं शिरः शंखं संदधतीं करैस्त्रिनयनां सर्वांगभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कौटभम् ॥ ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुंडिकां दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ ॐ घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकम् । हस्ताब्जैर्धधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा । पूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्धिनीम् ॥ ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥ ऐं ह्रीं अक्षमालिकायै नमः ॥ 108 ॥ ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥ ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ॥ 108 ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ करन्यासः ॐ ह्रीं अंगुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां नमः । ॐ कां अनामिकाभ्यां नमः । ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं चंडिकायै करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शंखिनी चापिनी बाणभुशुंडी पैघायुधा । हृदयाय नमः ॥ ॐ शूलेन पाहि नो देवि पाहि खड्गेन चांबिके । घंटास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ॥ ॐ प्राच्यां रक्ष प्रतींच्यां च रक्ष चंडिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ॥ ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ॥ ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽंबिके । करपल्लव संगीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ॥ ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते । अस्त्राय फट् ॥ ध्यानम् ॐ विद्युद्दामप्रभां मृगपतिस्कंधस्थितां भीषणाम् । कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीम् । बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥