Nakshatra Suktam (Nakshatreshti) (नक्षत्र सूक्तम् (नक्षत्रेष्टि) )

नक्षत्र सूक्तम् (नक्षत्रेष्टि) (Nakshatra Suktam (Nakshatreshti)) **नक्षत्रं - कृत्तिका, देवता - अग्निः** ॐ अग्निर्नः पातु कृत्तिकाः। नक्षत्रं देवमिंद्रियम्। इदमासां-विंचक्षणम्। हविरासं जुहोतन। यस्य भांति रश्मयो यस्य केतवः। यस्येमा विश्वा भुवनानि सर्वा। स कृत्तिकाभिरभिसंवँसानः। अग्निर्नो देवस्सुविते दधातु॥ **नक्षत्रं - रोहिणी, देवता - प्रजापतिः** प्रजापते रोहिणीवेतु पत्नी। विश्वरूपा बृहती चित्रभानुः। सा नो यज्ञस्य सुविते दधातु। यथा जीवे शरदस्सवीराः। रोहिणी देव्युदगात्पुरस्तात्। विश्वा रूपाणि प्रतिमोदमाना। प्रजापतिंग हविषा वर्धयंती। प्रिया देवानामुपयातु यज्ञम्॥ **नक्षत्रं - मृगशीर्​षः, देवता - सोमः** सोमो राजा मृगशीर्षेण आगन्न्। शिवं नक्षत्रं प्रियमस्य धाम। आप्यायमानो बहुधा जनेषु। रेतः प्रजां-यँजमाने दधातु। यत्ते नक्षत्रं मृगशीर्षमस्ति। प्रियग्ं राजन् प्रियतमं प्रियाणाम्। तस्मै ते सोम हविषा विधेम। शन्न एधि द्विपदे शंचतुष्पदे॥ **नक्षत्रं - आर्द्रा, देवता - रुद्रः** आर्द्रया रुद्रः प्रथमा न एति। श्रेष्ठो देवानां पतिरघ्नियानाम्। नक्षत्रमस्य हविषा विधेम। मा नः प्रजाग्ं रीषिषन्मोत वीरान्। हेती रुद्रस्य परिणो वृणक्तु। आर्द्रा नक्षत्रं जुषताग्ं हविर्नः। प्रमुं​चमानौ दुरितानि विश्वा। अपाघशग्ं सन्नु-दतामरातिम्॥ **नक्षत्रं - पुनर्वसु, देवता - अदितिः** पुनर्नो देव्यदिति-स्पृणोतु। पुनर्वसू नः पुनरेतां-यँज्ञम्। पुनर्नो देवा अभियंतु सर्वे। पुनः पुनर्वो हविषा यजामः। एवा न देवय-दि​तिरनर्वा। विश्वस्य भर्त्री जगतः प्रतिष्ठा। पुनर्वसू हविषा वर्धयंती। प्रियम देवानामप्येतु पाथः॥ **नक्षत्रं - पुष्यः, देवता - बृहस्पतिः** बृहस्पतिः प्रथमंजायमानः। तिष्यं नक्षत्रमभि संबभूव। श्रेष्ठो देवानां पृतनासु जिष्णुः। दिशोऽनु सर्वा अभयन्नो अस्तु। तिष्यः पुरस्तादुत मध्यतो नः। बृहस्पतिः नः परिपातु पच्छात्। बाधे तांद्वेषो अभयं कृणुताम्। सवीर्यस्य पतयस्याम॥ **नक्षत्रं - आश्रेषं, देवता - सर्पाः** इदग्ं सर्पेभ्यो हविरस्तु जुष्टम्। आश्रेषा येषामनुयंति चेतः। ये अंतरिक्षं पृथिवीं-क्षियंति। तेन स्सर्पासो हवमागमिष्ठाः। ये रोचने सूर्यस्यापि सर्पाः। ये दिवं देवीं-मनुसंचरंति। येषामाश्रेषा अनुयंति कामम्। तेभ्य-स्सर्पेभ्यो मधु-मज्जुहोमि॥ **नक्षत्रं - मघा, देवता - पितरः** उपहूताः पितरो ये मघासु। मनोजवस-स्सुकृत-स्सुकृत्याः। ते नो नक्षत्रे हवमागमिष्ठाः। स्वधाभिर्यज्ञं प्रयतं जुषंताम्। ये अग्निदग्धा येऽनग्नि-दग्धाः। येऽमुल्लोकं पितरः, क्षियंति। याग्ग्​श्च विद्मयाग्ं उ च न प्रविद्म। मघासु यज्ञग्ं सुकृतं जुषंताम्॥ **नक्षत्रं - पूर्वफल्गुनी, देवता - अर्यमा** गवां पतिः फल्गुनी-नामसि त्वम्। तदर्यमन्वरुण मित्र चारु। तं त्वा वयग्ं सनीतारग्ं सनीनाम्। जीवा जीवंतमुप संविँशेम। येनेमा विश्वा भुवनानि संजिता। यस्य देवा अनुसंयंति चेतः। अर्यमा राजा-अजरस्तु विष्मान्। फल्गुनीना-मृषभो रोरवीति॥ **नक्षत्रं - उत्तर फल्गुनी, देवता - भगः** श्रेष्ठो देवानां भगवो भगासि। तत्त्वा विदुः फल्गुनी-स्तस्य वित्तात्। अस्मभ्यं-क्षत्रमजरग्ं सवीर्यम्। गोमदश्व-वदुपसन्नु-देह। भगोह दाता भग इत्प्रदाता। भगो देवीः फल्गुनी-राविवेश। भगस्येत्तं प्रसवं गमेम। यत्र देवै-स्सधमादं मदेम॥ **नक्षत्रं - हस्तः, देवता - सविता** आयातु देव-स्सवितो पयातु। हिरण्ययेन सुवृता रथेन। वहन, हस्तग्ं सुभगं-विँद्मनापसम्। प्रयच्छं पपुरिं पुण्यमच्छ। हस्तः प्रयच्छ त्वमृतं-वँसीयः। दक्षिणेन प्रतिगृभ्णीम एनत्। दातार-मद्य सविता विदेय। यो नो हस्तै प्रसुवाति यज्ञम्॥ **नक्षत्रं - चित्रा, देवता - त्वष्टा** त्वष्टा नक्षत्र-मभ्येति चित्राम्। सुभग्ं ससंयुवतिग्ं रोचमानाम्। निवेशय-न्नमृता-न्मर्त्याग्ंश्च। रूपाणि पिंग्शन् भुवनानि विश्वा। तन्नस्त्वष्टा तदु चित्रा विचष्टाम्। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नः प्रजां-वीँरवतीग्ं सनोतु। गोभिर्नो अश्वै-स्समनक्तु यज्ञम्॥ **नक्षत्रं - स्वाती, देवता - वायुः** वायुः-नक्षत्र-मभ्येति निष्ट्याम्। तिग्मशृंगो वृषभो रोरुवाणः। समीरण भुवना मातरिश्वा। अप द्वेषाग्ंसि नुदतातामरातिः। तन्नो वायस्तदु निष्ट्या शृणोतु। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नो देवासो अनुमदंतु कामम्। यथा तरेम दुरितानि विश्वा॥ **नक्षत्रं - विशाखा, देवता - इंद्राग्नी** दूरमस्मच्छत्रवो यंतु भीताः। तदिंद्राग्नी कृणुतां तद्विशाखे। तन्नो देवा अनुमदंतु यज्ञम्। पच्छात् पुरस्तादभयन्नो अस्तु। नक्षत्राणा-मधिपत्नी विशाखे। श्रेष्ठा-विंद्राग्नी भुवनस्य गोपौ। विषूच-श्शत्रूनपबाधमानौ। अपक्षुध-न्नुदतातामरातिम्॥