Sukt Collection

    Ganesha Sukta (वैदिक गणेश-स्तवन)

    वैदिक गणेश-स्तवन(Vedic Ganesha-Stavan) गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति। हवामहे निधीनां त्वा निधिपतिश हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत्क्रियते किं चनारे महामर्क मघवजिचित्रमर्च॥ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपम- श्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ ॐ तत्कराटाय विद्याहे हस्तिमुखाय धीमहि। तन्नो दन्ती प्रचोदयात् ॥ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोद्रायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥

    Brahmanaspati Sukt (ह्मणस्पतिसूक्त)

    ब्रह्मणस्पतिसूक्त(Brahmanaspati Sukt) त्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुत सुदानव इन्द्र प्राशुर्भवा सचा॥ ९॥ त्वामिद्धि सहसस्पुत्र मर्त्य॑ उपब्रूते धने हिते। सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥ २॥ प्रतु ब्रह्मणस्यतिः प्र देव्येतु सूनृता। अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः॥ ३॥ यो वाघते ददाति सूनरं वसु स॒ धत्ते अक्षिति श्रवः। तस्मा इलां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम्‌॥ ४॥ प्र नूनं ब्रह्मणस्पतिर्मन्त्र वदत्युक्थ्यम्‌। यस्मिनिन्‍द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे॥ ५॥ तमिद्‌ वोचेमा विदथेषु शंभुवं मन्त्र देवा अनेहसम्‌। इमां च वाचं प्रतिहर्यथा नरो विश्वेद्‌ वामा वो अश्नवत्‌ ॥ ६॥ को देवयन्तमषश्नवज्‌ जनं को वृक्तलर्हिषम्‌। प्रप्र दाश्वान्‌ पस्त्याभिरस्थिताऽन्तर्वांवत्‌ क्षयं दधे॥ ७॥ उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्‌ सुक्षितिं दधे। नास्य वर्ता न तरुता महाधने नाभं अस्ति वजिणः॥ ८॥ [वैदिक देवता विघ्नेश गणपति 'ब्रह्मणस्पति' भी कहलाते हैं। 'ब्रह्मणस्पति' के रूपमें वे ही सर्वज्ञाननिधि तथा समस्त वाङ्मयके अधिष्ठाता हैं। आचार्य सायणसे भी प्राचीन वेदभाष्यकार श्रीस्कन्दस्वामी (वि०सं० ६८७) अपने ऋग्वेदभाष्यके प्रारम्भमें लिखते हैं- विघ्नेश विधिमार्तण्डचन्द्रेन्द्रोपेन्द्रवन्दित। नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ।। अर्थात् ब्रह्मा, सूर्य, चन्द्र, इन्द्र तथा विष्णुके द्वारा वन्दित हे विघ्नेश गणपति ! मन्त्रोंके स्वामी ब्रह्मणस्पति ! आपको नमस्कार है। मुद्गलपुराण (८।४९।१७) में भी स्पष्ट लिखा है-सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम्। माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ अर्थात् समस्त मंगलोंके स्वामी, सभीके परम पूज्य, सकल विघ्नोंके परम नायक, 'ब्रह्मणस्पति' नामसे प्रसिद्ध सिद्धि-बुद्धिके पति (गणपति) की मैं वन्दना करता हूँ। ब्रह्मणस्पति के अनेक सूक्त प्राप्त होते हैं। ऋग्वेदके प्रथम मण्डलका ४० वाँ सूक्त 'ब्रह्मणस्पतिसूक्त' कहलाता है, इसके ऋषि 'कण्व घोर' हैं। गणपतिके इस सूक्तको यहाँ सानुवाद प्रस्तुत किया जा रहा है-]

    Rudrasukt (रुद्रसूक्त)

    रुद्रसूक्त [ नीलसूक्त ] (Rudrasukta [Neelasukta]) [भूतभावन भगवान्‌ सदाशिवकी प्रसन्‍नताके लिये रुद्रयूक्तके पाठका विशेष महत्त्व बताया गया है। पूजामें भगवान्‌ शंकरको सबसे प्रिय जलधारा है । इसलिये भगवान्‌ शिवके पूजनमें रुद्राभिषेककी परम्परा है और अभिषेकर्मे इस रुद्रयूक्त की ही प्रमुखता है । रुद्राभिषेकके अन्तर्गत रद्राष्टाध्यायीके पाठमें ग्यारह बार इस सूक्तकी आवृत्ति करनेपर पूर्ण रुद्राभिषेक माना जाता है। फलकी दृश्सि इसका अत्यधिक महत्त्व है। यह “सरसूक्त " आध्यात्मिक आधिदैविक एवं आधिभौतिक—त्रिविध तापोंसे मुक्त कराने तथा अयृतत्वकी ओर अग्रसर करनेका अन्यतम उपाय हे । यहाँ इस सूक्तको भावार्थसहित प्रस्तुत किया जा रहा है--] ॐ नमस्ते रुद्र॒ मन्यव उतो त॒ इषवे नमः। बाहुभ्यामुत ते नमः॥ ९॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि॥ २॥ यामिषुं गिरिशन्त हस्ते वबिभर््यस्तवे। शिवां गिरित्र तां कुरु मा हिशसीः पुरुषं जगत्‌॥ २॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिजगदयक्ष्म सुमना असत्‌॥ ४॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्‌। अहींश्च सर्वाञ्जम्भयन्त्सर्वाङ्च यातुधान्योऽधराचीः परा सुव ॥ ५॥ असौ यस्ताम्रो अरुण उत॒ बशवुः सुमङ्लः। ये चैन& रुद्रा अभितो दिक्षु श्रिताः सहस््रशोऽवेषा हेड ईमहे ॥ ६ ॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः। उतेनं गोपा अदृश्रनदृश्रनुदहार्यः स दृष्टो मरडयाति नः ॥ ७॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीदुषे। अथो ये अस्य सत्वानोऽदहं तेभ्योऽकरं नमः॥ ८ ॥ प्रमुञ्च धन्वनस्त्वमुभयोरार््यो्ज्याम्‌। याश्च ते हस्त इषवः परा ता भगवो वष॥ ९ ॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवॉ२ उत। अनेशन्नस्य या इषव आभुरस्य निषद्कधिः ॥ १०॥ या ते हेतिर्मीदुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥ ९९॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो य इषुधिस्तवारे अस्मन्नि धेहि तम्‌॥ ९२॥ अवतत्य धनुष्ट्व सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १२३॥ नमस्त आयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव॒ धन्वने॥ ९४॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उद्षितम्‌। मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥ १५॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। मा नो वीरान्‌ रुद्र भामिनो वधी- हविष्मन्तः सदमित्‌ त्वा हवामहे॥ १६॥ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशुनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः॥ १७॥ नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः॥ १८॥ नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम उच्चेर्घोषायाक्रन्दयते पत्तीनां पतये नमः॥ ९९॥ नमः कृतस्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो निषड्धिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः॥२०॥ नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाश्सद्रयो मुष्णतां पतये नमो नमोऽसिमद्भयो नक्तज्चरद्धयो विकृन्तानां पतये नमः ॥ २९॥ नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम॒ आयच्छद्धयो ऽस्यद््रयश्च वो नमः॥ २२॥ नमो विसृजद्धयो विध्यद्धयश्च वो नमो नमः स्वपद्धयो जाग्रद्भ्यश्च वो नमो नमः शयानेभ्य आसीनेभ्यङ्च वो नमो नमस्तिष्ठद्धयो धावद्धयश्च वो नमः॥ २३॥ नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्यो ऽश्वपतिभ्यञ्च वो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृछहतीभ्यर्च वो नमः॥ २४॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यङ्च वो नमः ॥ २५॥ नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्यो अरथेभ्यश्च वो नमो नमः क्षतृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्ध्यो अर्भकेभ्यश्च वो नमः॥ २६॥ नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कमरिभ्यश्च वो नमो नमो निषादेभ्यः पुज्जिष्ठेभ्य्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः॥ २७॥ नमः श्वभ्यः वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च॥ २८॥ नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्त्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च॥२९॥ नमो हस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च स्वृधे च नमोऽग्न्याय च प्रथमाय च।॥ ३०॥ नम आशवे चाजिराय च नमः शीघ्रद्याय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च।॥ ३९॥ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च लुध्याय च॥३२॥ नमः सोभ्याय च प्रतिसर्ययि च नमो याम्याय च श्चेम्याय च नमः श्लोक्याय चावसान्याय च नम उर्वर्याय च खल्याय च॥३३॥ नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च॥ ३४॥ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च॥ ३५॥ नमो धृष्णवे च प्रमृशाय च नमो निषड्धिणे चेषुधिमते च नमस्ती- कष्णेषवे चायुधिने च नमः स्वा- युधाय च सुधन्वने च॥ ३६॥ नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादे- याय च वैशन्ताय च॥ ३७॥ नमः कूप्याय चावट्याय च नमो वीधयाय चातप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च॥ ३८ ॥ नमो वात्याय च रेष्प्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताग्राय चारुणाय च।॥ २९॥ नमः श्ङ्वे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय॥ ४०॥ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नम: शिवाय च शिवतराय च॥ ४९॥ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥ ४२॥ नमः सिकत्याय च प्रवाह्याय च नमः किश्िलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च ॥ ४३॥ नमो ब्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्प्याय च नमः काट्याय च गहूरेष्ठाय च ॥ ४४॥ नमः शुष्क्याय च हरित्याय च नमः पाश्सव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्व्याय च॥ ४५॥ नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम इषुकृद्धयो धनुष्कृ द्यश्च वो नमो नमो वः किरिकेभ्यो देवाना हृदयेभ्यो नमो विचि- न्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ॥ ४६ ॥ द्रापे अन्धसस्पते दरिद्र नीललोहित। आसां प्रजानामेषां पशूनां मा भर्मा रोड्मो च नः किंचनाममत्‌॥ ४७॥ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः। यथा शमसद्‌ द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्‌॥ ४८ ॥ या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड॒ जीवसे ॥ ४९॥ परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः । अब स्थिरा मघवद्रयस्तनुष्व मीद्वस्तोकाय तनयाय मृड ॥ ५०॥ मीटुष्टम शिवतम शिवो नः सुमना भव। परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकं बिभ्रदा गहि॥५९॥ विकिरिद्र विलोहित नमस्ते अस्तु भगवः। यास्ते सहस्र हेतयोऽन्यमस्मन्ि वपन्तु ताः ॥ ५२॥ सहस्राणि सहस्रशो बाहोस्तव॒ हेतयः। तासामीशानो भगवः पराचीना मुखा कृधि॥ ५३॥ असंख्याता सहस्त्राणि ये रुद्रा अधि भूम्याम्‌। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५४॥ अस्मिन्‌ महत्यण्वि न्तरिक्षे भवा अधि। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५५॥ नीलग्रीवाः शितिकण्ठा दिवश सुद्रा उपश्रिताः । तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५६॥ नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५७॥ ये वृक्षेषु शष्पिज्जरा नीलग्रीवा विलोहिताः। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५८॥ ये भूतानामधिपतयो विशिखासः कपर्दिनः। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५९॥ ये पथां पथिरक्षय एेलबृदा आयुर्यधः। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६०॥ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषड्धिण:। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि॥ ६९॥ येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्‌। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६२॥ य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे ! तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६३॥ नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६४॥ नमोऽस्तु रुद्रेभ्यो येऽन्तरिश्चे येषां वात इषवः। तेभ्यो दश प्राचीर्दश दक्चिणा दश प्रतीचीर्दशोदीचोर्दशोर्ध्वा: । तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यञ्च नो द्वेष्टि तमेषां जम्भे दध्पः॥ ६५॥ नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः। तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यञ्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६६॥ महामृत्युंजय मन्त्र (यजु० ३।६० ) सम्पुटसहित-- ("ॐ हों जूं सः। ॐ भूर्भुवः स्वः। ॐ त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌। उर्वारुकमिव बन्धनामृत्योमुक्षीय मामृतात्‌। स्वः भुवः भूः ॐ । सः जूँ हौं ॐ") दिव्य गन्धसे युक्त, मूत्युरहित, धन-धान्यवर्धक, त्रिनेत्र रद्रकी हम पूजा करते है । बे रुद्र हमें अपमृत्यु और संसाररूप मृत्युसे मुक्त करें । जिस प्रकार ककड (फूट) -का फल अत्यधिक पक जानेपर अपने वृन्त (डंठल) -से मुक्त हो जाता है, उसी प्रकार हम भी मृत्युसे छूट जाय; किंतु अभ्युदय और निःश्रेयसरूप अमृतसे हमारा सम्बन्ध न छूटने पाये।

    Shri Sukt (श्रीसूक्त)

    श्रीसूक्त (Shri Sukt) [इस सूक्तके आनन्द कर्दम, चिक्‍्लीत, जातवेद ऋषि; “श्री “ देवता ओर अजुषु प्‌ प्रस्तारपक्ति एवं त्रिद्दुप्‌ छन्द है । देवीके अर्चनमें “श्रीसूक्त” कौ अतिशय मान्यता है । विशेषकर भगवती लक्ष्मीको प्रसन करनेके लिये “श्रीसूक्त“ ' के पाठकी विशेष महिमा बतायी गयी हे । एश्वर्य एवं समृद्धिकी कामनासे इस सूक्तके मन्त्रोंका जप तथा इन मन्त्रोंसे हवन, पूजन अभीष्टदायक होता हे । यह सूक्त ऋक्‌ परिशिष्टमें पठित है। यहाँ यह सूक्त सानुवाद प्रस्तुत किया जा रहा है-] ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्त्रजामू। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म॒ आ बह॥ ९॥ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्‌। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्‌ ॥ २॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्‌। श्रियं देवीमुप हये श्रीर्मा देवी जुषताम्‌॥ ३ ॥ कां सोस्मितां हस्तिनादप्रमोदिनीम् ज्वलन्तीं तृप्तां तर्पयन्तीम्‌। पदोर्थितां पदावर्णां तामिहोप हये श्रियम्‌॥ ४॥ चन्द्रं प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्‌। तां पडिनीमीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥ ६॥ उपेतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्टेऽस्मिन्‌ कीर्तिमृद्धिं ददातु मे॥ ७ ॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्‌। अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्‌॥ ८ ॥ गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम्‌। ईश्वरीं सर्वभूतानां तामिहोप हये श्ियम्‌॥ ९ ॥ मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ कर्दमेन प्रजा भूता मयि सम्भव कर्दम। श्रियं वासय मे कुले मातरं पदामालिनीम्‌॥ ११॥ आपः सृजन्तु स्िग्धानि चिक्लीत वस मे गृहे। नि च देवीं मातरं श्रियं वासय मे कुले॥ १२॥ आर्द्रा पुष्करिणीं पुष्टिं पिङ्कलां पदामालिनीम्‌। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म॒ आ वह॥ १३॥ आर्द्र यः करिणीं यष्टिं सुवर्णां हेममालिनीम्‌ सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म॒ आ वह॥ ९४॥ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्‌। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्‌ विन्देयं पुरुषानहम्‌।॥। ९५॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्‌। सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्‌ ॥ १६॥ पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विष्णुमनोऽनुकूले त्वत्यादपदां मयि सं नि धत्स्व ॥ ९७॥ पगानने पदाऊरू पाक्षि पदासम्भवे। तन्मे भजसि पाक्षि येन सोख्यं लभाम्यहम्‌॥ १८॥ अश्वदायि गोदायि धनदायि महाधने। धनं मे जुषतां देवि सर्वकामांश्च देहि ये॥ १९॥ पुत्रपोत्रधनं धान्यं हस्त्यश्वाश्वतरी रथम्‌। प्रजानां भवसि माता आयुष्मन्तं करोतु मे॥ २०॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना ॥ २९॥ वैनतेय सोमं पिब॒ सोमं पिबतु वृत्रहा। सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ २२॥ न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनाम्‌॥। २३॥ सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यजोभे भगवति _ हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्र सीद मह्यम्‌॥ २४॥ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्‌ । लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभाम्‌॥ २५॥ महालक्ष्म्य च विदाहे विष्णुपल्यै च धीमहि। तन्नो लक्ष्मीः प्र चोदयात्‌ ॥ २६॥ आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः । ऋषयः श्रियः पुत्राश्च श्रीरदैवीर्देवता मताः ॥ २७॥ ऋणरोगादिदारिद्रयपापक्षुदपमृत्यवः भयशोकमनस्तापा नश्यन्तु मम॒ सर्वदा ॥ २८॥ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धनं धान्यं पशं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ २९॥

    Devi Sukt (देवीसूक्त)

    देवीसूक्त [ वाक्‌-सूक्त ] [भगवती पराम्बाके अर्चन-पूजनके साथ “देवीसूक्त” के पाठको विशेष महिमा है । ऋग्वेदके दशय मण्डलका १२५वाँ सूक्त 'वाकु-यूक्त” कहलाता हे । इसे ˆआत्मसूक्त ' भी कहते हैं। इसमें अम्भ्रणऋछषिको पुत्री वाक्‌ ब्रह्मसाक्षात्कारसे सम्पन होकर अपनी सर्वात्मिद्ृष्टिको अभिव्यक्त कर रही हैं। ब्रह्मविद्की वाणी ब्रह्मसे वादात्म्यापन्‍नन होकर अपने-आपको ही सर्वात्माके रूपमे वर्णन कर रही हैं। ये ब्रह्मस्वरूपा वाग्देवी ब्रह्मानुधवी जीवन्मुक्त महापुरुषकी ब्रह्ममयी प्रज्ञा ही हैं। इस यूक्तमें प्रतिपाद्य-प्रतिपादकका ऐकात्म्य-सम्बन्ध दर्शाया गया है। यह सूक्त सानुवाद यहाँ प्रस्तुत है- ] ॐ अहे रुद्रभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ ९॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्‌। अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥ अहं राष्टी संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्‌। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भू्यविशयन्तीम्‌॥ ३ ॥ मया सो अनमत्ति यो विपश्यति यः प्राणिति य ई शृणोत्युक्तम्‌ । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः। यं कामये तं तमुग्रं कृणोमि तं ब्रह्मणं तमृषिं तं सुमेधाम्‌॥ ५॥ अहं रुद्राय धनुरा तनोमि ब्रह्मद्धिषि शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥ ६॥ अहं सुवे पितरमस्य पूर्धन्‌ मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥ अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा। परो दिवा पर एना पृथिव्यैतावती महिना संबभूव ॥ ८ ॥

    Raatri sukt (रात्रिसूक्त)

    रात्रिसूक्त [ ऋग्वेदके दशम मण्डलका १ २७वाँ सूक्त रात्रियूक्त कहलाता है, इसमें आठ ऋचाएं पठित हैं; जिनमें रात्रिदेवीकी महिमाका यान किया गया है। इस सूक्तमें नताया गया है कि रात्रिदेवी जयत्‌के समस्त जीवोंके शुभाशुभ कर्मोकी साक्षी हैं ओर तदनुरूप फल प्रदान करती हैं। ये सर्वत्र व्याप्त हैं और अपनी ज्ञानमयी ज्योतिसे जीवोंके अज्ञानान्धकारका नाश कर देती हैं करुणाययी रात्रिदेवीके अंकमें सुषुप्तावस्थामें समस्त जीवनिकाय सुखपूर्वक सोया रहता है । यहाँ यहसूक्त मन्त्रके भावानुकादसहित प्रसृत है- ] ॐ रात्री व्यख्यदायती पुरुत्रा देव्यश्चधिः। विश्वा अधि श्रियोऽधित ॥ ९॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्बतः । ज्योतिषा बाधते तमः॥ २॥ निरु स्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तमः॥ ३॥ सा नो अद्य यस्या वयं नि ते यामननविश्ष्महि। वृक्षे न वसतिं वयः ॥ ४॥ नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिण:। नि श्येनासषश्चिदधिनः ॥ ५॥ यावया वृक्यं वृकं यवय स्तेनमूर्म्ये। अथा नः सुतरा भव ॥ ६॥ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित। उष ऋणेव यातय ।॥ ७॥ उप ते गा इवाकरं वृणीष्व दुहितर्दिवः। रात्रि स्तोमं न जिग्युषे ॥ ८ ॥

    Nakshatra Suktam (Nakshatreshti) (नक्षत्र सूक्तम् (नक्षत्रेष्टि) )

    नक्षत्र सूक्तम् (नक्षत्रेष्टि) (Nakshatra Suktam (Nakshatreshti)) **नक्षत्रं - कृत्तिका, देवता - अग्निः** ॐ अग्निर्नः पातु कृत्तिकाः। नक्षत्रं देवमिंद्रियम्। इदमासां-विंचक्षणम्। हविरासं जुहोतन। यस्य भांति रश्मयो यस्य केतवः। यस्येमा विश्वा भुवनानि सर्वा। स कृत्तिकाभिरभिसंवँसानः। अग्निर्नो देवस्सुविते दधातु॥ **नक्षत्रं - रोहिणी, देवता - प्रजापतिः** प्रजापते रोहिणीवेतु पत्नी। विश्वरूपा बृहती चित्रभानुः। सा नो यज्ञस्य सुविते दधातु। यथा जीवे शरदस्सवीराः। रोहिणी देव्युदगात्पुरस्तात्। विश्वा रूपाणि प्रतिमोदमाना। प्रजापतिंग हविषा वर्धयंती। प्रिया देवानामुपयातु यज्ञम्॥ **नक्षत्रं - मृगशीर्​षः, देवता - सोमः** सोमो राजा मृगशीर्षेण आगन्न्। शिवं नक्षत्रं प्रियमस्य धाम। आप्यायमानो बहुधा जनेषु। रेतः प्रजां-यँजमाने दधातु। यत्ते नक्षत्रं मृगशीर्षमस्ति। प्रियग्ं राजन् प्रियतमं प्रियाणाम्। तस्मै ते सोम हविषा विधेम। शन्न एधि द्विपदे शंचतुष्पदे॥ **नक्षत्रं - आर्द्रा, देवता - रुद्रः** आर्द्रया रुद्रः प्रथमा न एति। श्रेष्ठो देवानां पतिरघ्नियानाम्। नक्षत्रमस्य हविषा विधेम। मा नः प्रजाग्ं रीषिषन्मोत वीरान्। हेती रुद्रस्य परिणो वृणक्तु। आर्द्रा नक्षत्रं जुषताग्ं हविर्नः। प्रमुं​चमानौ दुरितानि विश्वा। अपाघशग्ं सन्नु-दतामरातिम्॥ **नक्षत्रं - पुनर्वसु, देवता - अदितिः** पुनर्नो देव्यदिति-स्पृणोतु। पुनर्वसू नः पुनरेतां-यँज्ञम्। पुनर्नो देवा अभियंतु सर्वे। पुनः पुनर्वो हविषा यजामः। एवा न देवय-दि​तिरनर्वा। विश्वस्य भर्त्री जगतः प्रतिष्ठा। पुनर्वसू हविषा वर्धयंती। प्रियम देवानामप्येतु पाथः॥ **नक्षत्रं - पुष्यः, देवता - बृहस्पतिः** बृहस्पतिः प्रथमंजायमानः। तिष्यं नक्षत्रमभि संबभूव। श्रेष्ठो देवानां पृतनासु जिष्णुः। दिशोऽनु सर्वा अभयन्नो अस्तु। तिष्यः पुरस्तादुत मध्यतो नः। बृहस्पतिः नः परिपातु पच्छात्। बाधे तांद्वेषो अभयं कृणुताम्। सवीर्यस्य पतयस्याम॥ **नक्षत्रं - आश्रेषं, देवता - सर्पाः** इदग्ं सर्पेभ्यो हविरस्तु जुष्टम्। आश्रेषा येषामनुयंति चेतः। ये अंतरिक्षं पृथिवीं-क्षियंति। तेन स्सर्पासो हवमागमिष्ठाः। ये रोचने सूर्यस्यापि सर्पाः। ये दिवं देवीं-मनुसंचरंति। येषामाश्रेषा अनुयंति कामम्। तेभ्य-स्सर्पेभ्यो मधु-मज्जुहोमि॥ **नक्षत्रं - मघा, देवता - पितरः** उपहूताः पितरो ये मघासु। मनोजवस-स्सुकृत-स्सुकृत्याः। ते नो नक्षत्रे हवमागमिष्ठाः। स्वधाभिर्यज्ञं प्रयतं जुषंताम्। ये अग्निदग्धा येऽनग्नि-दग्धाः। येऽमुल्लोकं पितरः, क्षियंति। याग्ग्​श्च विद्मयाग्ं उ च न प्रविद्म। मघासु यज्ञग्ं सुकृतं जुषंताम्॥ **नक्षत्रं - पूर्वफल्गुनी, देवता - अर्यमा** गवां पतिः फल्गुनी-नामसि त्वम्। तदर्यमन्वरुण मित्र चारु। तं त्वा वयग्ं सनीतारग्ं सनीनाम्। जीवा जीवंतमुप संविँशेम। येनेमा विश्वा भुवनानि संजिता। यस्य देवा अनुसंयंति चेतः। अर्यमा राजा-अजरस्तु विष्मान्। फल्गुनीना-मृषभो रोरवीति॥ **नक्षत्रं - उत्तर फल्गुनी, देवता - भगः** श्रेष्ठो देवानां भगवो भगासि। तत्त्वा विदुः फल्गुनी-स्तस्य वित्तात्। अस्मभ्यं-क्षत्रमजरग्ं सवीर्यम्। गोमदश्व-वदुपसन्नु-देह। भगोह दाता भग इत्प्रदाता। भगो देवीः फल्गुनी-राविवेश। भगस्येत्तं प्रसवं गमेम। यत्र देवै-स्सधमादं मदेम॥ **नक्षत्रं - हस्तः, देवता - सविता** आयातु देव-स्सवितो पयातु। हिरण्ययेन सुवृता रथेन। वहन, हस्तग्ं सुभगं-विँद्मनापसम्। प्रयच्छं पपुरिं पुण्यमच्छ। हस्तः प्रयच्छ त्वमृतं-वँसीयः। दक्षिणेन प्रतिगृभ्णीम एनत्। दातार-मद्य सविता विदेय। यो नो हस्तै प्रसुवाति यज्ञम्॥ **नक्षत्रं - चित्रा, देवता - त्वष्टा** त्वष्टा नक्षत्र-मभ्येति चित्राम्। सुभग्ं ससंयुवतिग्ं रोचमानाम्। निवेशय-न्नमृता-न्मर्त्याग्ंश्च। रूपाणि पिंग्शन् भुवनानि विश्वा। तन्नस्त्वष्टा तदु चित्रा विचष्टाम्। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नः प्रजां-वीँरवतीग्ं सनोतु। गोभिर्नो अश्वै-स्समनक्तु यज्ञम्॥ **नक्षत्रं - स्वाती, देवता - वायुः** वायुः-नक्षत्र-मभ्येति निष्ट्याम्। तिग्मशृंगो वृषभो रोरुवाणः। समीरण भुवना मातरिश्वा। अप द्वेषाग्ंसि नुदतातामरातिः। तन्नो वायस्तदु निष्ट्या शृणोतु। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नो देवासो अनुमदंतु कामम्। यथा तरेम दुरितानि विश्वा॥ **नक्षत्रं - विशाखा, देवता - इंद्राग्नी** दूरमस्मच्छत्रवो यंतु भीताः। तदिंद्राग्नी कृणुतां तद्विशाखे। तन्नो देवा अनुमदंतु यज्ञम्। पच्छात् पुरस्तादभयन्नो अस्तु। नक्षत्राणा-मधिपत्नी विशाखे। श्रेष्ठा-विंद्राग्नी भुवनस्य गोपौ। विषूच-श्शत्रूनपबाधमानौ। अपक्षुध-न्नुदतातामरातिम्॥

    Manyu Suktam (मन्यु सूक्तम्)

    मन्यु सूक्तम्(Manyu Suktam) ऋग्वेद संहिता; मंडलं 10; सूक्तं 83,84 यस्ते मन्योऽविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता॥ 1 ॥ मन्युरिंद्रो मन्युरेवास देवो मन्युर् होता वरुणो जातवेदाः। मन्युं-विंश ईलते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः॥ 2 ॥ अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून्। अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः॥ 3 ॥ त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः। विश्वचर्-षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि॥ 4 ॥ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः। तं त्वा मन्यो अक्रतुर्जिहीलाहं स्वातनूर्बलदेयाय मेहि॥ 5 ॥ अयं ते अस्म्युप मेह्यर्वाङ् प्रतीचीनः सहुरे विश्वधायः। मन्यो वज्रिन्नभि मामा ववृत्स्वहनााव दस्यून् ऋत बोध्यापेः॥ 6 ॥ अभि प्रेहि दक्षिणतो भव मेऽधा वृत्राणि जंघनाव भूरि। जुहोमि ते धरुणं मध्वो अग्रमु भा उपांशु प्रथमा पिबाव॥ 7 ॥ त्वया मन्यो सरथमारुजंतो हर्षमाणासो धृषिता मरुत्वः। तिग्मेषव आयुधा संशिशाना अभि प्रयंतु नरो अग्निरूपाः॥ 8 ॥ अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि। हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो विमृधो नुदस्व॥ 9 ॥ सहस्व मन्यो अभिमातिमस्मे रुजन मृणन् प्रमृणन् प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम्॥ 10 ॥ एको बहूनामसि मन्यवीलितो विशंविंशं-युंधये सं शिशाधि। अकृत्ततरुक् त्वया युजा वयं द्युमंतं घोषं-विंजयाय कृण्महे॥ 11 ॥ विजेषकृदिंद्र इवानवब्रवो(ओ)ऽस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मातमुत्सं-यंत आबभूथ॥ 12 ॥ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम्। क्रत्वा नो मन्यो सहमेद्येधि महाधनस्य पुरुहूत संसृजि॥ 13 ॥ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां-वरणश्च मन्युः। भियं दधाना हृदयेषु शत्रवः पराजितासो अप निलयंताम्॥ 14 ॥ धन्वनागाधन्व नाजिंजयेम धन्वना तीव्राः समदो जयेम। धनुः शत्रोरपकामं कृणोति धन्व ना सर्वाः प्रदिशो जयेम॥ भद्रं नो अपि वातय मनः॥ ॐ शांता पृथिवी शिवमंतरिक्षं द्यौर्नो देव्यऽभयन्नो अस्तु। शिवा दिशः प्रदिश उद्दिशो नऽआपो विश्वतः परिपांतु सर्वतः शांति शांति शांति॥

    Narayan Suktam (नारायण सूक्तम्)

    नारायण सूक्तम् (Narayan Suktam) ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सहस्रशीरषं देवम् विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवम् अक्षरं परमं पदम् ॥ विश्वतः परमं नित्यम् विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषः तद्विश्वम् उपजीवति ॥ पतिं विश्वस्य आत्मेश्वरं शाश्वतं शिवम् अच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायणः परो ज्योतिः आत्मा नारायणः परः । नारायणः परं ब्रह्म तत्त्वं नारायणः परः ॥ नारायणः परो ध्याता ध्यानं नारायणः परः । यत् किंचित् जगत्सर्वं दृश्यते श्रूयते अपि वा ॥ अन्तर्बहिः च तत्सर्वं व्याप्य नारायणः स्थितः । अनन्तम् अव्ययं कविम् समुद्रे अन्तं विश्वशंभुवम् ॥ पद्मकोश-प्रतीकाशं हृदयम् च अपि अधोमुखम् । अधो निष्ठ्या वितस्यान्ते नाभ्याम् उपरि तिष्ठति ॥ ज्वालामालाकुलं भाति विश्वस्यायतनं महत् । संततं शिलाभिः तु लम्बति आकोशसन्निभम् ॥ तस्य अन्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निः विश्वार्चिः विश्वतोमुखः ॥ सः अग्रभुः विभजं तिष्ठन् आहारम् अजरः कविः । तिर्त्यक् ऊर्ध्वम् अधः शायी रश्मयः तस्य संतताः ॥ संतापयति स्वं देहम् आपादतलम् अस्तकः । तस्य मध्ये वह्निशिखा अणीयोः उर्ध्वा व्यवस्थितः ॥ नीलतोयद मध्यस्था विद्युल्लेखा इव भास्वरा । नीवारशूकवत् तन्वी पीता भास्वती अणूपमा ॥ तस्याः शिखायां मध्ये परमात्मा व्यवस्थितः । सः ब्रह्म सः शिवः सः हरिः सः इन्द्रः सः अक्षरः परमः स्वराट् ॥ ऋतं सत्यम् परं ब्रह्म पुरुषं कृष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः नमः ॥ ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नः विष्णुः प्रचोदयात् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    Durga Suktam (दुर्गा सूक्तम्)

    दुर्गा सूक्तम्(Durga Suktam) ओम् । जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्-षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ अग्ने त्वं पारया नव्यो अस्मान्थ् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवातोकाय तनयाय शंयः ॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ पृतना जितंग सहमानमुग्रमग्निंग हुवेम परमाथ्सधस्थात् । स नः पर्-षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वांचाऽग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभि संवंसानो वैष्णवीं लोक इह मादयंताम् ॥ ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    Devi Mahatayam Suktam (देवी माहात्म्यं देवी सूक्तम्)

    देवी माहात्म्यं देवी सूक्तम् (Devi Mahatayam Suktam) ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥2॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयंतीम् ॥3॥ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवोमांत उपक्षियंति श्रुधि श्रुतं श्रद्धिवं ते वदामि ॥4॥ अहमेव स्वयमिदं वंदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥5॥ अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हंत वा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥6॥ अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वंतः समुद्रे । ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥7॥ अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवापर एना पृथिव्यैतावती महिना संबभूव ॥8॥ ॐ शांतिः शांतिः शांतिः ॥ ॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥ ॥तत् सत्॥

    Sarawati Suktam (सरस्वती सूक्तम्)

    सरस्वती सूक्तम् (Sarawati Suktam) (ऋ.वे. 6.61) इयम् ददाद्रभसमृणच्युतं दिवोदासं वँद्र्यश्वाय दाशुषे । या शश्वंतमाचखशदावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ 1 ॥ इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । पारावतघ्नीमवसे सुवृक्तिभिस्सरस्वती मा विवासेम धीतिेभिः ॥ 2 ॥ सरस्वति देवनिदो नि बर्हय प्रजां-विंश्यस्य बृसयस्य मायिनः । उत क्षितिभ्योऽवनीरविंदो विषमेभ्यो अस्रवो वाजिनीवति ॥ 3 ॥ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु ॥ 4 ॥ यस्त्वा देवी सरस्वत्युपब्रूते धने हिते । इंद्रं न वृत्रतूर्ये ॥ 5 ॥ त्वं देवी सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ 6 ॥ उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ 7 ॥ यस्या अनंतो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥ 8 ॥ सा नो विश्वा अति द्विषः स्वसृरन्या ऋतावरी । अतन्नहेव सूर्यः ॥ 9 ॥ उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥ 10 ॥ आपप्रुषी पार्थिवान्युरु रजो अंतरिक्षम् । सरस्वती निदस्पातु ॥ 11 ॥ त्रिषधस्था सप्तधातुः पंच जाता वर्धयंती । वाजेवाजे हव्या भूत् ॥ 12 ॥ प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ 13 ॥ सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत क्षेत्राण्यारणानि गन्म ॥ 14 ॥ **(ऋ.वे. 7.95)** प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः । प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिंधुरन्याः ॥ 15 ॥ एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् । रायश्चेतंती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥ 16 ॥ स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ 17 ॥ उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन्न् । मितज्ञुभिर्नमस्यैरियाना राय युजा चिदुत्तरा सखिभ्यः ॥ 18 ॥ इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधानाः उप स्थेयाम शरणं न वृक्षम् ॥ 19 ॥ अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः । वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥ 20 ॥ **(ऋ.वे. 7.96)** बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभिस्स्तोमैरवसिष्ठ रोदसी ॥ 21 ॥ उभे यत्ते महिना शुभ्रे अंधसी अधिक्षियांति पूरवः । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ 22 ॥ भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । गृणााना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥ 23 ॥ जनीयंतो न्वग्रवः पुत्रीयंतः सुदानवः । सरस्वंतं हवामहे ॥ 24 ॥ ये ते सरस्व ऊर्मयो मधुमंतो घृतश्चुतः । तेभिर्नोऽविता भव ॥ 25 ॥ पीपिवांसं सरस्वतः स्तनं-योँ विश्वदर्शतः । भक्षीमहि प्रजामिषम् ॥ 26 ॥ **(ऋ.वे. 2.41.16)** अंबितमे नदीतमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमंब नस्कृधि ॥ 27 ॥ त्वे विश्वा सरस्वति श्रितायूंषि देव्यम् । शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ 28 ॥ इमा ब्रह्म सरस्वति जुशस्व वाजिनीवति । या ते मन्म गृत्समदा ऋतावरी प्रिया देवेषु जुह्वति ॥ 29 ॥ **(ऋ.वे. 1.3.10)** पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं-वष्टु धियावसुः ॥ 30 ॥ चोदयित्री सूनृतानां चेतंती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ 31 ॥ महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥ 32 ॥ **(ऋ.वे. 10.17.7)** सरस्वतीं देवयंतो हवंते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयंत सरस्वती दाशुषे वार्यं दात् ॥ 33 ॥ सरस्वति या सरथं-यँयाथ स्वधाभिर्देवि पितृभिर्मदंती । आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥ 34 ॥ सरस्वतीं-यां पितरो हवंते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिलो अत्र भागं रायस्पोषं-यँजमानेषु धेहि ॥ 35 ॥ **(ऋ.वे. 5.43.11)** आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गंतु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥ 36 ॥ **(ऋ.वे. 2.32.4)** राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ 37 ॥ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमनाः उपागहि सहस्रपोषं सुभगे रराणा ॥ 38 ॥ सिनीवाली पृथु्ष्टुके या देवानामसि स्वसा । जुषस्व हव्य माहुतं प्रजां देवि दिदिड्ढि नः ॥ 39 ॥ या सुबाहुः स्वंगुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ 40 ॥ या गुंगूर्या सिनीवाली या राका या सरस्वती । इंद्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥ 41 ॥ ॐ शांति: शांति: शांति:

    Bhagya Suktam (भाग्य सूक्तम्)

    भाग्य सूक्तम्(Bhagya Suktam) ॐ प्रातरग्निं प्रातरिंद्रंग्ं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रंग्ं हुवेम ॥ 1 ॥ प्रातर्जितं भगमुग्रंग्ं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ 2 ॥ भग प्रणेतेर्भग सत्यराधो भगेमां धियमुदवददन्नः । भगप्रणो जनय गोभिरश्वैर्भगप्रनृभिर्नृवंतस्स्याम ॥ 3 ॥ उतेदानीं भगवंतस्स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवंथ्सूर्यस्य वयं देवानाग्ं सुमतौ स्याम ॥ 4 ॥ भग एवैव भगवाग्ं अस्तु देवास्तेन वयं भगवंतस्स्याम । तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह ॥ 5 ॥ समध्वरायोषसोऽनमंत दधिक्रावेव शुचये पदाय । अर्वाचीनं-वँसुविदं भगन्नो रथमिवाऽश्वावाजिन आवहंतु ॥ 6 ॥ अश्वावतीर्गोमतीर्न उषासो वीरवतीस्सदमुच्छंतु भद्राः । घृतं दुहाना विश्वतः प्रपीना यूयं पात स्वस्तिभिस्सदा नः ॥ 7 ॥ यो माऽग्ने भागिनंग्ं संतमताभागं चिकीर्षति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥ 8 ॥ ॐ शांतिः शांतिः शांतिः

    Medha Suktam (मेधा सूक्तम्)

    मेधा सूक्तम्(Medha Suktam) तैत्तिरीयारण्यकम् - 4, प्रपाठकः - 10, अनुवाकः - 41-44 ॐ यश्छंदसामृषभो विश्वरूपः। छंदोभ्योऽध्यमृतात्संबभूव। स मेंद्रो मेधया स्पृणोतु। अमृतस्य देवधारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरिविश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्य माना। त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः। त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया। त्वया जुष्टश्चित्रं-विंन्दते वसु सा नो जुषस्व द्रविणो न मेधे ॥ मेधां म इंद्रो ददातु मेधां देवी सरस्वती। मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा। अप्सरासु च या मेधा गंधर्वेषु च यन्मनः। दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषतात् स्वाहा ॥ आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या। ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषंताम् ॥ मयि मेधां मयि प्रजां मय्यग्नि-स्तेजो दधातु, मयि मेधां मयि प्रजां मय्यिंद्र इंद्रियं दधातु, मयि मेधां मयि प्रजां मयि सूर्यः भ्राजो दधातु ॥ [ॐ हंस हंसाय विद्महे परमहंसाय धीमहि। तन्नो हंसः प्रचोदया ॥ (हंसगायत्री)] ॐ शांतिः शांतिः शांतिः

    Vishwakarma Suktam (विश्वकर्म सूक्तम्)

    विश्वकर्म सूक्तम्(Vishwakarma Suktam) य इमा विश्वा भुवनानि जुह्वदृषिर्होता निषसादा पिता नः। स आशिषा द्रविणमिच्छमानः परमच्छदो वर आ विवेश॥ विश्वकर्मा मनसा यद्विहाय धाता विधाता परमोत संदृक्। तेषामिष्टानि समि॒षा मदंति यत्र सप्तर्षीन्पर एकमाहुः॥ यो नः पिता जनिता यो विधाता यो नः सतो अभ्या सज्जजान। यो देवानां नामधा एक एव तं संप्रश्नं भुवना यंत्यन्या॥ त आयजंत द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना। असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्निमानि॥ न तं विदाथ य इदं जजानान्यद्युष्माकमंतरं भवाति। नीहारेण प्रावृता जल्प्या चासुतृप उक्थशाश्चरंति॥ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्गुहा यत्। कगं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छंत विश्वे॥ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छंत विश्वे। अजस्य नाभावध्येकमर्पितं यं स्मिन्निदं विश्वं भुवनमधिश्रितम्॥ विश्वकर्मा ह्यजनिष्ट देव आदिद्गंधर्वो अभवद्द्वितीयः। तृतीयः पिता जनितौषधीनामपां गर्भंव्यँदधात्पुरुत्रा॥ चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने। यदेदंता अददृग्ंहंत पूर्वादिद्द्यावा पृथिवी अप्रथेताम्॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्। संबाहुभ्यां नमति संपतत्रैर्द्यावा पृथिवी जनयंदेव एकः॥ किगं स्विदासीदधिष्ठानमारंभणं कतमत्स्वित्किमासीत्। यदी भूमिं जनयन्विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः॥ किग्ं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावा पृथिवी निष्टतक्षुः। मनीषिणो मनसा पृच्छतेदु तद्यध्यतिष्ठद्भुवनानि धारयन्॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा। शिक्षा सखिभ्यो हविषि स्वधावः स्वयंयँजस्व तनुवं जुषाणः॥ वाचस्पतिंविँश्वकर्माणमूतये मनोयुजंवाँजे अद्या हुवेम। स नो नेदिष्ठा हवनानि जोषते विश्वशंभूरवसे साधुकर्मा॥ विश्वकर्मन्हविषा वावृधानः स्वयंयँजस्व तनुवं जुषाणः। मुह्यंत्वन्ये अभितः सपत्ना इहास्माकम्मघवा सूरिरस्तु॥ विश्वकर्मन्हविषा वर्धनेन त्रातारमिंद्रमकृणोरवध्यम्। तस्मै विशः समनमंत पूर्वीरयमुग्रो विहव्यो यथासत्॥ समुद्राय वयुना सिंधूनांपतये नमः। नदीनागं सर्वासांपि पित्रे जुहुता विश्वकर्मणे विश्वाहामर्त्यगं हविः।

    Agni Suktam (अग्नि सूक्तम्) Rigved

    अग्नि सूक्तम्" (ऋग्वेद) (Agni Suktam) अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत। स देवाञ्जेह वक्षति॥ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे। यशसंवीरवत्तमम्॥ अग्ने यं यज्ञमध्वरंविश्वतः परिभूरसि। स इद्देवेषु गच्छति॥ अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः। देवो देवेभिरागमत्॥ यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि। तवेतत्सत्यमङ्गिरः॥ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि॥ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम्। वर्धमानं स्वे दमे॥ स नः पितेव सूनवे-अग्ने सूपायनो भव। सचस्वा नस्स्वस्तये॥

    Krimi Sanharak Suktam (क्रीमी संहारक सूक्तम्)

    क्रीमी संहारक सूक्तम्" (यजुर्वेद) (Krimi Sanharak Suktam) अत्रिणा त्वा क्रिमे हन्मि। कण्वेन जमदग्निना। विश्वावसोर्ब्रह्मणा हतः। क्रिमीणाग्ं राजा। अप्येषाग् स्थपतिर्​हतः। अथो मा​ता-अथो पि​ता। अथो स्थूरा अथो क्षुद्राः। अथो कृष्णा अथो श्वे​ताः। अथो आशातिका हताः। श्वे​ताभिस्सह सर्वे हताः॥ आहरावद्य। शृतस्य हविषो यथा। तत्सत्यम्। यदमुं-यँमस्य जम्भयोः। आदधामि तथा हि तत्। खण्फण्म्रसि॥ ॐ शान्ति-श्शान्ति-श्शान्तिः।

    Neela Suktam (नीला सूक्तम्)

    नीला सूक्तम्(Neela Suktam) ओ-ङ्गृणा॒हि॒। घृतवती सवितराधिपत्यैः॒ पयस्वतीरन्तिराशानो अस्तु। ध्रुवा दिशां-विष्णुपत्न्यघोरा-ऽस्येशानासहसोया मनोता। बृहस्पतिर्मातरिश्वोत वायुस्सन्धुवानावाता अभि नो गृणन्तु। विष्टम्भो दिवोधरुणः पृथिव्या अस्येश्याना जगतो विष्णुपत्नी॥ ॐ शान्तिः-शान्तिः-शान्तिः॥

    Aikamatya Suktam (ऐकमत्य सूक्तम्)

    ऐकमत्य सूक्तम् (Aikamatya Suktam) ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ। इलस्पदे समिध्यसे स नो वसून्याभर॥ सङ्गच्छध्वं सं​वँदध्वं सं-वोँ मनांसि जानताम्। देवा भागं-यँथा पूर्वे सञ्जानाना उपासते॥ समानो मन्त्र-स्समिति-समानी समान-म्मनस्सह चित्तमेषाम्। समान-म्मन्त्रमभिमन्त्रये व-स्समानेन वो हविषा जुहोमि॥ समानी व आकूति-समाना हृदयानि वः। समानमस्तु वो मनो यथा व-स्सुसहासति॥ ॐ शान्ति-शान्ति-शान्तिः॥

    Bhu Suktam (भू सूक्तम्)

    भू सूक्तम् (Bhu Suktam) ॐ ओम्॥ ओ-म्भूमिर्भूम्ना द्यौर्वरिणा-ऽन्तरिक्ष-म्महित्वा। उपस्थे ते देव्यदिते-ऽग्निमन्नाद-मन्नाद्यायादधे॥ आ-ऽयङ्गौः पृश्ञिरक्रमी-दसनन्मा-तरम्पुनः। पितर-ञ्च प्रयन्थ्सुवः॥ त्रिग्ंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये। प्रत्यस्य वहद्युभिः॥ अस्य प्राणादपानत्यन्तश्चरति रोचना। व्यख्यन्महिषस्सुवः॥ यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या। सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि॥ यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे। आदित्या विश्वे तद्देवा वसवश्च समाभरन्न्॥ मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी। ब्रह्मवर्चसः पितृणां श्रोत्र-ञ्चक्षुर्मनः॥ देवी हिरण्यगर्भिणी देवी प्रसोदरी। सदने सत्यायने सीद। समुद्रवती सावित्री आहनो देवी मह्यङ्गी। महो धरणी महो-त्यतिष्ठत्॥ शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी इन्द्रपत्नी व्यापिनी सरसिज इह। वायुमती जलशयनी स्वयन्धाराजा सत्यन्तो परिमेदिनी सोपरिधत्तङ्गाय॥ विष्णुपत्नीम्महीन्देवीम्माधवीम्माधवप्रियाम्। लक्ष्मीम्प्रियसखीन्देवीन्नमाम्यच्युतवल्लभाम्॥ ओ-न्धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि। तन्नो धरा प्रचोदयात्। शृण्वन्ति श्रोणाममृतस्य गोपाम्पुण्यामस्याउपशृणोमि वाचम्। महीन्देवींविष्णुपत्नीममजूर्याम्प्रतीचीमेनाग्ं हविषा यजामः॥ त्रेधा विष्णुरुरुगायो विचक्रमे महीन्दिवम्पृथिवीमन्तरिक्षम्। तच्छ्रोणैत्रिशव इच्छमाना पुण्यग्ग् श्लोकंयँजमानाय कृण्वती॥ स्योनापृथिविभवानृक्षरानिवेशनी यच्छानश्शर्मसप्रथाः॥ अदितिर्देवा गन्धर्वा मनुष्याः पितरो सुरास्तेषाग्ं सर्व भूतानाम्माता मेदिनी महता मही। सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूताकतमाकायासा सत्येत्यमृतेति वसिष्ठः॥ इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले। स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेथ्सकल लोकधरित्रीम्॥ श्यामांविचित्रान्नवरत्न भूषिताञ्चतुर्भुजान्तुङ्गपयोधरान्विताम्। इन्दीवराक्षीन्नवशालि मञ्जरीं शुकन्दधानां शरणम्भजामहे॥ सक्तुमिवतितउना पुनन्तो यत्र धीरा मनसा वाच मक्रत। अत्रासखास्सख्यानि जानते भद्रैषांलँक्ष्मीर्निहिताधिवाचि॥ ॐ शान्ति-शान्ति-शान्तिः॥