Manyu Suktam (मन्यु सूक्तम्)

मन्यु सूक्तम्(Manyu Suktam) ऋग्वेद संहिता; मंडलं 10; सूक्तं 83,84 यस्ते मन्योऽविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता॥ 1 ॥ मन्युरिंद्रो मन्युरेवास देवो मन्युर् होता वरुणो जातवेदाः। मन्युं-विंश ईलते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः॥ 2 ॥ अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून्। अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः॥ 3 ॥ त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः। विश्वचर्-षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि॥ 4 ॥ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः। तं त्वा मन्यो अक्रतुर्जिहीलाहं स्वातनूर्बलदेयाय मेहि॥ 5 ॥ अयं ते अस्म्युप मेह्यर्वाङ् प्रतीचीनः सहुरे विश्वधायः। मन्यो वज्रिन्नभि मामा ववृत्स्वहनााव दस्यून् ऋत बोध्यापेः॥ 6 ॥ अभि प्रेहि दक्षिणतो भव मेऽधा वृत्राणि जंघनाव भूरि। जुहोमि ते धरुणं मध्वो अग्रमु भा उपांशु प्रथमा पिबाव॥ 7 ॥ त्वया मन्यो सरथमारुजंतो हर्षमाणासो धृषिता मरुत्वः। तिग्मेषव आयुधा संशिशाना अभि प्रयंतु नरो अग्निरूपाः॥ 8 ॥ अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि। हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो विमृधो नुदस्व॥ 9 ॥ सहस्व मन्यो अभिमातिमस्मे रुजन मृणन् प्रमृणन् प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम्॥ 10 ॥ एको बहूनामसि मन्यवीलितो विशंविंशं-युंधये सं शिशाधि। अकृत्ततरुक् त्वया युजा वयं द्युमंतं घोषं-विंजयाय कृण्महे॥ 11 ॥ विजेषकृदिंद्र इवानवब्रवो(ओ)ऽस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मातमुत्सं-यंत आबभूथ॥ 12 ॥ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम्। क्रत्वा नो मन्यो सहमेद्येधि महाधनस्य पुरुहूत संसृजि॥ 13 ॥ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां-वरणश्च मन्युः। भियं दधाना हृदयेषु शत्रवः पराजितासो अप निलयंताम्॥ 14 ॥ धन्वनागाधन्व नाजिंजयेम धन्वना तीव्राः समदो जयेम। धनुः शत्रोरपकामं कृणोति धन्व ना सर्वाः प्रदिशो जयेम॥ भद्रं नो अपि वातय मनः॥ ॐ शांता पृथिवी शिवमंतरिक्षं द्यौर्नो देव्यऽभयन्नो अस्तु। शिवा दिशः प्रदिश उद्दिशो नऽआपो विश्वतः परिपांतु सर्वतः शांति शांति शांति॥