Bhagya Suktam (भाग्य सूक्तम्)

भाग्य सूक्तम्(Bhagya Suktam) ॐ प्रातरग्निं प्रातरिंद्रंग्ं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रंग्ं हुवेम ॥ 1 ॥ प्रातर्जितं भगमुग्रंग्ं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ 2 ॥ भग प्रणेतेर्भग सत्यराधो भगेमां धियमुदवददन्नः । भगप्रणो जनय गोभिरश्वैर्भगप्रनृभिर्नृवंतस्स्याम ॥ 3 ॥ उतेदानीं भगवंतस्स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवंथ्सूर्यस्य वयं देवानाग्ं सुमतौ स्याम ॥ 4 ॥ भग एवैव भगवाग्ं अस्तु देवास्तेन वयं भगवंतस्स्याम । तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह ॥ 5 ॥ समध्वरायोषसोऽनमंत दधिक्रावेव शुचये पदाय । अर्वाचीनं-वँसुविदं भगन्नो रथमिवाऽश्वावाजिन आवहंतु ॥ 6 ॥ अश्वावतीर्गोमतीर्न उषासो वीरवतीस्सदमुच्छंतु भद्राः । घृतं दुहाना विश्वतः प्रपीना यूयं पात स्वस्तिभिस्सदा नः ॥ 7 ॥ यो माऽग्ने भागिनंग्ं संतमताभागं चिकीर्षति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥ 8 ॥ ॐ शांतिः शांतिः शांतिः