No festivals today or in the next 14 days. 🎉
Medha Suktam (मेधा सूक्तम्)
मेधा सूक्तम्(Medha Suktam)
तैत्तिरीयारण्यकम् - 4, प्रपाठकः - 10, अनुवाकः - 41-44
ॐ यश्छंदसामृषभो विश्वरूपः। छंदोभ्योऽध्यमृतात्संबभूव। स मेंद्रो मेधया स्पृणोतु। अमृतस्य देवधारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरिविश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय ॥
ॐ शांतिः शांतिः शांतिः ॥
ॐ मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्य माना। त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः। त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया। त्वया जुष्टश्चित्रं-विंन्दते वसु सा नो जुषस्व द्रविणो न मेधे ॥
मेधां म इंद्रो ददातु मेधां देवी सरस्वती। मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा। अप्सरासु च या मेधा गंधर्वेषु च यन्मनः। दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषतात् स्वाहा ॥
आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या। ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषंताम् ॥
मयि मेधां मयि प्रजां मय्यग्नि-स्तेजो दधातु,
मयि मेधां मयि प्रजां मय्यिंद्र इंद्रियं दधातु,
मयि मेधां मयि प्रजां मयि सूर्यः भ्राजो दधातु ॥
[ॐ हंस हंसाय विद्महे परमहंसाय धीमहि। तन्नो हंसः प्रचोदया ॥ (हंसगायत्री)]
ॐ शांतिः शांतिः शांतिः