Vishwakarma Suktam (विश्वकर्म सूक्तम्)

विश्वकर्म सूक्तम्(Vishwakarma Suktam) य इमा विश्वा भुवनानि जुह्वदृषिर्होता निषसादा पिता नः। स आशिषा द्रविणमिच्छमानः परमच्छदो वर आ विवेश॥ विश्वकर्मा मनसा यद्विहाय धाता विधाता परमोत संदृक्। तेषामिष्टानि समि॒षा मदंति यत्र सप्तर्षीन्पर एकमाहुः॥ यो नः पिता जनिता यो विधाता यो नः सतो अभ्या सज्जजान। यो देवानां नामधा एक एव तं संप्रश्नं भुवना यंत्यन्या॥ त आयजंत द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना। असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्निमानि॥ न तं विदाथ य इदं जजानान्यद्युष्माकमंतरं भवाति। नीहारेण प्रावृता जल्प्या चासुतृप उक्थशाश्चरंति॥ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्गुहा यत्। कगं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छंत विश्वे॥ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छंत विश्वे। अजस्य नाभावध्येकमर्पितं यं स्मिन्निदं विश्वं भुवनमधिश्रितम्॥ विश्वकर्मा ह्यजनिष्ट देव आदिद्गंधर्वो अभवद्द्वितीयः। तृतीयः पिता जनितौषधीनामपां गर्भंव्यँदधात्पुरुत्रा॥ चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने। यदेदंता अददृग्ंहंत पूर्वादिद्द्यावा पृथिवी अप्रथेताम्॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्। संबाहुभ्यां नमति संपतत्रैर्द्यावा पृथिवी जनयंदेव एकः॥ किगं स्विदासीदधिष्ठानमारंभणं कतमत्स्वित्किमासीत्। यदी भूमिं जनयन्विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः॥ किग्ं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावा पृथिवी निष्टतक्षुः। मनीषिणो मनसा पृच्छतेदु तद्यध्यतिष्ठद्भुवनानि धारयन्॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा। शिक्षा सखिभ्यो हविषि स्वधावः स्वयंयँजस्व तनुवं जुषाणः॥ वाचस्पतिंविँश्वकर्माणमूतये मनोयुजंवाँजे अद्या हुवेम। स नो नेदिष्ठा हवनानि जोषते विश्वशंभूरवसे साधुकर्मा॥ विश्वकर्मन्हविषा वावृधानः स्वयंयँजस्व तनुवं जुषाणः। मुह्यंत्वन्ये अभितः सपत्ना इहास्माकम्मघवा सूरिरस्तु॥ विश्वकर्मन्हविषा वर्धनेन त्रातारमिंद्रमकृणोरवध्यम्। तस्मै विशः समनमंत पूर्वीरयमुग्रो विहव्यो यथासत्॥ समुद्राय वयुना सिंधूनांपतये नमः। नदीनागं सर्वासांपि पित्रे जुहुता विश्वकर्मणे विश्वाहामर्त्यगं हविः।