Agni Suktam (अग्नि सूक्तम्) Rigved

अग्नि सूक्तम्" (ऋग्वेद) (Agni Suktam) अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत। स देवाञ्जेह वक्षति॥ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे। यशसंवीरवत्तमम्॥ अग्ने यं यज्ञमध्वरंविश्वतः परिभूरसि। स इद्देवेषु गच्छति॥ अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः। देवो देवेभिरागमत्॥ यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि। तवेतत्सत्यमङ्गिरः॥ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि॥ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम्। वर्धमानं स्वे दमे॥ स नः पितेव सूनवे-अग्ने सूपायनो भव। सचस्वा नस्स्वस्तये॥