Shiv Shadakshari Stotram (शिव षडक्षरी स्तोत्रम्)

शिव षडक्षरी स्तोत्रम् (Shiv Shadakshari Stotram) ॥ॐ ॐ॥ ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥ ॥ॐ नं॥ नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः । नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥ ॥ॐ मं॥ महातत्वं महादेव प्रियं ज्ञानप्रदं परम् । महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥ ॥ॐ शिं॥ शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् । महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥ ॥ॐ वां॥ वाहनं वृषभोयस्य वासुकिः कण्ठभूषणम् । वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥ ॥ॐ यं॥ यकारे संस्थितो देवो यकारं परमं शुभम् । यं नित्यं परमानन्दं यकाराय नमोनमः ॥ 6 ॥ षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ । तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥ शिवशिवेति शिवेति शिवेति वा भवभवेति भवेति भवेति वा । हरहरेति हरेति हरेति वा भुजमनश्शिवमेव निरन्तरम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ।