Shri Shrishail Mallikarjun Suprabhatam (श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्)

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम् (Shri Shrishail Mallikarjun Suprabhatam) प्रातस्स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ 1॥ कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥ नमस्ते नमस्ते महादेव! शम्भो! नमस्ते नमस्ते दयापूर्णसिन्धो! नमस्ते नमस्ते प्रपन्नात्मबन्धो! नमस्ते नमस्ते नमस्ते महेश ॥ 3॥ शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् । सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः ॥ 4॥ मातः! प्रसीद, सदया भव, भव्यशीले ! लीलालवाकुलितदैत्यकुलापहारे ! श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते ! श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ 5॥ शम्भो ! सुरेन्द्रनुत ! शङ्कर ! शूलपाणे ! चन्द्रावतंस ! शिव ! शर्व ! पिनाकपाणे ! गङ्गाधर ! क्रतुपते ! गरुडध्वजाप्त ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 6॥ विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते ! विश्वम्भर ! त्रिपुरभेदन ! विश्वयोने ! फालाक्ष ! भव्यगुण ! भोगिविभूषणेश ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 7॥ कल्याणरूप ! करुणाकर ! कालकण्ठ ! कल्पद्रुमप्रसवपूजित ! कामदायिन् ! दुर्नीतिदैत्यदलनोद्यत ! देव देव ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 8॥ गौरीमनोहर ! गणेश्वरसेविताङ्घ्रे ! गन्धर्वयक्षसुरकिन्नरगीतकीर्ते ! गण्डावलम्बिफणिकुण्डलमण्डितास्य ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 9॥ नागेन्द्रभूषण ! निरीहित ! निर्विकार ! निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् । नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् ! श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ 10॥ सृष्टं त्वयैव जगदेतदशेषमीश ! रक्षाविधिश्च विधिगोचर ! तावकीनः । संहारशक्तिरपि शङ्कर ! किङ्करी ते श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 11॥ एकस्त्वमेव बहुधा भव ! भासि लोके निश्शङ्कधीर्वृषभकेतन ! मल्लिनाथ ! श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ ! श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 12॥ पातालगाङ्गजलमज्जननिर्मलाङ्गाः भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः । गायन्ति देवमुनिभक्तजना भवन्तं श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 13॥ सारस्वताम्बुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः । सोपानमार्गमधिरुह्य भजन्ति भक्ताः श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 14॥ श्रीमल्लिकार्जुनमहेश्वरसुप्रभात- स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते । ते सर्व सौख्यमनुभूय परानवाप्यं श्रीशाम्भवं पदमवाप्य मुदं लभन्ते ॥ 15॥ इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।