Uddhava Gita - Chapter 8 (उद्धवगीता - अस्श्टमोऽध्यायः)

उद्धवगीता - अस्श्टमोऽध्यायः (Uddhava Gita - Chapter 8) अथास्श्टमोऽध्यायः । सुखं ऐंद्रियकं राजन् स्वर्गे नरकः एव च । देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ 1॥ ग्रासं सुमृष्टं विरसं महांतं स्तोकं एव वा । यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ 2॥ शयीत अहानि भूरीणि निराहारः अनुपक्रमः । यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ 3॥ ओजः सहोबलयुतं बिभ्रत् देहं अकर्मकम् । शयानः वीतनिद्रः च नेहेत इंद्रियवान् अपि ॥ 4॥ मुनिः प्रसन्नगंभीरः दुर्विगाह्यः दुरत्ययः । अनंतपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ 5॥ समृद्धकामः हीनः वा नारायणपरः मुनिः । न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ 6॥ दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेंद्रियः । प्रलोभितः पतति अंधे तमसि अग्नौ पतंगवत् ॥ 7॥ योषित् हिरण्य आभरण अंबरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा हि उपभोगबुद्ध्या पतंगवत् नश्यति नष्टदृष्टिः ॥ 8॥ स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता । गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ 9॥ अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः । सर्वतः सारं आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ 10॥ सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षितम् । पाणिपात्र उदरामत्रः मक्षिका इव न संग्रही ॥ 11॥ सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षुकः । मक्षिकाः इव संगृह्णन् सह तेन विनश्यति ॥ 12॥ पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीं अपि । स्पृशन् करीव बध्येत करिण्या अंगसंगतः ॥ 13॥ न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युं आत्मनः । बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ 14॥ न देयं न उपभोग्यं च लुब्धैः यत् दुःख संचितम् । भुंक्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ 15॥ सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः । मधुहेव अग्रतः भुंक्ते यतिः वै गृहमेधिनाम् ॥ 16॥ ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् । शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ 17॥ नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनकः वश्यः ऋष्यश‍ऋंगः मृगीसुतः ॥ 18॥ जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः । मृत्युं ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ 19॥ इंद्रियाणि जयंति आशुः निराहाराः मनीषिणः । वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ 20॥ तावत् जितेंद्रियः न स्यात् विजितानि इंद्रियः पुमान् । न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ 21॥ पिंगला नाम वेश्या आसीत् विदेहनगरे पुरा । तस्या मे शिक्षितं किंचित् निबोध नृपनंदन ॥ 22॥ सा स्वैरिण्येकदा कांतं संकेत उपनेष्यती । अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ 23॥ मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ । तान् शुल्कदान्वित्तवतः कांतान्मेनेऽर्थकामुका ॥ 24॥ आगतेष्वपयातेषु सा संकेतोपजीवनी । अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ 25॥ एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलंबती । निर्गच्छंती प्रविशती निशीथं समपद्यत ॥ 26॥ तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिंताहेतुः सुखावहः ॥ 27॥ तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ 28॥ न हि अंगाजातनिर्वेदः देहबंधं जिहासति । यथा विज्ञानरहितः मनुजः ममतां नृप ॥ 29॥ पिंगला उवाच । अहो मे मोहविततिं पश्यत अविजित आत्मनः । या कांतात् असतः कामं कामये येन बालिशा ॥ 30॥ संतं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यं इमं विहाय । अकामदं दुःखभय आदि शोक मोहप्रदं तुच्छं अहं भजे अज्ञा ॥ 31॥ अहो मयात्मा परितापितो वृथा सांकेत्यवृत्त्याऽतिविगर्ह्यवार्तया । स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ 32॥ यदस्थिभिर्निर्मितवंशवंश्य स्थूणं त्वचा रोमनखैः पिनद्धम् । क्षरन्नवद्वारमगारमेतद् विण्मूत्रपूर्णं मदुपैति कान्या ॥ 33॥ विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः । याऽन्यस्मिच्छंत्यसत्यस्मादात्मदात्काममच्युतात् ॥ 34॥ सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ 35॥ कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः । आद्यंतवंतो भार्याया देवा वा कालविद्रुताः ॥ 36॥ नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा । निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ 37॥ मैवं स्युर्मंदभग्यायाः क्लेशा निर्वेदहेतवः । येनानुबंधं निहृत्य पुरुषः शममृच्छति ॥ 38॥ तेन उपकृतं आदाय शिरसा ग्राम्यसंगताः । त्यक्त्वा दुराशाः शरणं व्रजामि तं अधीश्वरम् ॥ 39॥ संतुष्टा श्रद्दधत्येतद्यथालाभेन जीवती । विहराम्यमुनैवाहमात्मना रमणेन वै ॥ 40॥ संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ 41॥ आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ 42॥ ब्राह्मण उवाच । एअवं व्यवसितमतिर्दुराशां कांततर्षजाम् । छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ 43॥ आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा संछिद्य कांताशां सुखं सुष्वाप पिंगला ॥ 44॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे पिंगलोपाख्याऽनेष्टमोऽध्यायः ॥