Shri Krishna Ashtottara Sata Nama Stotram (श्रीकृष्णाष्टोत्तरशत नामस्तोत्रं)

श्रीकृष्णाष्टोत्तरशत नामस्तोत्रं (Sri Krishna Ashtottara Sata Nama Stotram) श्रीगोपालकृष्णाय नमः ॥ श्रीशेष उवाच ॥ ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य। श्रीशेष ऋषिः ॥ अनुष्टुप् छंदः ॥ श्रीकृष्णोदेवता ॥ श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥ ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ 1 ॥ श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदा शंखाद्युदायुधः ॥ 2 ॥ देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ 3 ॥ पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ 4 ॥ नवनीतविलिप्तांगो नवनीतनटोऽनघः । नवनीतनवाहारो मुचुकुंदप्रसादकः ॥ 5 ॥ षोडशस्त्री सहस्रेश स्रिभंगि मधुराकृतिः । शुकवागमृताब्धींदुर्गोविंदो गोविदांपतिः ॥ 6 ॥ वत्सवाटचरोऽनंतो धेनुकासुरभंजनः । तृणीकृततृणावर्तो यमलार्जुनभंजनः ॥ 7 ॥ उत्तानतालभेत्ता च तमालश्यामलाकृतिः । गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ॥ 8 ॥ इलापतिः परंज्योतिर्यादवेंद्रो यदूद्वहः । वनमाली पीतवासाः पारिजातापहारकः ॥ 9 ॥ गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः । अजो निरंजनः कामजनकः कंजलोचनः ॥ 10 ॥ मधुहा मथुरानाथो द्वारकानायको बली । वृंदावनांतसंचारी तुलसीदामभूषणः ॥ 11 ॥ श्यमंतकमणेर्हर्ता नरनारायणात्मकः । कुब्जाकृष्णांबरधरो मायी परमपूरुषः ॥ 12 ॥ मुष्टिकासुरचाणूरमहायुद्धविशारदः । संसारवैरी कंसारिर्मुरारिर्नरकांतकः ॥ 13 ॥ अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः । शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकः ॥ 14 ॥ विदुराक्रूरवरदो विश्वरूपप्रदर्शकः । सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी ॥ 15 ॥ सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः । जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ 16 ॥ वृषभासुरविध्वंसी बाणासुरबलांतकः । युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ 17 ॥ पार्थसारथिरव्यक्तो गीतामृतमहोदधिः । कालीयफणिमाणिक्यरंजितश्रीपदांबुजः ॥ 18 ॥ दामोदरो यज्ञभोक्ता दानवेंद्रविनाशकः । नारायणः परंब्रह्म पन्नगाशनवाहनः ॥ 19 ॥ जलक्रीडासमासक्त गोपीवस्त्रापहारकः । पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ 20 ॥ सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः । एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ 21 ॥ कृष्णनामामृतं नाम परमानंदकारकम् । अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ 22 ॥ ॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्वरसंवादे धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥