Shrimad Bhagwad Gita Parayaan - Chapter 9 (श्रीमद्भगवद्गीता पारायण - नवमोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - नवमोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 9) ॐ श्रीपरमात्मने नमः अथ नवमोऽध्यायः राजविद्याराजगुह्ययोगः श्री भगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥1॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥2॥ अश्रद्दधानाः पुरुषाः धर्मस्यास्य परंतप । अप्राप्य मां निवर्तंते मृत्युसंसारवर्त्मनि ॥3॥ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्‌स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥4॥ न च मत्‌स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थः ममात्मा भूतभावनः ॥5॥ यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्‌स्थानीत्युपधारय ॥6॥ सर्वभूतानि कौंतेय प्रकृतिं यांति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥7॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात् ॥8॥ न च मां तानि कर्माणि निबध्नंति धनंजय । उदासीनवदासीनम् असक्तं तेषु कर्मसु ॥9॥ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौंतेय जगद्विपरिवर्तते ॥10॥ अवजानंति मां मूढाः मानुषीं तनुमाश्रितम् । परं भावमजानंतः मम भूतमहेश्वरम् ॥11॥ मोघाशा मोघकर्माणः मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥12॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजंत्यनन्यमनसः ज्ञात्वा भूतादिमव्ययम् ॥13॥ सततं कीर्तयंतो मां यतंतश्च दृढव्रताः । नमस्यंतश्च मां भक्त्या नित्ययुक्ता उपासते ॥14॥ ज्ञानयज्ञेन चाप्यन्ये यजंतो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥15॥ अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मंत्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम् ॥16॥ पिताऽहमस्य जगतः माता धाता पितामहः । वेद्यं पवित्रमोंकारः ऋक्साम यजुरेव च ॥17॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥18॥ तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥19॥ त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयंते । ते पुण्यमासाद्य सुरेंद्रलोकम् अश्नंति दिव्यांदिवि देवभोगान् ॥20॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशंति । एवं त्रयीधर्ममनुप्रपन्नाः गतागतं कामकामा लभंते ॥21॥ अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥22॥ येऽप्यन्यदेवता भक्ताः यजंते श्रद्धयान्विताः । तेऽपि मामेव कौंतेय यजंत्यविधिपूर्वकम् ॥23॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानंति तत्त्वेनातश्च्यवंति ते ॥24॥ यांति देवव्रता देवान् पितॄन्यांति पितृव्रताः । भूतानि यांति भूतेज्याः यांति मद्याजिनोऽपि माम् ॥25॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥26॥ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौंतेय तत्कुरुष्व मदर्पणम् ॥27॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबंधनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥28॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजंति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥29॥ अपि चेत्सुदुराचारः भजते मामनन्यभाक् । साधुरेव स मंतव्यः सम्यग्व्यवसितो हि सः ॥30॥ क्षिप्रं भवति धर्मात्मा शश्वच्छांतिं निगच्छति । कौंतेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥31॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यांति परां गतिम् ॥32॥ किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम् ॥33॥ मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥34॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥