Shri Mahalakshmi Kavacha (श्री महालक्ष्मी कवचम्)

॥ श्री महालक्ष्मी कवचम् ॥ (Shri Mahalakshmi Kavacha) ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दःमहालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोग। इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् । आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः । चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा । चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी । मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी । बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी । कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ कटिं च पातु वाराही सक्थिनी देवदेवता । ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता । नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ॥ ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः । ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ कवचेनावृताङ्गनां जनानां जयदा सदा । मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् । लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ नामत्रयमिदं जप्त्वा स याति परमां श्रियम् । यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् ॥ ॥ इति श्री महालक्ष्मी कवचं सम्पूर्णम् ॥