Mahalakshmi Stuti (महालक्ष्मी स्तुति)

|| महालक्ष्मी स्तुति || (Mahalakshmi Stuti) महालक्ष्मीमहं भजे । देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे । सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे । सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे । सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे । सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे । आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे । काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे । दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे । सौम्यलोकमतिसुचरां सरलां महालक्ष्मीमहं भजे । सिद्धिबुद्धिसमफलदां सकलां महालक्ष्मीमहं भजे । सूर्यदीप्तिसमसुषमां सुरमां महालक्ष्मीमहं भजे । सर्वदेशगतशरणां शिवदां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे ।