Dhanvantari Mantra (धन्वंतरी मंत्र)

धन्वंतरी मंत्र(Dhanvantari Mantra) ध्यानं अच्युतानंत गोविंद विष्णो नारायणाऽमृत रोगान्मे नाशयाऽशेषानाशु धन्वंतरे हरे । आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं स्वभक्तेभ्योऽनुगृह्णंतं वंदे धन्वंतरिं हरिम् ॥ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः । सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम् । कालांभोदोज्ज्वलांगं कटितटविलसच्चारुपीतांबराढ्यम् । वंदे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥ धन्वंतरेरिमं श्लोकं भक्त्या नित्यं पठंति ये । अनारोग्यं न तेषां स्यात् सुखं जीवंति ते चिरम् ॥ मंत्रं ॐ नमो भगवते वासुदेवाय धन्वंतरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा । [पाठांतरः] ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वंतरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा । गायत्री मंत्रम् ॐ वासुदेवाय विद्महे सुधाहस्ताय धीमहि । तन्नो धन्वंतरिः प्रचोदयात् । तारकमंत्रम् ॐ धं धन्वंतरये नमः ।