Sudarshan Shatkam (सुदर्शन षट्कम्)

सुदर्शन षट्कम् (Sudarshan Shatkam) सहस्रादित्यसङ्काशं सहस्रवदनं परम् । सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ 1 ॥ हसन्तं हारकेयूर मकुटाङ्गदभूषणैः । शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ 2 ॥ स्राकारसहितं मन्त्रं वदनं शत्रुनिग्रहम् । सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 3 ॥ रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम् । व्युप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ 4 ॥ हुङ्कारभैरवं भीमं प्रणातार्तिहरं प्रभुम् । सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ 5 ॥ फट्कारास्तमनिर्देश्य दिव्यमन्त्रेणसंयुतम् । शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ 6 ॥ एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः । रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ 7 ॥