Gita Govindam dvitiyah sargah - Aklesh Keshavah (गीतगोविन्दं द्वितीयः सर्गः - अक्लेश केशवः)

गीतगोविन्दं द्वितीयः सर्गः - अक्लेश केशवः (Gita Govindam dvitiyah sargah - Aklesh Keshavah) ॥ द्वितीयः सर्गः ॥ ॥ अक्लेशकेशवः ॥ विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः । क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ 14 ॥ ॥ गीतं 5 ॥ सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥ रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ 1 ॥ चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ 2 ॥ गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ 3 ॥ विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ 4 ॥ जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् । पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ 5 ॥ मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ 6 ॥ विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ 7 ॥ श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ 8 ॥ गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ 15 ॥ ॥ गीतं 6 ॥ निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥ सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ 1 ॥ प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ 2 ॥ किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ 3 ॥ अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ 4 ॥ कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् । श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ 5 ॥ चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ 6 ॥ रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ 7 ॥ श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ 8 ॥ हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् । मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ 16 ॥ दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ 17 ॥ ॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥