Gita-Govindam Collection

    Gita govindam Pratham Sargaah - Samoda Damodarah (गीतगोविन्दं प्रथमः सर्गः - सामोद दामोदरः)

    गीतगोविन्दं प्रथमः सर्गः - सामोद दामोदरः (Gita govindam Pratham Sargaah - Samoda Damodarah) ॥ गीतगोविन्दम् ॥ ॥ अष्टपदी ॥ ॥ श्री गोपालक ध्यानम् ॥ यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुम्भ कलशे व्यागोचमिन्दीवरम् । यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 1 ॥ ॥ श्री जयदेव ध्यानम् ॥ राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् । श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ 2 ॥ श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥ लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ 3 ॥ ॥ प्रथमः सर्गः ॥ ॥ सामोददामोदरः ॥ मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ 1 ॥ वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥ 2 ॥ यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ 3 ॥ वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ 4 ॥ ॥ गीतं 1 ॥ प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ 1 ॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 ॥ वसति दशनशिखरे धरणी तव लग्ना । शशिनि कलङ्ककलेव निमग्ना ॥ केशव धृतसूकररूप जय जगदीश हरे ॥ 3 ॥ तव करकमलवरे नखमद्भुतशृङ्गम् । दलितहिरण्यकशिपुतनुभृङ्गम् ॥ केशव धृतनरहरिरूप जय जगदीश हरे ॥ 4 ॥ छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ॥ केशव धृतवामनरूप जय जगदीश हरे ॥ 5 ॥ क्षत्रियरुधिरमये जगदपगतपापम् । स्नपयसि पयसि शमितभवतापम् ॥ केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ 6 ॥ वितरसि दिक्षु रणे दिक्पतिकमनीयम् । दशमुखमौलिबलिं रमणीयम् ॥ केशव धृतरामशरीर जय जगदीश हरे ॥ 7 ॥ वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम् ॥ केशव धृतहलधररूप जय जगदीश हरे ॥ 8 ॥ निन्दसि यज्ञविधेरहह श्रुतिजातम् । सदयहृदयदर्शितपशुघातम् ॥ केशव धृतबुद्धशरीर जय जगदीश हरे ॥ 9 ॥ म्लेच्छनिवहनिधने कलयसि करवालम् । धूमकेतुमिव किमपि करालम् ॥ केशव धृतकल्किशरीर जय जगदीश हरे ॥ 10 ॥ श्रीजयदेवकवेरिदमुदितमुदारम् । शृणु सुखदं शुभदं भवसारम् ॥ केशव धृतदशविधरूप जय जगदीश हरे ॥ 11 ॥ वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ 5 ॥ ॥ गीतं 2 ॥ श्रितकमलाकुचमण्डल! धृतकुण्डल! । कलितललितवनमाल! जय, जय, देव! हरे! ॥ 1 ॥ दिनमणीमण्डलमण्डन! भवखण्डन! । मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ 2 ॥ कालियविषधरगञ्जन! जनरञ्जन! । यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ 3 ॥ मधुमुरनरकविनाशन! गरुडासन! । सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ 4 ॥ अमलकमलदललोचन! भवमोचन्! । त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ 5 ॥ जनकसुताकृतभूषण! जितदूषण! । समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ 6 ॥ अभिनवजलधरसुन्दर! धृतमन्दर! । श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ 7 ॥ श्रीजयदेवकवेरिदं कुरुते मुदम् । मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ 8 ॥ पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ 6 ॥ वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् । अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ 7 ॥ ॥ गीतं 3 ॥ ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥ विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ 1 ॥ उन्मदमदनमनोरथपथिकवधूजनजनितविलापे । अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे ॥ 2 ॥ मृगमदसौरभरभसवशंवदनवदलमालतमाले । युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ 3 ॥ मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे । मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ 4 ॥ विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ 5 ॥ माधविकापरिमलललिते नवमालिकजातिसुगन्धौ । मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ 6 ॥ स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते । बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ 7 ॥ श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् । सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ 8 ॥ दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि । इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ 8 ॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथङ्कथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 9 ॥ अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम् । मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ 10 ॥ ॥ गीतं 4 ॥ चन्दनचर्चितनीलकलेबरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥ हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ 1 ॥ पीनपयोधरभारभरेण हरिं परिरम्य सरागम् । गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ 2 ॥ कापि विलासविलोलविलोचनखेलनजनितमनोजम् । ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ 3 ॥ कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले । चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ 4 ॥ केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ 5 ॥ करतलतालतरलवलयावलिकलितकलस्वनवंशे । रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ 6 ॥ श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् । पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ 7 ॥ श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् । वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ 8 ॥ विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् । स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ 11 ॥ अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः । किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ 12 ॥ रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ 13 ॥ ॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥

    Gita Govindam dvitiyah sargah - Aklesh Keshavah (गीतगोविन्दं द्वितीयः सर्गः - अक्लेश केशवः)

    गीतगोविन्दं द्वितीयः सर्गः - अक्लेश केशवः (Gita Govindam dvitiyah sargah - Aklesh Keshavah) ॥ द्वितीयः सर्गः ॥ ॥ अक्लेशकेशवः ॥ विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः । क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ 14 ॥ ॥ गीतं 5 ॥ सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥ रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ 1 ॥ चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ 2 ॥ गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ 3 ॥ विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ 4 ॥ जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् । पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ 5 ॥ मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ 6 ॥ विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ 7 ॥ श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ 8 ॥ गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ 15 ॥ ॥ गीतं 6 ॥ निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥ सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ 1 ॥ प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ 2 ॥ किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ 3 ॥ अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ 4 ॥ कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् । श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ 5 ॥ चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ 6 ॥ रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ 7 ॥ श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ 8 ॥ हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् । मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ 16 ॥ दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ 17 ॥ ॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

    Gita Govindam trutiyah sargah - Mugdh Madhusudanah (गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः)

    गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः (Gita Govindam trutiyah sargah - Mugdh Madhusudanah) ॥ तृतीयः सर्गः ॥ ॥ मुग्धमधुसूदनः ॥ कंसारिरपि संसारवासनाबन्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ 18 ॥ इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः । कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ 19 ॥ ॥ गीतं 7 ॥ मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारितातिभयेन ॥ हरि हरि हतादरतया गता सा कुपितेव ॥ 1 ॥ किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवनेन गृहेण ॥ 2 ॥ चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ 3 ॥ तामहं हृदि सङ्गतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ 4 ॥ तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ 5 ॥ दृश्यते पुरतो गतागतमेव मे विदधासि । किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥ 6 ॥ क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ 7 ॥ वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ 8 ॥ हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ 20 ॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ 21 ॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ 22 ॥ तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ 23 ॥ भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजङ्गमदेवतायां अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ 24 ॥ [एषः श्लोकः केषुचन संस्करणेषु विद्यते] तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्- दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः । सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा- सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (25) ॥ ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

    Gita Govindam Chaturthah Sargah - Snigdh Madhusudanah (गीतगोविन्दं चतुर्थः सर्गः - स्निग्ध मधुसूदनः)

    गीतगोविन्दं चतुर्थः सर्गः - स्निग्ध मधुसूदनः (Gita Govindam Chaturthah Sargah - Snigdh Madhusudanah) ॥ चतुर्थः सर्गः ॥ ॥ स्निग्धमधुसूदनः ॥ यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ 25 ॥ ॥ गीतं 8 ॥ निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥ कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥ वहति च गलितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ 4 ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥ प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥ ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ 7 ॥ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥ ॥ गीतं 9 ॥ स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ 1 ॥ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥ 2 ॥ श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ 3 ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ 4 ॥ नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ 5 ॥ त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ 6 ॥ हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ 7 ॥ श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥ सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ 27 ॥ स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ 28 ॥ कन्दर्पज्वरसञ्ज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति । किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥ ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥

    Gita Govindam Panchamah sargah - Sakanksh Pundarikakshah (गीतगोविन्दं पञ्चमः सर्गः - साकाङ्क्ष पुण्डरीकाक्षः)

    गीतगोविन्दं पञ्चमः सर्गः - साकाङ्क्ष पुण्डरीकाक्षः (Gita Govindam Panchamah sargah - Sakanksh Pundarikakshah) ॥ पञ्चमः सर्गः ॥ ॥ साकाङ्क्षपुण्डरीकाक्षः ॥ अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥ ॥ गीतं 10 ॥ वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तव विरहे वनमाली सखि सीदति ॥ 1 ॥ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥ ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥ वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥ रणति पिकसमवाये प्रतिदिशमनुयाति । हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥ स्फुरति कलरवरावे स्मरति मणितमेव। तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥ त्वदभिधशुभदमासं वदति नरि शृणोति । तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥ भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥ पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ 32 ॥ ॥ गीतं 11 ॥ रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥ नाम समेतं कृतसङ्केतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ 2 ॥ पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ 3 ॥ मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ 4 ॥ उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥ विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥ हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥ श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥ विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 33 ॥ त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥ सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः। स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 36 + 1 ॥ ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

    Gita Govindam Shashtah sargah - Kunth Vaikunthah (गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः)

    गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः (Gita Govindam Shashtah sargah - Kunth Vaikunthah) ॥ षष्ठः सर्गः ॥ ॥ कुण्ठवैकुण्ठः ॥ अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ 37 ॥ ॥ गीतं 12 ॥ पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥ नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ 1 ॥ त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥ 2 ॥ विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥ 3 ॥ मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥ 4 ॥ त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥ 5 ॥ श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ 7 ॥ श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥ विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्। रधायावचनं तदध्वगमुखान्नन्दान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥ ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥