Shrimad Bhagwad Gita Parayaan - Chapter 15 (श्रीमद्भगवद्गीता पारायण - पंचदशोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - पंचदशोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 15) ॐ श्री परमात्मने नमः अथ पंचदशोऽध्यायः पुरुषोत्तमप्राप्तियोगः श्री भगवानुवाच ऊर्ध्वमूलमधःशाखम् अश्वत्थं प्राहुरव्ययम् । छंदांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥1॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबंधीनि मनुष्यलोके ॥2॥ न रूपमस्येह तथोपलभ्यते नांतो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलम् असंगशस्त्रेण दृढेन छित्त्वा ॥3॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तंति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥4॥ निर्मानमोहा जितसंगदोषाः अध्यात्मनित्या विनिवृत्तकामाः । द्वंद्वैर्विमुक्ताः सुखदुःख संज्ञैः गच्छंत्यमूढाः पदमव्ययं तत् ॥5॥ न तद्भासयते सूर्यः न शशांको न पावकः । यद्गत्वा न निवर्तंते तद्धाम परमं मम ॥6॥ ममैवांशो जीवलोके जीवभूतः सनातनः । मनः षष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति ॥7॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गंधानिवाशयात् ॥8॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥9॥ उत्क्रामंतं स्थितं वाऽपि भुंजानं वा गुणान्वितम् । विमूढा नानुपश्यंति पश्यंति ज्ञानचक्षुषः ॥10॥ यतंतो योगिनश्चैनं पश्यंत्यात्मन्यवस्थितम् । यतंतो ऽप्यकृतात्मानः नैनं पश्यंत्यचेतसः ॥11॥ यदादित्यगतं तेजः जगद्भासयतेऽखिलम् । यच्चंद्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥12॥ गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥13॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥14॥ सर्वस्य चाहं हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यः वेदांतकृद्वेदविदेव चाहम् ॥15॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥16॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥17॥ यस्मात्क्षरमतीतोऽहम् अक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥18॥ यो मामेवमसम्मूढः जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥19॥ इति गुह्यतमं शास्त्रम् इदमुक्तं मयाऽनघ । एतद्बुद्ध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत ॥20॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम पंचदशोऽध्यायः ॥