Gita Govindam Chaturthah Sargah - Snigdh Madhusudanah (गीतगोविन्दं चतुर्थः सर्गः - स्निग्ध मधुसूदनः)

गीतगोविन्दं चतुर्थः सर्गः - स्निग्ध मधुसूदनः (Gita Govindam Chaturthah Sargah - Snigdh Madhusudanah) ॥ चतुर्थः सर्गः ॥ ॥ स्निग्धमधुसूदनः ॥ यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ 25 ॥ ॥ गीतं 8 ॥ निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥ कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥ वहति च गलितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ 4 ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥ प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥ ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ 7 ॥ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥ ॥ गीतं 9 ॥ स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ 1 ॥ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥ 2 ॥ श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ 3 ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ 4 ॥ नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ 5 ॥ त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ 6 ॥ हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ 7 ॥ श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥ सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ 27 ॥ स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ 28 ॥ कन्दर्पज्वरसञ्ज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति । किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥ ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥