Devyaaratrikam Stotra (देव्याआरात्रिकम्)

देव्या आरात्रिकम् प्रवरातीरनिवासिनि निगमप्रतिपाद्ये पारावारविहारिणि नारायणि हृद्ये । प्रपञ्चसारे जगदाधारे श्रीविद्ये प्रपन्नपालननिरते मुनिवृन्दाराध्ये॥१॥ जय देवि जय देवि जय मोहनरूपे मामिह जननि समुद्धर पतितं भवकूपे ।। ध्रुवपदम् ॥ दिव्यसुधाकरवदने कुन्दोज्ज्वलरदने पदनखनिर्जितमदने मधुकैटभकदने । विकसितपङ्कजनयने पन्नगपतिशयने खगपतिवहने गहने सङ्कटवनदहने ॥ जय देवि० ॥ २ ॥ मञ्जीराङ्कितचरणे मणिमुक्ताभरणे कञ्चकिवस्त्रावरणे वक्त्राम्बुजधरणे। शक्रामयभयहरणे भूसुरसुखकरणे करुणां कुरु मे शरणे गजनक्रोद्धरणे ॥ जय देवि० ॥ ३ ॥ छित्त्वा राहुग्रीवां पासि त्वं विबुधान् ददासि मृत्युमनिष्टं पीयूषं विबुधान् । विहरसि दानवऋद्धान् समरे संसिद्धान् मध्वमुनीश्वरवरदे पालय संसिद्धान् ।। जय देवि० ॥ ४ ॥ इति देव्या आरात्रिकं समाप्तम् ।