Mrit Sanjeevanee Kavach (मृत संजीवनी कवच)

मृत संजीवनी कवच(Mrit Sanjeevanee Kavach) जब मृत देह को अधिक काल तक सुरक्षित रखना हो, जब भी कोई देह त्याग करने लगे अर्थात प्राणान्त के समय संजीवनी कवच का पाठ अति उत्तम है। एवमाराध्य गौरीशं देवं मृत्युं जयेश्वरम्‌। मृतसंजीवनं नाम्नां कवचं प्रजपेत्सदा ॥ १॥ सारात्सारतरं पुण्यं गुह्याद्‌ गुहातरं शुभम्‌। महादेवस्य कवचं मृतसंजीवनामकम्‌॥ २॥ समाहितमना भूत्वा शृणुष्व ` कवचं शुभम्‌। श्रुत्वैतदिव्यकवचं रहस्यं कुरु सर्वदा॥३॥ वराभयकरो यज्वा सर्वदेवनिषेवितः। मृत्युंजयो महादेवः प्राच्यां मां पातु सर्वदा॥ ४॥ दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ ५॥ अष्टादशभुजोपेतो दण्डाभयकरो विभु:। यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥ ६॥ खङ्ाभयकरो धीरो रक्षोगणनिषेवितः। रक्षोरूपी महेशो मां नैऋत्यां सर्वदाऽवतु ॥ ७॥ पाशाभयभुजः सर्वरत्नाकरनिषेवितः। वरुणात्मा महादेव: पश्चिमे मां सदाऽवतु ॥ ८॥ गदाभयकरः प्राणनायकः सर्वदागतिः। वायव्यां मारुतात्मा मां शंकरः पातु सर्वदा॥ ९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः। सर्वात्मान्तरदिग्भागे पातु मां शंकरः प्रभुः॥ १०॥ शूलाभयकरः सर्वविद्यानामधिनायकः। ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ १९॥ ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु। शिरो मे शंकरः पातुः ललाटं चन्द्ररोखरः ॥ १२॥ भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु। भरूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ १३॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्षिणमूर्तिर्दन्ताममे गिरिशोऽवतु ॥ १४॥ मृत्युंजयो मुखं पातु कण्ठं मे नागभूषणः। पिनाकी मत्करौ पातु त्रिशूली हदयं मम॥ ९५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाधिं पातु विरूपाक्षः पाश्वों मे पार्वतीपतिः ॥ ९६॥ कटिद्दयं गिरिशो मे पृष्ठं मे प्रमथाधिपः। गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ १७॥ जानुनी मे जगद्धर्ता जंघे मे जगदम्बिका। पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥ ९८ ॥ गिरिशः पातु मे भार्या भवः पातु सुतान्मम। मृत्युंजयो ममायुष्यं चित्तं मे गणनायकः ॥ ९९॥ सर्वाङ्ग मे सदा पातु कालकालः सदाशिवः। एतत्ते कवचं पुण्यं देवतानां च दुर्लभम्‌॥ २०॥ मृतसंजीवनं नाम्नां महादेवेन कीर्तितम् । सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥ २१॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः । स कालमृत्युं निर्जित्यं सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष्टवा मृतं संजीवयत्यसौ। आधयो व्याधयस्तस्य न भवन्ति कदाचन॥ २३॥ कालमुत्यमपि प्राप्तमसौ जयति सर्वदा। अणिमादिगुणैश्वर्य लभते मानवोत्तमः ॥२४॥ शुद्धारम्भे पठित्वेदमष्टाविंशतिवारकम्‌। युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न हृश्यते॥ २५॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति यस्य वै। विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥ प्रातरुत्थाय सततं यः पटठेत्कवचं शुभम्‌। अक्षय्यं लभते सौख्यमिह लोके परत्र च॥२७॥ सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ¦ अजरामरणो भूत्वा सदा षोडषवार्षिंकः ॥ २८॥ विचरत्यखिलोँल्लोकाप्राप्य भोगांश्च दुर्लभान्‌ । तस्मादिदं महागोप्यं कवचं समुदाहतम्‌॥ २९॥ मृतसंजीवनं नाम्ना दैवतैरपिदुर्लभम्‌॥ ३०॥