Shitalashtakam Stotra (शीतलाष्टकम् )

शीतलाष्टकम् (Shitalashtakam) अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, शीतला देवता, लक्ष्मी बीजम्, भवानी शक्तिः, सर्व- विस्फोटकनिवृत्तये जपे विनियोगः । ईश्वर उवाच वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम्। यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४॥ शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च । प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥ शीतले तनुजान् रोगान्नृणां हरसि दुस्त्यजान्। विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥ गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्। vत्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥ ७ ॥ न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते। त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥ मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां संचिन्तयेद्देवि तस्य मृत्युर्न जायते ॥ ९ ॥ अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥ श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥ शीतले त्वं जगन्माता शीतले त्वं जगत्पिता। शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२॥ रासभो गर्दभश्चैव खरो वैशाखनन्दनः । शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३॥ एतानि खरनामानि शीतलाग्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४॥ शीतलाष्टकमेवेदं न देयं यस्य कस्यचित्। दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५॥ ॥ इति श्रीस्कन्दमहापुराणे शीतलाष्टकं सम्पूर्णम् ॥