Shri Vidya Kavacha (श्री विद्या कवचम्)

॥ श्री विद्या कवचम् ॥ (Shri Vidya Kavacha) ॥ देव्युवाच ॥ देवदेव महादेव भक्तानां प्रीतिवर्धनम् । सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥ ॥ महादेव उवाच ॥ श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् । न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम् ॥ कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः । छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥ धर्मार्थकाममोक्षाणां विनियोगस्तु साधने । वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥ ऐं वाग्भवः पातु शीर्षे मां क्लीं कामराजस्तथा हृदि । सौः शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ ऐं श्रीं सौः वदने पातु बाला मां सर्वसिद्धये । ह्सौं हसकलह्रीं ह्सौः पातु भैरवी कण्ठदेशतः ॥ सुन्दरी नाभिदेशे च शीर्षे कामकला सदा । भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ललाटे सुभगा पातु भगा मां कण्ठदेशतः । भगोदया च हृदये उदरे भगसर्पिणी ॥ भगमाला नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥ चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ॥ ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा । पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ आग्नेयां पातु कौमारी महालक्ष्मीस्तु नैरृते । वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥ जले पातु महामाया पृथिव्यां सर्वमङ्गला । आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ॥ इदं तु कवचं देव्या देवानामपि दुर्लभम् । पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ नाधयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् । न च मारी भयं तस्य पातकानां भयं तथा ॥ न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च । गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत्सदा । स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम् ॥ ॥ इति श्री विद्या कवचं सम्पूर्णम् ॥