Shri Chhinnamasta Kavacha (श्री छिन्नमस्ता कवचम्)

॥ श्री छिन्नमस्ता कवचम् ॥ (Shri Chhinnamasta Kavacha) ॥ देव्युवाच ॥ कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः । त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् । त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ ॥ भैरव उवाच ॥ श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते । त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् । धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः । कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः । देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः । ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः । हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा । श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु । वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी । श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी । स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका । मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु । रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् । रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ मायया पुटिता पातु नाभिदेशे दिगम्बरा । कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका । ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा । छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् । सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु । डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु । इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ संहारिणी सदा पातु शिवकोणे सकर्त्रिका । इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके । ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु । ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु । तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु । ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती । तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् । यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् । यस्याज्ञया मधुमती याति सा साधकालयम् ॥ भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः । आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् । देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् । भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् । सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ॥ इति श्री छिन्नमस्ता कवचं सम्पूर्णम् ॥