Vasudeva Stotram (Mahabharata) (वासुदेव स्तोत्रम् (महाभारतम्))

वासुदेव स्तोत्रम् (महाभारतम्) (Vasudeva Stotram (Mahabharata)) (श्रीमहाभारते भीष्मपर्वणि पंचषष्टितमोऽध्याये श्लो: 47) विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च । विश्वेश्वरो वासुदेवोऽसि तस्मा- -द्योगात्मानं दैवतं त्वामुपैमि ॥ 47 ॥ जय विश्व महादेव जय लोकहितेरत । जय योगीश्वर विभो जय योगपरावर ॥ 48 ॥ पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर । भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ 49 ॥ असंख्येयगुणाधार जय सर्वपरायण । नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ 50 ॥ जय सर्वगुणोपेत विश्वमूर्ते निरामय । विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ 51 ॥ महोरगवराहाद्य हरिकेश विभो जय । हरिवास दिशामीश विश्वावासामिताव्यय ॥ 52 ॥ व्यक्ताव्यक्तामितस्थान नियतेंद्रिय सत्क्रिय । असंख्येयात्मभावज्ञ जय गंभीरकामद ॥ 53 ॥ अनंतविदित ब्रह्मन् नित्यभूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥ 54 ॥ गुह्यात्मन् सर्वयोगात्मन् स्फुट संभूत संभव । भूताद्य लोकतत्त्वेश जय भूतविभावन ॥ 55 ॥ आत्मयोने महाभाग कल्पसंक्षेपतत्पर । उद्भावनमनोभाव जय ब्रह्मजनप्रिय ॥ 56 ॥ निसर्गसर्गनिरत कामेश परमेश्वर । अमृतोद्भव सद्भाव मुक्तात्मन् विजयप्रद ॥ 57 ॥ प्रजापतिपते देव पद्मनाभ महाबल । आत्मभूत महाभूत सत्वात्मन् जय सर्वदा ॥ 58 ॥ पादौ तव धरा देवी दिशो बाहु दिवं शिरः । मूर्तिस्तेऽहं सुराः कायश्चंद्रादित्यौ च चक्षुषी ॥ 59 ॥ बलं तपश्च सत्यं च कर्म धर्मात्मजं तव । तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ 60 ॥ अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती । वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ 61 ॥ न संख्या न परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते न संभवम् ॥ 62 ॥ त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः । अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ 63 ॥ ऋषयो देवगंधर्वा यक्षराक्षसपन्नगाः । पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ 64 ॥ एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःखप्रणाशन ॥ 65 ॥ त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ 66 ॥ पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ 67 ॥ धर्मसंस्थापनार्थाय दैत्यानां च वधाय च । जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥ 68 ॥ यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो । वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ 69 ॥ सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना । कृष्ण त्वमात्मनो साक्षी प्रद्युम्नं चात्मसंभवम् ॥ 70 ॥ प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् । अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ 71 ॥ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः । [तस्माद्याचामि लोकेश चतुरात्मानमात्मना।] विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ 72 ॥ तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै । धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ 73 ॥ त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैर्हि नामभिर्युक्ता गायंति परमात्मकम् ॥ 74 ॥ स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाश्रयं त्वां वरदं सुबाहो । अनादिमध्यांतमपारयोगं लोकस्य सेतुं प्रवदंति विप्राः ॥ 75 ॥ इति श्रीमहाभारते भीष्मपर्वणि पंचषष्टितमोऽध्याये वासुदेव स्तोत्रम् ।