Dhundhiraja Bhujanga Prayata Stotram (धुंढिराज भुजंग प्रयात स्तोत्रम्)

धुंढिराज भुजंग प्रयात स्तोत्रम् (Dhundhiraja Bhujanga Prayata Stotram) उमांगोद्भवं दंतिवक्त्रं गणेशं भुजाकंकणैः शोभिनं धूम्रकेतुम् । गले हारमुक्तावलीशोभितं तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्ये स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् । मनश्चिंतितं कार्यमेवेषु सिद्ध्ये- -न्नमो बुद्धिकांतं गणेशं नमस्ते ॥ 2 ॥ महासुंदरं वक्त्रचिह्नं विराटं चतुर्धाभुजं चैकदंतैकवर्णम् । इदं देवरूपं गणं सिद्धिनाथं नमो भालचंद्रं गणेशं नमस्ते ॥ 3 ॥ ससिंदूरसत्कुंकुमैस्तुल्यवर्णः स्तुतैर्मोदकैः प्रीयते विघ्नराजः । महासंकटच्छेदकं धूम्रकेतुं नमो गौरिपुत्रं गणेशं नमस्ते ॥ 4 ॥ यथा पातकच्छेदकं विष्णुनाम तथा ध्यायतां शंकरं पापनाशः । यथा पूजिते षण्मुखे शोकनाशो नमो विघ्ननाशं गणेशं नमस्ते ॥ 5 ॥ सदा सर्वदा ध्यायतामेकदंतं सुसिंदूरकं पूजितं रक्तपुष्पैः । सदा चर्चितं चंदनैः कुंकुमाक्तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ 6 ॥ नमो गौरिकागर्भजापत्य तुभ्यं नमो ज्ञानरूपिन्नमः सिद्धिकांत । नमो ध्येयपूज्याय हे बुद्धिनाथ सुरास्त्वां भजंते गणेशं नमस्ते ॥ 7 ॥ भुजंगप्रयातं पठेद्यस्तु भक्त्या प्रभाते जपेन्नित्यमेकाग्रचित्तः । क्षयं यांति विघ्ना दिशः शोभयंतं नमो ज्ञानरूपं गणेशं नमस्ते ॥ 8 ॥ इति श्रीढुंढिराज भुजंग प्रयात स्तोत्रम् ।