Ganesha Dwadashanama Stotram (गणेश द्वादशनाम स्तोत्रम्)

गणेश द्वादशनाम स्तोत्रम् (Ganesha Dwadashanama Stotram) शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतयेः ॥ 1 ॥ अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ 2 ॥ गणानामधिपश्चंडो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ 3 ॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो विनायकः ॥ 4 ॥ धूम्रकेतुर्गणाध्यक्षो फालचंद्रो गजाननः । द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ 5 ॥ विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् । इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ 6 ॥ विध्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ 7 ॥ ॥ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं संपूर्णम् ॥