Narayaniyam Dashaka 78 (नारायणीयं दशक 78)

नारायणीयं दशक 78 (Narayaniyam Dashaka 78) त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरंचितरोचिषा ॥1॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥3॥ चिरधृतप्रणया त्वयि बालिका सपदि कांक्षितभंगसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनंगविनिर्मितम् ॥4॥ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥5॥ स च भवंतमवोचत कुंडिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥6॥ तव हृताऽस्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥7॥ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोत् भृशं सुहृदयं हृदयं तव कातरम् ॥8॥ अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥9॥ प्रमुदितेन च तेन समं तदा रथगतो लघु कुंडिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥10॥