Hanuman-Pancharatnam (हनुमत्-पञ्चरत्नम्)

हनुमत्-पञ्चरत्नम् (Hanuman-Pancharatnam) वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥ तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ 2 ॥ शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ 3 ॥ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥ वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ 5 ॥ एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥