Aapaduddharak Hanumatstotram (आपदुद्धारक हनुमत्स्तोत्रम्)

आपदुद्धारक हनुमत्स्तोत्रम् (Aapaduddharak Hanumatstotram) ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः । ध्यानम् । वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारिटङ्कम् । दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ 1 ॥ संवीतकौपीन मुदञ्चिताङ्गुलिं समुज्ज्वलन्मौञ्जिमथोपवीतिनम् । सकुण्डलं लम्बिशिखासमावृतं तमाञ्जनेयं शरणं प्रपद्ये ॥ 2 ॥ आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पात नाशनाय नमो नमः ॥ 3 ॥ सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते ॥ 4 ॥ आधिव्याधि महामारी ग्रहपीडापहारिणे । प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः ॥ 5 ॥ संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ 6 ॥ वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे । ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ 7 ॥ रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् । शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् ॥ 8 ॥ कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे । जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे ॥ 9 ॥ गजसिंह महाव्याघ्र चोर भीषण कानने । ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित् ॥ 10 ॥ सर्ववानरमुख्यानां प्राणभूतात्मने नमः । शरण्याय वरेण्याय वायुपुत्राय ते नमः ॥ 11 ॥ प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् । अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न संशयः ॥ 12 ॥ जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः । राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् ॥ 13 ॥ विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः । सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा ॥ 14 ॥ मन्त्रः । मर्कटेश महोत्साह सर्वशोकनिवारक । शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ 15 इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम् ॥