Hanuman (Anjaneya) Ashtottara Shatanaama Stotram (हनुमान् (आञ्जनेय) अष्टोत्तर शतनाम स्तोत्रम्)

हनुमान् (आञ्जनेय) अष्टोत्तर शतनाम स्तोत्रम् [Hanuman (Anjaneya) Ashtottara Shatanaama Stotram] आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ 3 ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ 5 ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥ 6 ॥ कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥ 7 ॥ सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः । गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ 8 ॥ कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥ वानरः केसरिसुतः सीताशोकनिवारकः । अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥ 10 ॥ विभीषणप्रियकरो दशग्रीवकुलान्तकः । लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥ चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः । अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥ 12 ॥ लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः । गन्धमादनशैलस्थो लङ्कापुरविदाहकः ॥ 13 ॥ सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः । सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ 14 ॥ कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः । कबलीकृतमार्ताण्डमण्डलो विजितेन्दिर्यः ॥ 15 ॥ रामसुग्रीवसन्धाता महिरावणमर्दनः । स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥ 16 ॥ चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः । सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ 17 ॥ कालनेमिप्रमथनो हरिमर्कटमर्कटः । दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत् ॥ 18 ॥ योगी रामकथालोलः सीतान्वेषणपण्डितः । वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ 19 ॥ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः ॥ 20 ॥ दशबाहुर्लोर्कपूज्यो जाम्बवत्प्रीतिवर्धनः । सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ 21 ॥ इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ 22 ॥