Gita Govindam Panchamah sargah - Sakanksh Pundarikakshah (गीतगोविन्दं पञ्चमः सर्गः - साकाङ्क्ष पुण्डरीकाक्षः)

गीतगोविन्दं पञ्चमः सर्गः - साकाङ्क्ष पुण्डरीकाक्षः (Gita Govindam Panchamah sargah - Sakanksh Pundarikakshah) ॥ पञ्चमः सर्गः ॥ ॥ साकाङ्क्षपुण्डरीकाक्षः ॥ अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥ ॥ गीतं 10 ॥ वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तव विरहे वनमाली सखि सीदति ॥ 1 ॥ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥ ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥ वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥ रणति पिकसमवाये प्रतिदिशमनुयाति । हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥ स्फुरति कलरवरावे स्मरति मणितमेव। तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥ त्वदभिधशुभदमासं वदति नरि शृणोति । तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥ भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥ पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ 32 ॥ ॥ गीतं 11 ॥ रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥ नाम समेतं कृतसङ्केतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ 2 ॥ पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ 3 ॥ मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ 4 ॥ उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥ विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥ हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥ श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥ विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 33 ॥ त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥ सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः। स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 36 + 1 ॥ ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥