Gita Govindam Shashtah sargah - Kunth Vaikunthah (गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः)

गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः (Gita Govindam Shashtah sargah - Kunth Vaikunthah) ॥ षष्ठः सर्गः ॥ ॥ कुण्ठवैकुण्ठः ॥ अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ 37 ॥ ॥ गीतं 12 ॥ पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥ नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ 1 ॥ त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥ 2 ॥ विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥ 3 ॥ मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥ 4 ॥ त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥ 5 ॥ श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ 7 ॥ श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥ विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्। रधायावचनं तदध्वगमुखान्नन्दान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥ ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥