Shrimad Bhagwad Gita Parayaan - Chapter 14 (श्रीमद्भगवद्गीता पारायण - चतुर्दशोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - चतुर्दशोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 14) ॐ श्री परमात्मने नमः अथ चतुर्दशोऽध्यायः गुणत्रयविभागयोगः श्री भगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥1॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायंते प्रलये न व्यथंति च ॥2॥ मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥3॥ सर्वयोनिषु कौंतेय मूर्तयः संभवंति याः । तासां ब्रह्म महद्योनिः अहं बीजप्रदः पिता ॥4॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नंति महाबाहो देहे देहिनमव्ययम् ॥5॥ तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघ ॥6॥ रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । तन्निबध्नाति कौंतेय कर्मसंगेन देहिनम् ॥7॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिः तन्निबध्नाति भारत ॥8॥ सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥9॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥10॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥11॥ लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा । रजस्येतानि जायंते विवृद्धे भरतर्षभ ॥12॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायंते विवृद्धे कुरुनंदन ॥13॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकान् अमलान्प्रतिपद्यते ॥14॥ रजसि प्रलयं गत्वा कर्मसंगिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥15॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् ॥16॥ सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसः भवतोऽज्ञानमेव च ॥17॥ ऊर्ध्वं गच्छंति सत्त्वस्थाः मध्ये तिष्ठंति राजसाः । जघन्यगुणवृत्तिस्थाः अधो गच्छंति तामसाः ॥18॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥19॥ गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैः विमुक्तोऽमृतमश्नुते ॥20॥ अर्जुन उवाच कैर्लिंगैस्त्रीन्गुणानेतान् अतीतो भवति प्रभो । किमाचारः कथं चैतान् त्रीन्गुणानतिवर्तते ॥21॥ श्री भगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥22॥ उदासीनवदासीनः गुणैर्यो न विचाल्यते । गुणा वर्तंत इत्येव योऽवतिष्ठति नेंगते ॥23॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकांचनः । तुल्यप्रियाप्रियो धीरः तुल्यनिंदात्मसंस्तुतिः ॥24॥ मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्षयोः । सर्वारंभपरित्यागी गुणातीतः स उच्यते ॥25॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥26॥ ब्रह्मणो हि प्रतिष्ठाऽहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकांतिकस्य च ॥27॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो चतुर्दशोऽध्यायः ॥