Shrimad Bhagwad Gita Parayaan - Chapter 3 (श्रीमद्भगवद्गीता पारायण - तृतीयोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - तृतीयोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 3) ॐ श्री परमात्मने नमः अथ तृतीयोऽध्यायः कर्मयोगः अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥1॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥2॥ श्री भगवानुवाच लोकेऽस्मिन्​द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥3॥ न कर्मणामनारंभात् नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥4॥ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥5॥ कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥6॥ यस्त्विंद्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेंद्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥7॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः ॥8॥ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबंधनः । तदर्थं कर्म कौंतेय मुक्तसंगः समाचर ॥9॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥10॥ देवान्भावयताऽनेन ते देवा भावयंतु वः । परस्परं भावयंतः श्रेयः परमवाप्स्यथ ॥11॥ इष्टान्भोगान्हि वो देवाः दास्यंते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यः यो भुंक्ते स्तेन एव सः ॥12॥ यज्ञशिष्टाशिनः संतः मुच्यंते सर्वकिल्बिषैः । भुंजते ते त्वघं पापाः ये पचंत्यात्मकारणात् ॥13॥ अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥14॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥15॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिंद्रियारामः मोघं पार्थ स जीवति ॥16॥ यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टः तस्य कार्यं न विद्यते ॥17॥ नैव तस्य कृतेनार्थः नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18॥ तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥19॥ कर्मणैव हि संसिद्धिं आस्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥20॥ यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥21॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥22॥ यदि ह्यहं न वर्तेय जातु कर्मण्यतंद्रितः । मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥23॥ उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः ॥24॥ सक्ताः कर्मण्यविद्वांसः यथा कुर्वंति भारत । कुर्याद्विद्वांस्तथाऽसक्तः चिकीर्षुर्लोकसंग्रहम् ॥25॥ न बुद्धिभेदं जनयेत् अज्ञानां कर्मसंगिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥26॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताऽहमिति मन्यते ॥27॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तंते इति मत्वा न सज्जते ॥28॥ प्रकृतेर्गुणसम्मूढाः सज्जंते गुणकर्मसु । तानकृत्स्नविदो मंदान् कृत्स्नविन्न विचालयेत् ॥29॥ मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥30॥ ये मे मतमिदं नित्यम् अनुतिष्ठंति मानवाः । श्रद्धावंतोऽनसूयंतः मुच्यंते तेऽपि कर्मभिः ॥31॥ ये त्वेतदभ्यसूयंतः नानुतिष्ठंति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥32॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यांति भूतानि निग्रहः किं करिष्यति ॥33॥ इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपंथिनौ ॥34॥ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥35॥ अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥36॥ श्री भगवानुवाच काम एष क्रोध एषः रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥37॥ धूमेनाव्रियते वह्निः यथाऽऽदर्शो मलेन च । यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् ॥38॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौंतेय दुष्पूरेणानलेन च ॥39॥ इंद्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येषः ज्ञानमावृत्य देहिनम् ॥40॥ तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41॥ इंद्रियाणि पराण्याहुः इंद्रियेभ्यः परं मनः । मनसस्तु पराबुद्धिः यो बुद्धेः परतस्तु सः ॥42॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥43॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥