Shri Janaki Ji Stuti (श्रीजानकीस्तुतिः )

श्रीजानकीस्तुतिः (Shri Janaki Ji Stuti) जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥ दारिद्र्यरणसंहीं भक्तानामिष्टदायिनीम् । विदेहराजतनयां राघवानन्दकारिणीम् ॥ भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् । पौलस्त्यैश्वर्यसंहर्जी भक्ताभीष्टां सरस्वतीम् ॥ पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् । अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ॥ आत्मविद्यां त्रयीरूपामुमारूपां नमाम्यहम् । प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ॥ नमामि चन्द्रभगिनीं सीतां सर्वाङ्गसुन्दरीम् । नमामि धर्मनिलयां करुणां वेदमातरम् ॥ पद्मालयां पद्महस्तां विष्णुवक्षःस्थलालयाम् । नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ॥ आह्लादरूपिणीं सिद्धि शिवां शिवकरीं सतीम्। नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम्। सीतां सर्वानवद्याङ्गीं भजामि सततं हृदा ॥ ॥ इति श्रीस्कन्दमहापुराणे सेतुमाहात्म्ये श्रीजानकीस्तुतिः सम्पूर्णा ॥