Shri Sita Kavacha (श्री सीताकवचम्)

॥ श्री सीताकवचम् ॥ (Shri Sita Kavacha) ॥ अगस्तिरुवाच ॥ सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु । आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥ या सीतावनि संभवाथमिथिलापालेन संवर्धितापद्माक्षनृपतेः सुता नलगता या मातुलिङ्गोत्भवा। या रत्ने लयमागता जलनिधौ या वेद वारं गतालङ्कां सा मृगलोचना शशिमुखी मांपातु रामप्रिया ॥ ॥ अथ न्यासः ॥ अस्य श्री सीताकवच मन्त्रस्य अगस्ति ऋषिः । श्री सीता देवता । अनुष्टुप् छन्दः । रमेति बीजम् । जनकजेति शक्तिः ऽवनिजेति कीलकम् । पद्माक्ष सुतेत्यस्त्रम् । मातुलिङ्गीति कवचम् । मूलकासुर घातिनीति मन्त्रः । श्रीसीतारामचन्द्र प्रीत्यर्थं सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥ ॥ अथ अङ्गुळी न्यासः ॥ ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं रमायै तर्जनीभ्यां नमः । ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः । ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः । ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः । ॐ ह्रः मातुलिङ्ग्यै करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादिन्यासः ॥ ॐ ह्रां सीतायै हृदयाय नमः । ॐ ह्रीं रमायै शिरसे स्वाहा । ॐ ह्रूं जनकजायै शिकायै वषट् । ॐ ह्रैं अवनिजायै कवचाय हुम् । ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् । ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ॥ अथ ध्यानम् ॥ सीतां कमलपत्राक्षीं विद्युत्पुञ्च समप्रभाम् । द्विभुजां सुकुमाराङ्गीं पीतकौसेय वासिनीम् ॥ सिंहासने रामचन्द्र वामभाग स्थितां वराम् । नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ चूडाकङ्कण केयूर रशना नूपुरान्विताम् । सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ मयूरा भरणेनापि घ्राणेति शोभितांशुभाम् । हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् । स्मिताननां गौरवर्णां मन्दार कुसुमं करे ॥ बिभ्रन्ती मपरे हस्ते मातुलिङ्ग मनुत्तमम् । रम्यवासां च बिम्बोष्ठीं चन्द्र वाहन लोचनाम् ॥ कलानाथ समानास्यां कलकण्ठ मनोरमाम् । मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ मैथिलीं रामदयितां दासीभिः परिवीजिताम् । एवं ध्यात्वा जनकजां हेमकुंभ पयोधरां ॥ सीतायाः कवचं दिव्यं पठनीयं सुभावहं ॥ ॐ । श्री सीता पूर्वतः पातु दक्षिणेवतु जानकी । प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु । मध्येवनिसुता पातु सर्वतः पातु मां रमा ॥ स्मितानना शिरः पातु पातु भालं नृपात्मजा । पद्मावतु भृवोर्मध्ये मृगाक्षी नयनेवतु ॥ कपोले कर्णमूले च पातु श्रीराम वल्लभा । नासाग्रं सात्विकी पातु पातु वक्त्रं तु राजसी ॥ तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता । दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता । भुजौ पातु वरारोहा करौ कङ्कण मण्डिता ॥ नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा । वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ पृष्ठदेशे वह्निगुप्ता वतु मां सर्वदैव हि । दिव्यप्रदा पातु नाभिं कटिं राक्षस मोहिनी ॥ गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया । ऊरू रक्षतु रंभोरूः जानुनी प्रिय भाषिणी ॥ जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता । पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ पादाङ्गुळीः सदा पातु मम नूपुर निस्वना । रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ रात्रौ पातु कालरूपा दिने दानैक तत्परा । सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् । धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्य माप्नुयात् । अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा । फलपुष्पादि कादीनि यानि यानि पृथक् पृथक् ॥ सीतायाः कवचं चेदं पुण्यं पातक नाशनम् । ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ पठन्ति रामकवचं सीतायाः कवचं विना । तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ तस्मात् सदा नरैर् जाप्यं कवचानां चतुष्टयम् । आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् । एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ ॥ इति श्री सीता कवचं सम्पूर्णम् ॥