Shri Raghunathashtakam (श्री रघुनाथाष्टकम्)

|| श्री रघुनाथाष्टकम् || (Shri Raghunathashtakam) श्री गणेशाय नमः । शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् । विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसम्मेलनसुखम् । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् । विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ५॥ विमानं चारुह्याऽनुजजनकजासेवितपद मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् । सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ६॥ प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम् । नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ७॥ तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति ज्ञात्वा जगति खलु गन्तारमजनम् ॥ अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ८॥ रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् । पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम् ॥ ९॥ ॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥